Header Ads

वैयाकरणभूषणसार–वैयाकरणसिद्धान्तपरमलघुमञ्जूषयोर्धात्वर्थः


सहप्रा.खेमराजखनालः
पिण्डेश्वरविद्यापीठस्थः

१. वैयाकरणभूषणसारः
१.१. कौण्डभट्टस्य परिचयः
                वैयाकरणभूषणसारस्य रचयिताऽचार्यः कौण्डभट्टो विद्यते । अयमाचार्यो भट्टोजिदीक्षितस्य लघुभ्राता रङ्कोजिभट्टस्य पुत्र आसीत् । अनेन स्वकीये ग्रन्थे वैयाकरणभूषणसारे लिखितं च विद्यते,– ‘
‘     पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्कोजिभट्टाभिधम् ।। इति
 (वैयाकरणभूषणसारस्य पृष्ठम्११) ।
अस्य गुरुः शेषकृष्णस्य पुत्र आचार्य सर्वेश्वर आसीत् । वैयाकरणभूषणसारस्य अन्त्ये लिखितं च विद्यते, ‘‘अशेषफलदातारमपि सर्वेश्वरं गुरुम् । इति (वैयाकरणभूषणसारस्य पृष्ठं ६११) । सारस्वतकुलोत्पन्नोऽयमाचार्यः काशीनिवासी आसीत् । अस्य कालो भट्टोजिदीक्षितस्य समय एव आसीत् । अस्य कालः विक्रमस्य १६०० तः १६७५मध्ये मनुते युधिष्ठिरमीमासकः (संस्कृत व्याकरणशास्त्रका इतिहासस्य पृष्ठं४१७)।
१.२. वैयाकरणभूषणसारस्य परिचयः
                व्याकरणशास्त्रस्य दार्शनिकेतिहासे महत्त्त्वपूर्णो ग्रन्थोऽस्ति वैयाकरणभूषणसार ः । अत्रत्यसारशब्देन ग्रन्थोऽयं कस्यचित् अपरग्रन्थस्य संक्षिप्तोंऽशो विद्यत इति ज्ञायते । स च बृहद्वैयाकरणभूषणसारो विद्यते । लिखति चायं वैयाकरणभूषणस्य यत्र कुत्र चित् ‘‘स्पष्टं बृहद्वैयाकरणभूषणे इति (वैयाकरणभूषणसारस्य पृष्ठं५६) । अस्योपजीव्यग्रन्थश्च भट्टोजिदीक्षितस्य शब्दकौस्तुभो वर्तते । कथयति चायमाचार्यः,– ‘‘             फणिभाषितभाष्यब्धेः शब्दकौस्तुभ उद्धृतः ।
                तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते ।।इति
(वैयाकरणभूषणसारस्य पृष्ठं१५) ।
 अत्रत्याः ७४ संख्यकाः कारिका भट्टोजिदीक्षितेनैव लिखिताः सन्ति । तासां व्याख्या कौण्डभट्टेन विहिताऽस्तिा । अत्र त्रयोदशप्रकरणानि व्यवस्थितानि सन्ति, तानि धात्वर्थनिर्णयः, लकारार्थनिर्णयः, सुबर्थनिर्णयः, नामार्थनिर्णयः, समासशक्तिनिर्णयः, शक्तिनिर्णयः, नञर्थनिर्णयः, निपातार्थनिर्णयः, त्वादिभावप्रत्ययार्थनिर्णयः, देवताप्रत्ययार्थनिर्णयः, अभेदैकत्वसङ्ख्यानिर्णयः, सङ्ख्याविवक्षानिर्णयः, क्त्वाद्यर्थनिर्णयः, स्फोटनिर्णयः इति । अस्य ग्रन्थस्य भाषा न्यायशैलीमिश्रिता नातिसरला नातिदुरुहा वर्तते । न्यायशैल्यां व्याकरणशैली प्रच्छन्नाऽस्ति । अस्य ग्रन्थस्य बहवो व्याख्यातारश्च सन्ति । ते चेमेदर्पणनामिका व्याख्या हरिवल्लभेन कृतास्ति । हरिभट्टेन च दर्पणनामिका व्याख्या लिखिता विद्यते । मन्नुदेवेन कान्तिनामिका व्याख्या लिखितास्ति । भैरवमिश्रस्य परीक्षानामिका टीकास्ति । रुद्रनाथेन विवृत्तिनामिका टीका कृता वर्तते । कृष्णमिश्रेण रत्नप्रभानामिका व्याख्या विहिता वर्तते ।
१.३. वैयाकरणभूषणसारे धात्वर्थः
