Header Ads

पाणिनीय व्याकरणे सामाजिकपक्षः(Sociology Of Panini's Grammer)


 मुरलीमोहन बाँस्तोला
                            सह–प्राध्यापक
                       रुरु संस्कृत विद्यापीठ,रिडी, गुल्मी
  संस्कृतं नाम  “दैवीवाक् १ ”इति अन्वाख्याताः विद्वद्भिः । इयं दिव्या२ आत्मनः कला अमृतस्वरूपा च । यदा मानवानां सत्ता परिपूता भवति चेतनायां सौन्दर्यबोधस्य प्रकाशः उदेति तदा३ अनादिनिधनां सुरभारतीं प्रति मानवानां चेतसि अनुरागस्य कलिका प्रस्फुटति । इयं दिव्यचेतनाया भाषा अस्या भाषायाः समुपासनेन मानवः मानवो भूत्वा समाज कल्याणाय, आत्मकल्याणाय च विचारयति । अत एव४ साक्षात् कृतधर्माणः तत्Œववेत्तारो महर्षयः अस्यामेव भाषायां आमूलं सृष्टेः रहस्यं आविर्भवियामासुः । चत्वारो वेदा, उपवेदा, वेदाङ्कानि, अष्टादश पुराणानि,महाभारतसदृश इतिहासः अस्या भाषायाः माहात्म्यं प्रकटयन्ति । अथ च यस्या भाषाया व्याकरणम् शिवùमरुनिनादसमुÈूतैश्चतुर्दशभिः सूत्रैः निर्मितम् सुधीवर्गैः स्वीक्रियते । अनेन ज्ञायते यत् अस्माकं सभ्यतायाः ज्ञानाय संस्कृतस्य कियती आवश्यकता विद्यते । अथ संस्कृतज्ञानाय च व्याकरणस्य महती आवश्यकता वर्तते ।
  चतुवर्गफलप्राप्तये उपायभूता अनादिनिधना वेदा वेदाङ्कानि पुराणानि धर्मशास्त्राणि सर्वाण्यपि अस्माकं पौरस्त्यपरम्परायाः प्रतिपादकानि ग्रन्थरत्नानि सुरभारत्यामेव विरचितानि सन्ति । सुरभारत्याः ज्ञानाय च अद्यत्वे व्याकरणमेव शरणम् इति न तिरोहितम् विदुषाम् । अतः सुरभारत्या ज्ञानं विना जीवेश्वर प्रकृतीनां स्वरूपस्य, अस्माकं सभ्यतायाः कर्तव्याकर्तव्यस्य, इतिहासस्य, ज्ञानविज्ञानस्य, सामाजिकव्यवहारस्य च प्रकाशकं कृत्स्नं संस्कृतवाङ्मयम् अन्धकारमयं भवेत् । अनेन एतदायाति विश्वसमक्षे वयं के ? अस्माकं सभ्यता का ? अस्माकं पूर्वजाः के आसन् ? अस्माकं दर्शनं किम् ? इत्यादिप्रश्नानामुत्तरं दातुं संस्कृतस्य ज्ञानं विना न शक्यते । परन्त्वस्मिन् करालकलिकालप्रभावेण लोकव्यवहारात् प्रायेण दूरीभूतायाः सुरभारत्याः शुद्धरूपेण प्रतिपत्तये व्याकरणमेव शरणम् ।
  व्याकरणं नाम शब्दज्ञानजनकं शास्त्रम्५ व्याक्रियन्ते ज्ञायन्ते शब्दा अनेन इति व्युत्पत्या । वस्तुतो नवेति विभाषा १।१।४४ इति सूत्रे विद्यमानात् “साध्वनुशासने अस्मिन् शास्त्रे ”इति भाष्यवचनात् शब्दनिष्ठसाधुत्वज्ञानं नवीनशब्दकरण् ६ च व्याकरणस्य प्रयोजनम् । व्याकरणस्य सहयोगेन अद्यापि इयं प्राचीनभाषा विकृतिं विनैव ज्ञायमाना विद्यते । यदि अस्या भाषाया व्याकरणं न स्यात् तदा अस्या नाम संस्कृतं न स्यात् । यतो हि संस्कारात् पश्चादेव संस्कृतं भवति ।
व्याकरणानि सन्त्यानेकानि तेषु पाणिनीयं व्याकरणं प्रमुखं स्थानं भजते ।  “शास्त्रेष्वाद्यं व्याकरणम् मुखं तत्रायि पाणिने ः ”इति आप्तकथनात् “सर्वे वेदपारिषद हीदं शास्त्रम्७ ”इति पतञ्जलि वचनात् लौकिकानां वैदिकानाञ्च शब्दानामनुशासनात् पाणिनीय व्याकरणस्य प्राधान्यं विद्यते । व्याकरणस्य महात्म्यं महाभारते वर्णितं विद्यते
