Header Ads

अहर्गणः (The Ahargan)


– नारायणराज दाहालः
सहप्राध्यापकः
वाल्मीकिविद्यापीठस्थः

ब्रह्माण्डेस्मिन् सूर्यस्य स्थानम् उच्चतमं वर्तते, यतो हि एषः कालविधायको भूवासिनाम् । दिनकरं विना सृष्टिरेवाकल्पनीया । सौरपरिवारे सन्निविष्टानामन्येषां सदस्यग्रहाणां गतिस्थितिकलनार्थं अहर्गणस्यावश्यकता नितान्तं वर्तते । प्रबन्धेùस्मिन् अहर्गणस्य विमर्शो विधीयते । दिनानां समूह एव अहर्गणः सोùपि नाक्षत्र–सावन–चान्द्र–सौरभेदेन चतुर्विधोùस्ति । सौर– चान्द्र–नाक्षत्र–दिनानां  प्रारम्भः कदा भवति कदा च पूर्ति सहजतया नैवावलोक्यते किन्तु सावनदिनस्यारम्भ समाप्तिश्च प्रत्यक्षमेव ।
यतो हि – उदयादुदयं भानो भूमिसावनवासरः ।३६। सूर्य सि. मध्यमाधिकारः ।
सूर्योदयात् द्वितीय सूर्योदयं यावत् भूमिबासरः सावनवासरोùपिवा ।
तथैव भाष्करः– इनोदय द्वयान्तरं तदर्कसाबनं दिनं तदेव मेदिदिनं .... ।२०। सि.शि.मध्यमाधिकारे काल.
सूर्योदयद्वयान्तर्गतदिनमेव सूर्यसाबनं दिनं वा भूदिनम् कथ्यते ।
अस्मादेव ग्रहसाधनार्थं पूर्वदैवज्ञेन प्रत्यक्षभूतसावनात्मकः अहर्गणः एव सधिताः
क्षयाधिभासविषये आचार्याः–
भवन्तिशशिनोमासाःसूर्येन्दु भगणान्तरम् । 
रविमासोनितास्तेतु शेषास्युरधिमासकाः ।३५। सूर्यसिद्धान्त मध्यमाधिकारः
अधिमासकायुगेते रविमासेभ्योùधिकास्तु ये चान्द्राः
शशिदिवसाः विज्ञेया भूदिवसोùनास्तिथि प्रलय ।६। आर्य भटीयम् कालक्रियापादः 
चान्द्रभगणाः– सूर्यभगणाः = शशिमासाः । सूर्यमासाः – शशिमासाः = अधिमासाः भवन्ति । शशिदिवसाः – सावनदिवसाः = क्षयदिवसाः ।
चन्द्रचक्रदिवसैक्यमुनितं चान्द्रमासभदिनैर्दिनक्षयः ।१३। सि.शि.मध्य.धि., ग्रहानयनाध्याय । 
चान्द्रभगणाः + चान्द्रदिवसाः – चान्द्रमासा + भभ्रमः = क्षयदिवसाः एव ।
गतसौरवर्षाणिः द्वादशगुणितानि सति गतसौरमासाः भवन्ति । इष्टवर्षस्य व्यतितमासाः अपियुक्ता सति इष्टसौरमासाः भवन्ति ।
अनुपातेन अधिकमासाः क्षयमासाश्च आनयनप्रकारः 
यथा– कल्पसौरमासैः कल्प अधिमासाः प्राप्यन्ते तदा इष्टसौरमासैः किमित्यनुपातेन ? इष्ट अधिमासाः अत्र आगता अधिमासाः इष्टसौरमासात् वियोजिते सति इष्टचान्द्रमासाः भवन्ति । त्रिंशद् गुणितचान्द्रमासाश्चान्द्रदिवसाः भवन्त्येव । गततिथयः योजितास्तु इष्टचान्द्रदिनानि स्युः । 
तथैव क्षयदिनानि अपि कल्पचान्द्रदिनैः कल्पक्षयदिनानि लभ्यन्ते तदा इष्टचान्द्रदिनैः किमिति ? इष्ट क्षयदिनानि इति ।
इष्टचान्द्रदिनात् इष्टक्षयदिन वियोजिते सति तु इष्ट सावनदिनानि आगच्छन्ति उक्त सावनदिनान्येव अहर्गणः ।