                समस्तशब्दानां मूलं धातुरस्ति । कथयति चाचार्यो नागेशः– ‘‘अथ सकलशब्दमूलभूतत्त्वाद् धात्वर्थो निरूप्यते इति (वैयाकरणसिद्धान्तपरमलघुमञ्जूषायाः पृष्ठं१२०) । अतः सर्वे शब्दा धातुजा एव सन्ति । तत्र धातुत्वन्तु क्रियावाचकत्वे सति भ्वादिगणपठितत्त्वम् , भ्वादयो धातवः (अष्टाध्याय्याः १।३।१) इत्यत्र तथा दर्शनात् । अत्र क्रियावाचकत्वं किम् ? विकल्पार्थस्य वा, इति निपातस्य धातुत्वं मा भूत् । भ्वादि इति किम् ? वर्जनक्रियावाचिनो हिरूक् इत्यादेर्धातुत्वं मा भूत् ।
                न च क्रियावाचकत्वस्य (व्यापारवाचकत्वस्य) धातुत्वेऽस्त्यादौ धातुत्वं न स्यात्, क्रिायायाः प्रतीतेरभावात् , इत्याशङ्गां परिहरति–                    
                ‘‘अस्त्यादावपि धम्र्यंशे भाव्येऽस्त्येव हि भावना ।।
                अन्यत्रशेषभावात्तु सा तथा न प्रकाशते ।।१२।। इति
                                                                (वैयाकरणभूषणसारस्य पृष्ठं१२९)
अस् भुवि इत्यादावपि धर्मिभागे भाव्यमानत्वेन विवक्षिते भावना प्रतीयत एव । अन्यत्र सकर्मकस्थल इवात्राकर्मके धातौ स्पष्टतया नानुभूयते, भावनायाः फलसमानाधिकरणत्वात् ।
                सर्वेषां धातूनां व्यापारवाचकत्वात् सर्वेषां सकर्मकत्वापत्तिस्तु न भवति । यथोक्तम्
                ‘‘फलव्यापारयोरेकनिष्ठतायामकर्मक ।।
                धातुस्तयोद्र्धर्मिभेदे सकर्मक उदाहृतः ।।१३।। इति
                                                                (वैयाकरणभूषणसारस्य पृष्ठं१३४)
तत्र धातोः फलव्यापारयोः व्यधिकरणत्वं सकर्मकत्वम्, तथा फलव्यापारयोः समानाधिकरणत्वमकर्मकत्वम् इतिलक्षणात् दोषो न भवति ।
                तत्र धात्वर्थविषये वैयाकरणभूषणसारवैयाकरणसिद्धान्तपरमलघुमञ्जूषयोः परिचर्चा विद्यते । तयोः प्रथमं वैयाकरणभूषणसारस्य मतमुपस्थाप्यते, प्राचीनत्वात् । तच्च
                ‘फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः ।।
                फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ।।२।। इति
                                                                (वैयाकरणभूषणसारस्य पृष्ठं११)
फलव्यापारौ धात्वर्थौ स्तः । फलनिष्पादने व्यापारस्य प्राधान्यं भवति । तत्र फलाश्रयः कर्म तथा व्यापारश्रयः कर्ताऽस्ति । कर्तृकर्मसङ्ख्याकालास्तिङोऽर्थाः सन्ति । कर्तृकर्मणी फलव्यापारयोर्विशेषणे भवतः । फलव्यापारौ तिङर्थौ तु न सम्भवति, धातोर्लाभात् । अनन्यलभ्यो हि शब्दार्थो भवति ।
                व्यापारस्य धात्वर्थे साधकानन्तरमपि विद्यते । यथा
                ‘किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि ।।
                किञ्च क्रियावाचकतां विना धातुत्वमेव च ।।९।।इति