 यथाः– 
  सर्वार्थानां व्याकरणात् वैयाकरण उच्यते
  प्रत्यक्षदर्शीलोकानां सर्वर्दशी भवेन्नर ः
(उद्योग पर्व ४३÷३६ )
  भगवता भाष्यकारेण “पितरौ चास्य स्वर्गे लोके महीयेते ”इत्यनेन व्याकरणस्य महात्म्यातिशयं प्रकाशितम् । एवं च व्याकरणाध्ययनस्य प्रयोजनं दर्शयन् प्रधानं च षट्त्सु अङ्केषु व्याकरणम् इति निगदितम् । एतच्च व्याकरणम् ब्रéा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भारद्वाजाय, भारद्वाज ऋषिभ्य, ऋषयः ब्राéणेभ्यः, तं खलु इमम् अक्षरसमाम्नायमित्याचक्षते ”इति ऋक्तन्त्रव्याकरणे दर्शनात् ज्ञायते यत् व्याकरणस्य प्रथमो प्रवक्ता ब्रéा आसीत् द्वितीयो बृहस्पतिः, तृतीय इन्द्रः, चतुर्थेा भारद्वाजः, पञ्चम कोटौ महर्षयः आसन् । ते महता कालेन गाग्र्य–शाकल–सेनकशाकटायन–स्फोटायन–भारद्वाज प्रभृतीनां वृद्धवैयाकरणानां परम्परायाः पश्चात् महामुनिः पाणिनिः आविर्बभूव ।
  महामुनिः आचार्यः पाणिनिः कदा इमामवनिमलञ्चकार इति विषये परस्परं विवदन्ते इतिहासकाराः । इदन्तु सत्यं यत् अनेन ८प्रमाणभूतेन आचार्येण महत्या तपश्चर्यया भगवन्तं९ महेश्वरं प्रसाद्य ततो मन्त्ररूपेण अक्षरसमान्नायं अधिगम्य अष्टासु अध्यायेषु गुम्फितं सर्वातिशायि व्याकरणं प्रणीतम् । पाणिनिना उपज्ञातं१० व्याकरणं सर्व शास्त्रोपकारकमिति सर्वैः स्वीक्रियते ।
 एतद् वक्तुं शक्यते यत् पाणिनिना अभिनवं व्याकरणं निर्माय संस्कृतभाषायै अमरता प्रदत्ता । अस्य व्याकरणस्य प्रभावात् लौकिकं वैदिकञ्च संस्कृतवाङ्मयं प्रकाशते । मन्ये पाणिनेः “अष्टाध्यायाः ”प्रभावात् इयं संस्कृतभाषा कालकवलिता न जाता । इयम्  “अष्टाध्यायी ”मानवमनीषायाः चरमविकासस्य स्मारिका पौरस्त्याः११ पाश्चात्याश्च भाषा तत्Œववेत्तारो विद्वांसः मुक्तकण्ठेन स्वीकुर्वन्ति । आधुनिक भाषा विज्ञानस्य जन्मदातृत्वेन स्वीकृतः विद्वान् श्री ब्लुमफिल्डमहोदयः स्वकीय ीबलनगबनभ नामके पुस्तके एवं लिखति २५०–३५० इ.पू. विरचिता पाणिनेः अष्टाध्यायी मानवप्रतिभायाः सर्वेत्तमा स्मारिका विद्यते । अद्य पर्यन्तं कस्याùपिभाषायाः तादृशं सर्वाङ्कपूर्णं व्याकरणं नास्ति ”इति । महाभाष्यकारः पतञ्जलिः अस्य व्याकरणस्य१२ सर्वशाखोपकारकत्वं स्वीकृत्य आह सर्ववेदपारिषदं हीदं शास्त्रम् तत्र नैकः पन्था शक्य आस्थातुम् ”इति आह । परिषद इदं पारिषदं–सर्ववेदसाधारणमित्यर्थः ।