उक्त अहर्गणस्तु तिथ्यन्तकलिकाः जाता सूर्योदय कालिक एव अहर्गणः अपेक्षतेति शङ्गा आगच्छति किन्तु अधिशेषावमशेषौ द्वौ एव अपसारिते सति सूर्योदयकालिका एव भवन्ति अहर्गणः इति ।
उक्त प्रसङ्के भाष्करोक्त अहर्गणोपपत्तिर्यथा–
सौरेभ्यः साधितास्ते चेदधिमासास्तथैन्दवाः ।
चेच्यान्द्रेभ्यस्तदा सौरास्तच्च्छेषं तदुशात्तदा ।१३।
सावमान्यवमानिस्युश्चान्द्रेभ्यः साधितानिचेत् ।
सावनेभ्यस्तु चान्द्राणि तच्छेशं तद्वशात्तथा ।।१४।। 
सि.शि. गोलाध्याय मध्यगतिवासना ।
सौरेभ्यः साधिता अधिमासाः चान्द्रा भवन्ति । चान्द्रेभ्यः साधिता अधिमासाः सौरमानका भवन्ति । अधिशेषा अपि तथैव ज्ञातव्याः । चान्द्रसौरेभ्यः साधिता अवमा अवमशेषाश्च क्रमशः सावनचान्द्रा एव भवन्ति । सावनेभ्यः चान्द्राणि कर्तुं तदा चान्द्राणि स्युः तच्छेषमपि तद्वशादेव ।
उक्त विषये भाष्करस्य प्रश्न ः–
अहर्गणस्याùùनयनेùर्कमासाश्चैत्रादिचान्द्रैर्गणकान्विताः किम् ।
 कुतोùधिमासावमशेषके च त्यक्ते यतः सावयवोùनुपातः ।१५। गो.म.ग.वा.
अहर्गणानयने सौर चान्द्रमासैः कथमुक्तम् ?
अधिमासा क्षयमासशेषञ्च कथम् त्यक्तम् ?
पुनः भाष्करस्यैवोक्तिम् यथा–
दर्शावधिश्चान्द्रमसो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोùतः ।
दर्शाग्रतः संक्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ।१६।
दर्शान्ततो याततिथि प्रमाणैः सौरस्तु सौरादिवसाः समेताः ।
यतोùधिशेषोत्थ दिनाधिकास्ते त्यक्ते तदस्यादधिमासशेषम् ।१७।
तिथ्यन्तुसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् ।
त्यक्तेन तेनोदयकालिकस्यास्तिथ्यन्तकाले द्युगणोùन्यथाùतुः ।१८। सिद्धान्त शिरोमणि गोलाध्याये–मध्यगति वासना ।
प्रथमान्ताद् द्वितीयान्तं यावद् यः कालः स एकः चान्द्रमासः । तथैव रवि              राशिसङ्क्रमात् द्वितीयराशिसङ्क्रमणपूर्वम् सौरमासः । अमान्तात् सूर्यराशिसङ्क्रमणं प्राक् अधिशेषकालः । अमान्तात् इष्टतिथिपर्यन्तं सौरदिनतुल्यचान्द्रतिथयः अहर्गणेषु युक्तम् अत्र अधिशेषोùपि योजितः तस्य गणना नैव कृता । तथैव तिथ्यन्तात् सूर्योदयपर्यन्तस्थधनात्मकावमशेषमपि त्यक्तम् । अस्मात् कारणादपि अधिशेषावमशेषविषयिका आशङ्गा नैव कर्तव्येति ।

सन्दर्भग्रन्थाः
१. आर्य भट्ट– आर्यभटीयम्–चौखम्बा सुरभारती प्रकाशन–प्रथम–२००८ ई
२. कपिलेश्वर शास्त्री–सम्पादक–सूर्य सिद्धान्त–चौखम्बा संस्कृत संस्थान–तृतीय–२०३५ वि. 
३. भाष्कराचार्य–सिद्धान्त शिरोमणि–चौखम्बा संस्कृत संस्थान–चतूर्थ–२००५ ई ।
Powered by Blogger.