                                                                (वैयाकरणभूषणसारस्य पृष्ठं११६)
                कृधातोः ऋहलोण्र्यत् (अष्टाध्याय्याः ३।१। ८४) इति कर्मणि ण्यति प्रत्यये कार्यमिति सिध्यति । पच्धातोः तव्यत्तव्यानीयरः (अष्टाध्याय्याः ३।१।९६) इति कर्मणि अनीयर्प्रत्यये पचनीयम् इति सिध्यति । ज्योतिष्टोमयाजी इति यज्धातोः करणे यजः (अष्टाध्याय्याः ३।२।८५) इति कर्तरि णिनिप्रत्यये सिध्यति । उक्ताः प्रत्यया धातूनां क्रियावाचकत्वं विना न सम्भवन्ति । एते प्रत्यया व्यापारस्य धात्वर्थे साधकाः भवन्ति । क्रियां विना कर्तृकर्मकरणादीनां कारकत्वमपि न सम्भवति, क्रियाजनकत्वं कारत्वमिति कारकलक्षणात् ।
                कर्तृकर्मणोः तिङर्थे प्रमाणन्तु लः कर्मणि च भावे चाकर्मकेभ्यः (अष्टाध्याय्याः ३।४।६९) इतिसूत्रं विद्यते । अत्र चकारात् कर्तरि कृत् (अष्टाध्याय्याः ३।४।६७) इतिसूत्रतः कर्तरि इतिपदमनुकृष्यते । अनेन सूत्रेण तिबादीनां स्थानित्वेन कल्पिता लकाराः कर्तरि कर्मणि च भवन्ति । सूत्रेण कर्तरि कर्मण्यर्थे लकाराणां विधानेऽप्यर्थबोधकताशक्तिस्तिबादीनां भवति । लकारास्तु नार्थबोधकाः, तेषां कल्पनात्वात् । कर्तृकर्मणि फलव्यापारयोर्विशेषणे भवतः । सङ्ख्या कर्तृवाच्ये कर्तरि कर्मवाच्ये कर्मणि विशेषणं भवति ।
                कालस्तु व्यापारे विशेषणं भवति । वर्तमाने लट् (अष्टाध्याय्याः ३।२।१२३) इत्यत्र धातोः (अष्टाध्याय्याः ३।१।९१) इत्यस्याधिकार आयाति । तच्च धात्वर्थं वदत् प्राधान्येन व्यापारमेव ग्राहयति । अतस्तत्रैव तस्यान्वयो जायते । सङ्ख्यावत् कर्तृकर्मणोस्तु नान्वेति, अतीतभावनाके कर्तरि पचतीत्यापत्तेः, अपाक्षीदित्यनापत्तेश्च । फलेऽपि तस्यान्वयो न सम्भवति, फलस्यानुत्पत्त्यवस्थायां व्यापारे विद्यमाने पचतीत्यनापत्तेः, पक्ष्यतीत्यापत्तेश्च ।
                व्यापारे आख्यातार्थकालान्वय एका समस्या पतति । आमवातादिव्याधिपीडितकलेवरस्य मनस्युत्थानानुकूलव्यापारविद्यमानादेष उत्तिष्ठतीति प्रयोगापत्तिर्भवेत् । परन्त्वत्र परमनसि जातस्य यत्नस्य ज्ञानाभावादप्रयोगादुक्ता समस्या समाधत्ते । केनचिच्चेष्टादिना देहावयवकम्पनक्रियया व्यापारज्ञाने तु अयमुत्तिष्ठति शक्त्यभावात् फलन्तु नजायते इतिलोकव्यवहारात्प्रतीतिर्भवत्येव । एतेन व्यापारस्य प्राधान्यं तिङर्थस्य विशेषणमेव सिध्यति ।
                आख्यातस्य कर्तृकर्मणोः वाचकत्वे पचतीति पदेन कर्तृकर्मणोः द्वयोरेव बोधापत्तिः स्यात् । एवं यथोक्तं पदं कर्तृमात्रं बोधकपरं तथैव कर्ममात्रं बोधकमपि भवेत् । इत्याशङ्गायां पठ्यते––
                ‘फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः ।।
                व्यापारे शप्श्नमाद्यस्तु द्योतयन्त्याश्रयान्वयम् ।।३।। इति