   सर्वासामेव चरण परिषदामुपादेय सामग्री शास्त्रेस्मिन् विद्यते । अस्यैव व्याकरणस्य पूरकत्वेन कात्यायनेन वार्तिकं व्यलेखि । पुनश्च तत्रैव शेषावतारभूतेन अयोनिजेन महषर््िा पतञ्जलिना सरसया, सरलया, गभीरया च गिरा सर्वन्यायबीज१३ समन्वितम् अद्वितीयं ग्रन्थरत्नं महाभाष्यं प्रावाचि । इत्थं च मुनित्रय–प्रवर्तितो यो व्याकरणसम्प्रदायः भर्तृहरि–कैøयट–हरदत्त–वामन–जयादित्य–रामचन्द्र–भट्टोजिदीक्षित–कौण्डभट्ट–हरिदीक्षित–नागोजिप्रभृतिभिः शाब्दिकमूद्र्धन्यैः स्वस्व व्याख्याभिः सनाथितोùविच्छिन्नरूपेण प्रचलन् विद्यते, अयं पाणिनेः मङ्कलस्य प्रभाव ः ।
  पाणिनीय व्याकरणस्य महाभाष्यारम्भे व्याकरणस्य मुख्यं प्रयोजनं दर्शयन् आह “अथ शब्दानुशासनमिति ”। अस्यायं भावः अनुशिष्यन्ते अपशब्देभ्यः विविच्य ज्ञायन्ते शब्दा अनेनेति करण व्युत्पत्त्या अथ च “साध्वनुशासने अस्मिन् शास्त्रे इति ”नवेति विभाषा “१।१।४४ सूत्रस्थभाष्यात् शब्दज्ञानजनकं शब्दनिष्ठसाधुत्वबोधजनकञ्च इदं शास्त्रमिति सिद्ध्यति । चत्वारि श्रृङ्काः त्रयो अस्य पादाः ”इति ऋङ्मन्त्र १४व्याख्यावसरे भाष्यकारेण अस्य व्याकरणस्य दर्शनत्वं प्रत्यपादि तेन अस्य शास्त्रस्य दर्शनशास्त्रत्वमपि सिद्ध्यति ।
  पाणिनीयसूत्राणां मननेन ज्ञायते यत् इदं पाणिनेः शास्त्रं न केवलं शब्दशास्त्रं दर्शनशास्त्रञ्च अपि तु समाज शास्त्रमपि१५ विद्यते । प्रमाण भूतेन आचार्येण व्याकरणे परिशुद्धशब्दज्ञानाय एव नियमाः न प्रदर्शिता अपितु परिष्कृतसमाजनिर्माणाय समाजस्य रक्षणाय च शाश्वतनियमानां सूत्ररूपेण प्रतिपादनमपि विहितम् । पाणिनिना स्वस्मिन् काले विद्यमानानां सामाजिक परिस्थितीनाम् अथ च सर्वेषु कालेषु समुन्नतसमाजनिर्माणाय च एषां नियमानां आवश्यकता भवति तेषामपि स्वशास्त्रे वर्णनं विहितम् ।
 विषय प्रवेशः
सामाजिकशब्दो हि तद्धितप्रत्ययान्तः । तस्मै– प्रयोगाय हितः– उपकारकः इति तद्धितः । तथा च यथा समाजशब्दात् रक्षति इत्यर्थे सञ्जातः ठक्प्रत्ययः सामाजिकशब्दनिष्पत्तये हितं करोति तथैव सामाजिक शब्दस्यार्थोपि समाजस्योपकाराय ये सज्जनाः समाजं समवयन्ति, समाजं रक्षन्ति वा ते भवन्ति । अत एव अमरकोशकारः सभ्यशब्दस्य पर्यायवाचकत्वेन सामाजिकशब्दं१६ प्रायुङ्गतः । तथा हि गतिक्षेपणार्थकात् अज् धातोः –भ्वा.प.से) सवीयते अत्र, समजन्ति अत्र वा इत्यर्थे अकर्तरि च कारके संज्ञायाम् ”३।३।१९ ”इति सूत्रेण “घञ् ”प्रत्यये सति निष्पद्यते । समजशब्दो हि मानवानां समुदाय बोधकः । पशूनां समूहबोधनाय तु सम्पूर्वकात् अज् धातोः समुदोरजः पशुषु ३।३।६९ ”सुत्रेण सम्वीयते अत्र इत्यर्थे “अप् ”प्रत्यये सति निष्पन्नः समजशब्दः प्रयुज्यते, पशुभिन्नानां समूह बोधनाय च१७ समाजशब्दः प्रयुज्यते । विशेष शब्द एवं विशिष्टम् अर्थं बोधयति इति द्योतनाय शब्दतत्Œवविद्भिः विशिष्टार्थबोधनाय विशेषशब्दः प्रयुक्तः इति ज्ञेयम् । यथा मनुष्यशब्दस्य निर्वचनं कुर्वाणो यास्काचार्यो निरुक्ते आह– मत्वा कर्माणि सीव्यतीति मनुष्यः, तथैव मानवानां समूह बोधनाय कोषकारः आहः समाजोथ सधर्मिणाम् (अमरकोष २।४२ ) अस्यायमभिप्रायःप्रतिभाति यत्–पशुभिन्नानां मानवानां स्वभावो भिन्नो भवति, इति द्योतनाय भिन्नभिन्नप्राणिनां समूह बोधनाय भिन्नभिन्न एव शब्दः प्रयुत्तः ।
मनुष्यसमाजः विचारवान् गतिमान् च भूयात् इति धारणया एकस्मादेव धातोः द्वौ प्रत्ययौ विहितौ । प्रत्ययशब्दस्य द्वौ अर्थौ भवतः एकः प्रत्ययः ३।१।१ इति सूत्रस्य अधिकारे विद्यमानेन सूत्रेण विहितः प्रत्ययः, अपरः अर्थः ज्ञानम् भवति । मनुष्ये पशौ च ज्ञानस्यैव भेदो वरीवर्ति । अत्रेदमपि अवधेयं यत् गत्यर्थकात् अज् धातोः घञ्प्रत्यये सति निष्पन्न समाजशब्दः१८ क्रियाशब्दः । समाजशब्दस्य क्रियाशब्दत्वात् समाजशब्दस्यार्थः समाजोपि अभ्युदयाय क्रियावान् भवेत् तदा एव सार्थको भवेत् । समजन्ति अस्मिन् इत्यर्थे समाजशब्दः निष्पद्यते, तेन यत्र जनाः सहयोगाय उत्सवदर्शनाय परकार्यसाधनाय च सङ्खीभूताः भवन्ति तत्र समाजशब्दः१९ भाष्यकारेण प्रयुक्तः । पाणिनिना समाज शब्दस्य समानार्थें२० समज्याशब्दस्य प्रयोगो विहितः । समजन्ति यस्यामित्यर्थे निष्पन्नस्य समज्याशब्दस्यार्थः२१ महाभाष्यानुसारेण उत्सवाय, विशेषविचाराय च सङ्खीभूतानां जनानां समूहो भवति । समज्या परिषद् गोष्ठी सभासमितिसंसदः २।१५ इति वदन् अमरकोषकारोपि उक्तार्थं प्रमाणयति । समाजशब्दस्य समानार्थे पाणिनिना समवायशब्दोपि प्रयुक्तः समवायान् समवैति ४।४।४३ इति सूत्रे । अत्र सूत्रे समवायान् इति बहुवचननिर्देशात् अर्थग्रहणमिति टीकाकाराः२२ तेन समाजशब्दादपि समवैति (प्रविश्यैकदेशी भवति) इत्यर्थे ठक् प्रत्ययो भवति अथ च द्वितीयान्तात् समाजशब्दात् रक्षति इत्यर्थे रक्षति ४।४।३३ इति सूत्रेण ठक्प्रत्ययो भवति । तेन समाजं रक्षति इत्यर्थे समाजं समवैति इत्यर्थे च सामाजिक शब्दो निष्पद्यते । इयता महता प्रयत्नेन पाणिनिना व्युत्पादितोयं सामाजिकशब्दः विशिष्टार्थं व्यनक्ति । तस्मात् यो जनः यश्च नियमः समाजं रक्षति समाजस्य अवयवश्च भवति सः सामाजिको भवति । समाजं रक्षति इत्यर्थे निष्पन्नसामाजिकशब्दस्यायमभिप्रायः प्रतीयते यत्– ये जनाः स्वस्य सामाजिकं मन्यमानाः समाजमुपकर्तुमभिलषन्ति, ते जनाः परार्थमेव स्वार्थं मत्वा समाजरक्षणाय तत्पराः भवेयुरिति । रक्षणं नाम अनिष्टनिवृतिपूर्वकाभीष्टवस्तुप्रदानेन पालनं भवति । अस्मिन्नेवार्थे भगवता कृष्णेन गीतायां योगक्षेम२३शब्दस्य प्रयोगो विहितः । अप्राप्तस्य प्राप्तिर्योगः तस्य रक्षणं क्षेमः इत्यर्थो भवति योगक्षेम शब्दस्य । सामाजिकशब्दसाधनाय कृतेन प्रयासेन ज्ञायते यत् शब्दशास्त्रस्य रक्षायै सुहृद् भूत्वा आचार्यपाणिनिः शब्दशास्त्रं प्रणयन् समाजस्य रक्षणाय अभ्युदयाय च ये जनाः संलग्ना सन्ति ते विप्रतिपन्नबुद्धयः२४ न भूयासुः इति धिया तान् उदíिश्य सूत्ररूपेण सामाजिकनियमान्नपि क्षेत्रसेकाय कृतया कुल्यया स्नानदिकार्यमिव प्रावोचत् ।