                                                                                (वैयाकरणभूषणसारस्य पृष्ठं७३)
                फलव्यापारौ धात्वर्थौ स्तः । तत्र फलाधारं कर्म विद्यते । तस्य द्योतकास्तङ्यक्चिणादयः सन्ति । यत्रैते सन्ति तत्राख्यातेन कर्मार्थो बुध्यते । व्यापाराधारः कर्ता वर्तते । तस्य द्योतकाः श्नाश्नम्शपादयः विकरणाः सन्ति । यत्रैते सन्ति तत्राख्यातेन कर्तार्थो बुध्यते । एतेनैकाख्यातस्य द्वयोः कर्तृकर्मणोर्बोधनमिति समस्या समाधीयते ।
                ननु तङ्यक्चिणादीनां फलद्योतकत्वे कर्मकर्तृप्रकरणे पच्यते ओदनः स्वयमेव इत्यादौ, ‘क्रमादमुं नारद इत्यबोधि सः इत्यादौ च चिण्यकादिभिः कर्ता द्योतितो विद्यते । अत्रस्थेनाख्यातेन न तु कर्मबोधनं परन्तु कर्तृबोधनं क्रियते, अतोऽत्र व्यभिचार आपततीत्याशङ्गायामाह
                ‘उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् ।।
                तस्माद् यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ।।४।। इति
                                                                   (वैयाकरणभूषणसारस्य पृष्ठं७५)
तङ्यक्चिणादयः कर्मणो व्यञ्जकाः शप्श्नम्श्नादयः कर्तुद्र्योतका इति नियमस्तु सामान्य एव । यत्रास्य नियमस्य विपर्ययो दृश्यते तत्र शास्त्रमनुल्लङ्घ्य तदनुसारेणैव यथोचितं द्योतकत्वं ज्ञेयम् । अनेन पच्यते ओदनः स्वयमेव, इत्यादौ कर्तरि तङ्यकादिविधानेऽपि न क्षतिः ।
२. वैयाकरणसिद्धान्तपरमलघुमञ्जूषा
१ नागेशभट्टस्य परिचयः
                वैयाकरणसिद्धान्तपरमलघुमञ्जूषाया रचनाकार आचार्यो नागेशभट्टो विद्यते । एष महाराष्ट्रियो विद्वानासीत् । अस्य पिता शिवभट्टसुतस्तथा माता सतीदेव्यास्ताम् । अयं शृङ्कवेरपुराधीशस्य रामस्य राजगुरुरासीत् । लिखितञ्च लघुशब्देन्दुशेखरस्य मङ्कलपद्ये ‘‘शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः । इति शृङ्कवेरपुराधीशात् रामतो लब्धजीवकः । इति च (लघुशब्देन्दुशेखरस्य मङ्कलपद्यम्)। अनेन भट्टोजिदीक्षितस्य पौत्रेण हरिदीक्षितेन सह व्याकरणं पठितम् । अस्य न्यायगुरू रामभट्टाचार्योऽविद्यते । अस्य कालः विक्रमस्य १७३० तः १८१० मध्ये मनुत इतिहासविद् युधिष्ठिरो मीमांसकः (संस्कृतव्याकरणशास्त्रस्य इतिहासः प्रथमो भागस्य पृष्ठं४२५) । अस्य जन्म महाराष्ट्रे बभूव परं विद्याध्ययनं काश्यामेव कृतमनेन । अस्याचार्यस्य कृतयो नवत्यधिकाः सन्ति । आचार्योऽयं नागोजिभट्टनाम्ना च विख्यातो विद्यते । व्याकरणशास्त्रे भर्तृहरेः पश्चात् प्रामाणिकत्वेनाचार्योऽयमेव स्मृयते । अस्य प्रमुखाः कृतयो निम्नाः सन्ति
१. बृहच्छब्देन्दुशेखरः,    
२. बृहन्मञ्जूषा,
३. लघुशब्देन्दुशेखरः,
४. वैयाकरणसिद्धान्तलघुमञ्जूषा,
५. वैयाकरणसिद्धान्तपरमलघुमञ्जूषा,
६. परिभाषेन्दुशेखरः,