  यद्यपि सामाजिकपक्षे धर्मः, संस्कृतिः, सभ्यता, राजनीतिः, शिक्षानीतिः, जातयः, आहारव्यवहारौ इत्यादयोनेके विषया भवन्ति तथाप्यत्र लघुलेखे पाणिनीयव्याकरणे विद्यमानानां केषाञ्चिदेव सामाजिकपक्षाणां दिग्दर्शनं विधीयते ।
वर्णव्यवस्था–
     भगवता भाष्यकारेण व्याकरणाध्ययनस्य प्रयोजनकथनावसरे उक्तम्–“रक्षार्थं२५ वेदानामध्ये यंं व्याकरणम् ”इति । अनेन कथनेन ज्ञायते पाणिनिः वैदिकधर्मस्य उपासक आसीत्, वेदे च वर्णव्यवस्था अस्ति । वर्णशब्दश्च प्रेरणार्थकात् वर्णधातोः कर्मणि÷कर्तरि च प्रत्यये सति निष्पद्यते । “वर्णाः स्युब्र्राह्मणादयः इति कोषवचनात्  ”चातुवण्र्यं मया सृष्टम् इति भगवदगीताकथनात् च वर्णपदेन ब्राéणक्षत्रियवैश्यशूद्राः ग्राèा भवन्ति । पाणिनिना वर्णशब्दस्य प्रयोग द्विजादिवर्णार्थे शुक्लादिरूपार्थे च विहितः सूत्रेषु । वर्णाद्  ब्रéचारिणि ५।३।१३४ धर्मशीलवर्णान्ताच्च ५।२।१३२ अनयोः सूत्रयोः पठितो वर्णशब्दः ब्राéणादिवर्णानां वाचकः । वर्णो वर्णेन २।१।६९ सूत्रे पठितो वर्णशब्दः शुक्लादिवर्णानां वाचको विद्यते । वर्णविषये श्रुतिस्मृतिप्रतिपादिता व्यवस्था एव पाणिनिना व्याकरणसूत्रेषु सूत्ररूपेण सूत्रिता । अद्यत्वेपि सा व्यवस्था जीवतीव प्रतिभाति । यदि तस्याः रक्षा भवेत्तदा समाजस्य उपकारोपि भवेत् ।
जातिः 
अद्यत्वे जातिविषये कर्मणा, जन्मना, गुणप्रकर्षेण वा जाति लभ्यते इति विवादो वर्तते त्रिमुनिव्याकरणे तु जातिविषये विवादरहिता धारणा वर्तते । “अतिशायने तमप्विष्ठनौ ”५।३।५५ इति सूत्रस्थभाष्ये– “यदप्युच्यते जातेर्नेति वक्तव्यमिति न वक्तव्यम् । जननेन या प्राप्यते सा जातिः । न चैतस्यार्थस्य प्रकर्षाप्रकर्षौ स्तः, इति कथनेन ज्ञायते यत्– “जन्मना या प्राप्यते सा जातिः न तु गुणप्रकर्षादिना जातिः लभ्यते । यथा काकाज्जातमात्रे पाणिनेः काकत्वम्, शुकाज्जातमात्रे च शुकत्वम्, मनुष्याज्जातमात्रे च मनुष्यत्वम् तथा शूद्राज्जातमात्रे शूद्रत्वं क्षत्रियाज्जातमात्रे च क्षत्रियत्वम् इति तत्तज्जातमात्रे तत्तजातिŒवम् अस्त्येवेति । “अतिशायने ”५।३।५५ इति सूत्रस्थभाष्यस्यायमभिप्रायः– तमप्विष्ठनौ प्रत्ययौ जाते न भवत इति वक्तव्यमिति आक्षिप्य या जननेनैव प्राप्यते तत्र कः प्रसङ्कः प्रकर्षाप्रकर्षयोरिति समाहितम् । जन्मना प्राप्यमाणे वस्तुनि न कश्चिदतिशय इति भाष्यकारेण समाहितम् । एवं जन्मना जातो ब्राéणो जन्मना जातः क्षत्रियो जन्मना जातश्च शूद्र इत्येतेषु न कोùपि दृश्यो विशेषः । केवलं जातिभेददर्शनात् तेषां संस्कारा भिन्ना भवन्ति इत्येव । अद्यत्वे केचन जना जातेः परिवर्तनं स्वीकुर्वन्ति, महाभाष्यकारस्तु तन्न सहते । अनेन एतदायाति यो यत्र जायते तत्र स्थित्वा एव उत्कर्षाय यतेत इति । विरुद्धसंस्कारमात्रेण जातिपरिवर्तनं नैव भवति इति तु तत्Œवम् ।
 उच्च नीचभावविषये– 
      अद्यत्वे उच्चनीचभावविषये विवदन्ते । पाणिनिस्तु समाधानं विदधाति । तथाहि पूर्वनिपातप्रकरणे अल्पाच्तरम् ३।२।३४ सूत्रे ब्राéणक्षत्रियवैश्यशूद्राः सहोच्चारिता क्व निपतन्ति इति विचारावसरे “वर्णानामानुपूव्र्येण पूर्वनिपाता भवन्ति इति वक्तव्यम् । ब्राéणक्षत्रियविट्शूद्राः ”इत्यादिना वेदे येन क्रमेण तेषामुत्पत्तिः प्रतिपादिता तेनैव रूपेण पूर्वनिपातोùपि कर्तव्य इति कथयन् भाष्यकारः न तेषाम्–ब्राéणादीनाम् श्रेष्ठत्वमुच्चत्वमाह किन्तु वेदे ब्राéणोत्पतिः पूर्वमभिहितम् अत स्तस्य पूर्वनिपातः इत्येव । यदि जात्याधारे तेषां पूज्यापूज्यत्वे प्रसिद्धे अभूतां तदा तस्मिन्नेव सूत्रे “अभ्यर्हितञ्च पूर्वं निपतति इति वदेत् भाष्यकारः । यथा मातापितरौ श्रद्धामेधे इत्यादौ पूज्यत्वात् मातृशब्दस्य श्रद्धाशब्दस्य च पूर्वनिपातः, तथैव ब्राéणादीनामपि पूर्वनिपाते सिद्धे “वर्णानामानुपूव्र्येण  ”इति वार्तिकप्रणयनं विफलमेवाभविष्यत् । अनेन ज्ञायते पाणिनिसमये समाजे जातिमादाय उच्चनीचभावो नासीत् इति । अनेन बहूपकृतं समाजस्य भवेत् ।
धर्मः 
    धरति लोकान् ध्रियते वा जनैः इत्यर्थे धृञ्धारणे धातोः औणादिके मन्प्रत्यये सति धर्मशब्दः निष्पद्यते अनेकार्थकोपि धर्मशब्दः अत्र लेखे पाणिनिसूत्रे च वेदविहितविधिबोधकपरम्पराप्राप्ताचारबोधकश्च विद्यते । पाणिनिना धर्मशब्दस्य प्रयोगः अनेकेषु सूत्रेषु विहितः । यथा “धर्मपथ्यर्थन्यायादनपेते ”४।४।९२ इति सूत्रेण धर्मादनपेतम् इत्यर्थे धम्र्यशब्दः निष्पद्यते । एवं तस्य धम्र्यम् ४।४।४७ सूत्रेण आचरितुं योग्यमित्यर्थे ठक्प्रत्ययो भवति । एवं  “नराच्चेति वक्तव्यम् (२९६७) इति वदन् वार्तिककारः मर्यादां रक्षति । उदाहरणन्तु नरस्य धम्र्या नारी इति । धर्मं चरति ”४।४।४१ सूत्रे विद्यमानधर्मशब्दः नीतिधर्मबोधकः, चरति शब्दश्च आसेवार्थकः न तु अनुष्ठानमात्रबोधकः । धर्मं चरति इति धार्मिक इति रमणीयमुदाहरणम् । तपः स्वाध्यायानिरतोयं पाणिनिः समाजस्य उत्कर्षाय “न दधिपय आदीनि २।४।१४ सूत्रे दधिपय आदि गणे दीक्षातपसी, श्रद्धातपसी, मेधातपसी, अध्ययनतपसी, श्रद्धामेधे इत्यादिशब्दान् पठति । अथ च “प्रज्ञादिभ्यश्च  ”५।४।३८ सूत्रे प्रज्ञादिगणे आचार्यपाणिनिः प्रज्ञा, श्रद्धा, तपः, त्यागः, विवेक इत्यादीन् दिव्यार्थबोधकान् शब्दान् पठति । समाजः मेधावान्, श्रद्धावान् धार्मिकश्च भवेदिति धिया दिव्यार्थबोधकाः शब्दा गणे प्रदर्शिताः ।
दर्शनम्
   बृहदारण्यकोपनिषदि श्रुतिरस्ति “आत्मा वा अरे द्रस्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च२६ ”इति । अत्रत्यद्रष्टव्यशब्दस्य साक्षात्कर्तव्य इत्यर्थो भवति । प्राचीनकाले दर्शनशब्दस्य स्थाने मीमांसा आत्मविद्या, २७अध्यात्मविद्या आन्वीक्षिकी२८ एते शब्दा प्रयुज्यन्ते स्म । दर्शनशब्दस्य प्रयोगस्तु नवीन एव । द्रष्टव्यः साक्षात्कर्तव्य इत्यर्थो भवति । तथा च आत्मदर्शनमिष्टसाधनमिति