७. महाभाष्यप्रदीपोद्योतः आदि ।
२.२. वैयाकरणसिद्धान्तपरमलघुमञ्जूषायाः परिचयः
                वैयाकरणसिद्धान्तपरमलघुमञ्जूषा नागेशाचार्यस्यैका प्रसिद्धा कृतिर्विद्यते । एष दार्शनिको ग्रन्थोऽस्ति । अस्योपरि वैयाकरणसिद्धान्तमञ्जूषावैयाकरणसिद्धान्तलघुमञ्जूषानामकौ द्वौ ग्रन्थौ स्तः । अनयोः संक्षेपात्मिका èेषा परमलघुमञ्जूषा । अस्य ग्रन्थस्योपजीव्यग्रन्थस्त्वाचार्यभर्तृहरिकृतं वाक्यपदीयमेवास्ति । अस्मिन् ग्रन्थे यत्र तत्र वाक्यपदीयस्य श्लोकाः प्रमाणत्वेनोपस्थापिताः सन्ति । यत्र कुत्रचित् भिन्नताऽपि विद्यते । यथा नागेशः परापश्यन्तीमध्यमाबैखर्यः चतस्रः वाचः स्वीकरोति, तत्र वाक्यपदीयकारो भर्तृहरिः पश्यन्तीमध्यमावैखर्यः तिस्र एव वाचः स्वीकरोति । अस्मिन् ग्रन्थे चतुर्दश प्रकरणानि सन्ति । तानि शक्तिविचारः, लक्षणाविचारः, व्यञ्जनाविचारः, स्फोटविचारः, आकाङ्क्षाविचारः, योग्यताविचारः, आसत्तिविचारः, तात्पर्यविचारः, धात्वर्थविचारः, निपातार्थविचारः, लकारार्थविचारः, कारकविचारः, नामार्थविचारः, समासवृत्त्यर्थविचार इति । अस्य ग्रन्थस्य भाषा वैयाकरणभूषणसारापेक्षया सरला विद्यते ।
२.३ वैयाकरणसिद्धान्तपरमलघुमञ्जूषायां धात्वर्थः
                सर्वेषां शब्दानां धातुत एव जायमानत्वात् धात्वर्थनिरूपणायेदं प्रकरणं प्रारब्धमस्ति । तत्र फलानुकूलो यत्नसहितो व्यापारो धात्वर्थो विद्यते । आख्यातार्थास्तु कर्तृकर्मसङ्ख्याकालाः सन्ति । फलत्वञ्चात्र तद्धात्वर्थजन्यत्वे सति कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरुपितप्रकारतावत्वम् । व्यापारत्वञ्च धात्वर्थफलजनकत्वे सति धातुवाच्यत्वम् । अनुकूलत्वं संसर्गो वर्तते । अनुकूलत्वञ्च फलनिष्ठजन्यतानिरुपितजनकत्वम् । कालश्च व्यापारे विशेषणं भवति । व्यापारमुख्यविशेष्यकः शाब्दबोधो जायते । कर्ता आधाराधेयसम्बन्धेन व्यापारस्य विशेषणं भवति । व्यापारः कर्तर्याश्रितो भवति । कर्म फलस्य विशेषणं भवति । सङ्ख्या कर्तृवाच्ये कर्तुः कर्मवाच्ये कर्मणो विशेषणं भवति ।
                नागेशाचार्यो हि फलव्यापारयोः धातोः पृथक् शक्ति न स्वीकरोति । तयोः पृथक् धात्वर्थस्वीकारे तिस्रः आपत्तयः सन्ति । (१) तथा स्वीकारे तयोः परस्परमुद्देश्यविधेयभावेन अन्वयापत्तिः स्यात्, पृथगुपस्थितयोः तथान्वयस्यौत्सर्गिकत्वात् । (२) एकपदस्य धातोः द्वयोरर्थयोः पृृथक् पृथक् शक्तिद्वयकल्पने धातोर्बोधजनकत्वसम्बन्धद्वयकल्पने च गौरवं स्यात् । (३) द्वयोरर्थयोः कार्यकारणभावद्वयकल्पनं भवेत्, तच्च फलविशेषणकव्यापारबोधे कर्तृप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणमिति, व्यापारविशेषणकफलबोधे कर्मप्रत्ययसमव्याहृतधातुजन्योपस्थितिः कारणमिति च कार्यकारणभावद्वयकल्पने च महद्गौरवं स्यात् । अतः फलविशिष्टे व्यापारे व्यापारविशिष्टे फले च धातूनां शक्तिर्नागेशमते । कर्तृवाचककर्मवाचकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तदर्थज्ञाने नियामकः । अतो दोषाभावः ।