यावत् । अद्यत्वे आन्वीक्षिकी शब्दस्य स्थाने दर्शनशब्दस्य प्रयोगो विधीयते । दर्शनशब्दस्य अर्थस्तु ज्ञानं ज्ञानसाधनञ्च भवति । पाणिनिना एतादृशार्थबोधनाय सूत्रेषु दर्शनशब्दस्य प्रयोगो न कृतः । पाणिनिव्याकरणे वेदान्तदर्शनं सूत्र रूपेण विद्यते । तथाहि जन्माद्यस्य२९ यत”ः इति द्वितीयं  ब्रéसूत्रम् अस्ति । यस्मात् जन्मादि भवति तद्  ब्रé इत्यर्थः । पाणिनिरपि “वृद्धिरादैच् ”१।१।१ सूत्रात् व्याकरणमारभ्य अअ ८।४।६८ सूत्रे अष्टाध्यायाः समाप्तिं विदधाति । अक्षराणामकारोùस्मि (गीता १०।३३ ) वचनात् अकारवाच्यः भगवानेव । तथा च वृद्धिरादैच् सूत्रस्य अर्थाे भवति आत् अकारात्– भगवतः वृद्धिः जन्मादिविकारा भवन्ति इति । एवं च अ अ ८।४।६८ इति अन्तिमं सूत्रम् । तेन सूत्रेण विवृताकारमुद्दिश्य संवृतो विधीयते । अनेन व्याख्यानेन वेदान्तदर्शनस्य व्याकरणदर्शनस्य च साम्यता दृश्यते । व्याकरणस्य मनीषी भर्र्तृहरिस्तु शब्दतŒवं  ब्रé विद्यते यस्मात् जगदिदं विवर्तते  ”इत्याह वाक्यपदीये । 
तस्मात् व्याकरणस्याध्ययनं दर्शनस्य अध्ययनं भवति । दर्शनस्य भाषा भावना च अलौकिकी भवति । तेन दर्शनस्य अध्ययनात् मनुष्य चिन्तनशीलः प्रज्ञावान् च जायते । वस्तुतः पाणिनिव्याकरणे विशिष्टाद्वैतदर्शनस्य प्रभावः राजते । तथाहि– सर्वे शब्दाः विशिष्टार्थबोधका विद्यन्ते । सर्वाण्यपि पदानि प्रकृतिप्रत्यययोगेन विशिष्टानि एव, अतः प्रकृत्यर्थविशिष्टप्रत्ययार्थस्य, क्वचित् प्रत्ययार्थविशिष्टप्रकृत्यर्थस्य च बोधकानि भवन्ति । अतः सर्वाण्यपि पदानि विशिष्टार्थप्रतिपादकानि । अत एव नागेशः “प्रत्ययः परश्च “सूत्रे शेखरे आह “नापि केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः ”इति । अनुदिनमनुभूयते लोके अनेकपदान्वितानि वाक्यानि विशिष्टार्थ प्रतिपादकानि । एवं सर्वत्र वैशिष्ट्यार्थस्थितौ सत्यां “वेदैश्च सर्वैरहमेव वेद्य “( गीता–१५।१५ ) इतिस्मृत्या सर्वे वेदा यत्पदमामनन्ति ”इति श्रुत्या च प्रतिपाद्यं परं  ब्रé कथं सर्वथा निर्विशेषम् ? अतः निर्विशेषं  ब्रé इत्यत्र निर्विशेषशब्दार्थस्तु कतिचनविशेषैः शून्यम्, कतिचनविशेषैः युक्तम् । अत एव आनन्दं  ब्रé इत्युच्यते । व्याकरणं हि “अपदं न प्रयुञ्जीत ”इति सिद्धान्तयति, पदं च “सुप्तिङ्न्तं पदम्”१।४।१४ इति अनुशासनात् प्रकृति प्रत्यययुक्तम् शक्तम् ।अतः वक्तुं शक्यते पदमपि विशिष्टम्, तेन पदेन प्रतिपादितार्थोपि विशिष्ट एवं एवं रूपेण पाणिनीयव्याकरणे विचारणीयाः अनेके पक्षा सन्ति, परन्त्वत्र विस्तरभयाद् विरम्यते ।
पादटिप्पण्यः
१. “दैवीवागण्यतिकीर्णेयमसक्तैरभिधातृझ्mि– ”वाक्यपदीयं व्र.का.१५४
२. विन्देम देवतावाचममृतामात्मनः कलाम् । उत्तरराम चरित भवभूतिः
३. अनादि निधनं ब्रãशब्दतत्Œवं यदक्षरम् । वाक्यपदीय १।१ भर्तृहरिः
४. साक्षात् कृतधर्माणः ऋषयो बभूवुः इति निरुक्तम् यास्काचार्यः ।
५. व्याकरण महाभाष्य– प्रथमंमान्हिकम् । “व्याक्रियन्ते पदानीह क्रियन्ते नूतनानि च– ”चारुदेव  शास्त्री–व्याकरणचन्द्रोदयभूमिकायाम् ।
६. व्याक्रियन्ते पदानीहं, क्रियन्ते नूतनानि च चासदेव शास्त्री व्याकरण चन्द्रोय भूमिकायाम् ।
७. २।१।६८ व्याकरण महाभाष्यम् ।
८. प्रमाणभूत आचार्यो दर्भपवित्रपाणिःशुचावकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि  प्रणयति स्म । व्याकरणमहाभाष्यम् । १।१।१
९. येनाक्षरसमाम्नाय मधिगम्यमहेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः । पाणिनीय शिक्षा ५७ ।
१०. उपज्ञोपक्रमं तदाद्याचिख्यासायाम्–२।०४।२१ पा.सू.इत्यत्र पाणिन्यूपज्ञं व्याकरणम् इति उदाहरणं  सिद्धान्तकौमुद्याम । उपज्ञा नाम आद्यं ज्ञानम् इति कोशकारः
११. त्जभ नचबःबच ९ एबलष्लष् ब्कतबमजथचथष् ० धजष्अज मबतभक ाचयm कयmभ धजभचभ बचयगलम द्दछण् तय घछण् द्य।ऋ।ष्क यलभ या तजभ नचभबतभकत mयलगmभलतक या जगmबल ष्लतभििष्नभलअभ ।।।।।।। लय यतजभच बिलनगबनभ तय  
   तजष्क मबथ जबक दभभल कय उभचाभअतथि मभकअचष्दभम ।ीबलनगबनभ द्ययियm ाष्भमि।
१२. २।१।५८–पाणिनि सूत्र–व्याकरण महाभाष्यम् ।
१३. भाष्याब्धि क्वातिगम्भीर ः क्वाहं मन्दमतिस्ततः । महाभाष्य प्रदीपः कैøयटः । कृतेथ पतञ्जलिना गुरुणा तीर्थ दर्शिना । सर्वेषां न्यायवीजनां महाभाष्ये निबन्धने ( वाक्य पदीय २ काण्ड ४८४)
१४. व्याकरण महाभाष्य–प्रथमम् आहिनकम् ।
१५. समाजशास्त्रावगतिर्भवेदितस्तथेतिहासादि नयादि बुद्धयते ।
 न केवलेयं पदसिद्धिसंहिता......... । म.म.पा.प. ।। गोपालशास्त्री 
 दर्शनकेशरी,अष्टाध्यायी भूमिका १९७८ चौखम्वा वाराणसी ।
१६. सभासदः सभास्ताराः सभ्याः सामाजिकाश्चते–अम।कोशः २।१६
१७. पशूनां समजोन्येषां समाजोùथ सधर्मिणाम् अमरकोषः २।४२
१८. चतुष्टयी शब्दानां प्रवृत्तिः–जतिशब्दाः गुणशब्दाः क्रियाशब्दा यदृच्छा शब्दाश्च महाभाष्यम् २ आन्हिकम ।
१९. रक्षति–४।४।३३ इति सुत्रभाष्ये
२०. संज्ञायां समज–३।३।९९ इति सूत्रेण अधिकरणे क्यप् प्रत्यये सति संज्ञार्थे समज्या शब्दोनिष्पद्यते ।
२१. संज्ञायां समज– ३।३।९९ इति सूत्रभाष्यम् 
२२. ४।४।४३–सूत्रे सिद्धान्तकौमुद्यां–वासुदेवदीक्षिताः ( बालमनोरमाकाराः )
२३. योगक्षेमं वहाम्यहम्– भगवद्गीता– ९ अध्याय २२ श्लोकः
२४. विप्रतिपन्नबुद्धिम्योùध्येतृभ्य सुहृद् भूत्वा आचार्यः इदं शास्त्रमन्वाचष्टे– व्या.महाभाष्यम् प्रथममाõिकम् । 
२५.महाभाष्यम प्रथममाहिकम् ।
२६. बृहदारण्यकोपनिषद् २।५ मन्त्रः ।
२७. अध्यात्मविधा विद्यानाम् भगवत् गीता १०।३२
२८. आचार्यः बौठिल्यः
२९. १।२ ब्र;सूत्रम् ।

सन्दर्भग्रन्थाः
   १.अष्टाध्यायी पाणिनिः
   २. महाभाष्यम पतञ्जलिः
   ३. वाक्य पदीयम् भर्तृहरि:
   ४. परमलधुमञ्जूषा नागेशः
   ५. भूषणसार कौण्डभट्टः ।
Powered by Blogger.