३.धात्वर्थविषये कौण्डभट्टनागेशभट्टयोर्मतभेदः
                धात्वर्थविषये  कौण्डभट्टनागेशयोर्मतभेदं दरीदृश्यते । तत्र कौण्डभट्टः फलव्यापारयोः खण्डशः धात्वर्थं स्वीकरोति । तथा स्वीकारे नागोजिभट्ट आपत्तीः प्रदश्र्य स्वकीयं विशिष्टे अर्थमुपस्थापयति । एष महोदयस्तु फलावच्छिन्ने व्यापारे एवं व्यापारावच्छिन्ने फले धात्वर्थं स्वीकरोति ।
                साध्यत्वविषये च कौण्डभट्टनागेशभट्टयोर्मतभेदं दरीदृश्यते । तत्र कौण्डभट्टः साध्यत्वञ्च क्रियान्तराकांक्षानुत्थापकतावच्छेदकं सत् कारकान्तरान्वययोग्यतावच्छेदकरूपवत्वमिति स्वीकरोति । नागोजिभट्टस्तु उपपदमतिङ् (पा.सू. .२।२।१९) इतिसूत्रस्थं भाष्यमुदाहृत्य साध्यत्वं निष्पाद्यत्वमेव स्वीकरोति । तद्रूपेणैव बोधो जायते । न च घटं करोति इत्यादौ द्रव्यस्यापि साध्यत्वेन प्रतीतिः स्यादिति वाच्यम्, करोतिपदसमभिव्याहारात् ।
                सकर्मकाकर्मकलक्षणे च कौण्डभट्टनागेशभट्टयोर्मतभेदं दरीदृश्यते । कौण्डभट्टस्तु स्वार्थफलव्यधिकरणवाचकत्वं सकर्मकत्वं तद्भिन्नमकर्मकत्वमिति लक्षणं विदधाति । नागेशभट्टस्तु शब्दशास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वम्, तदनन्वय्यर्थकत्वमकर्मकत्वमिति लक्षणं विदधाति ।
४. निष्कर्षः
                वैयाकरणभूषणसारवैयाकरणसिद्धान्तपरमलघुमञ्जूषे व्याकरणशास्त्रस्य दार्शनिकपरम्परायां प्रसिद्धौ ग्रन्थौ स्तः । लेखकावपि महाविद्वासौं स्तः । द्वयोरेव व्याकरणशास्त्रे महद्योगदानं विद्यते । एतयोर्ग्रन्थयोस्तुलना सामान्या नासीत्, तथाप्यत्र मया केवलं प्रयासो विहितः । धात्वर्थविषये अनयोर्मध्ये नाधिकं मतभेदम्, यत्र कुत्र चित् सामान्यं मतान्तरं विद्यते । तन्मया प्रकृते लेखे सङ्गेतितम् ।
सन्दर्भग्रन्थाः
१. दहालः, लोकमणि वैयाकरणसिद्धान्तपरमलघुमञ्जूषाया भूमिका चौखम्बा सुरभारती प्रकाशन, वाराणसी, द्वितीयं संस्करणम् ई. १९९८
२. पूर्ववत्, वैयाकरणसिद्धान्तपरमलघुमञ्जूषाया किरणावली संस्कृतहिन्दीभाषायाः टीका पूर्ववत्
३. पाणनिः अष्टाध्यायी चौखम्बा सुरभारती प्रकाशन वाराणसी ई.सं. १९८१
४. भट्टः, कौण्डः वैयाकरणभूषणसारः प्रकाशकौ अरविन्दमिश्रमकरन्दमिश्रौ प्रथम संस्करण वि. २०२९
५. भट्टः, नागेशः वैयाकरणसिद्धान्तपरमलघुमञ्जूषा महाराजसयाजिरावविश्वविद्यालयः, बडौदा, प्रथमं संस्करणम्, वि.सं. २०१७
६. मिश्रः, प्रभाकरः वैयाकरणभूषणसारभूमिका प्रकाशकौ अरविन्दमिश्रमकरन्दमिश्रौ प्रथमं संस्करणम् २०२९
७. मीमांसकः, युधिष्ठिरः संस्कृत व्याकरणशास्त्रका इतिहासः द्वितीयो भागः प्रकाशकः युधिष्ठिरमीमांसकः द्वितीयं संस्करणम् वि. २०३०
Powered by Blogger.