परिभाषासूत्राणि
श्रीरामः
इको गुणवृद्धी १ । १ । ३ सूत्रमिदं यत्र गुणो वा वृद्धिर्वा विधीयते तत्र इकः इति षष्ठ्यन्तपदमुपस्थापयति । यथा– सार्वधातुकार्धधातुकयोः ७ । ३ । ८४, पुगन्त लघूपद्यस्य च ७ । ३ । ८६, जुसि च ७ । ३ । ८३, मिदर्गुणः ७ । ३ । ८२ इति सूत्रादनुवर्तमानं गुणइति पदं तत्र न ज्ञायेत कस्य स्थाने गुणः स्यादिति १ । १ । ३ सूत्र सत्वेतु इकः स्थाने इति ज्ञायते । एवं सिचिवृद्धिः परस्मैपदेषु ७ । २ । १ इति सूत्रेण वृद्धिर्भवतीत्युच्यते तत्र न ज्ञायेत कस्य स्थाने वृद्धिः स्यादिति प्रकृतपरिभाषासूत्रसत्वेतु इकस्थाने इति ज्ञायते । इदन्त्ववधेयम्– यत्र स्थानिनिर्दिष्टो भवति तत्र नैतत् सूत्रम् इकः इति पदमुपस्थापयति । यथा अचो ञ्णिति ७ । २ । ११५, ओर्गुणः ६ । ४ । १४६ इत्यादौ इकः इति पदं नोपतिष्ठते श्रुतिलिङ्कयोः श्रुतेर्वलीपस्त्वात् । यथाह भगवान् जैमुनि–श्रुतिलिङ्कवाक्यप्रकरण–स्थानसमाख्यानां समवाये णरदौर्वलयमर्थबिप्रकर्षात् इति म.सू. ।
अलोùन्त्यस्य १ । १ । ५२
अनेन सूत्रेण आदेशविधायकेषु सूत्रेषु अन्त्यस्यालः इति ज्ञायते । यथा– मोùनुस्वारः ८ । ३ । २३ इति सूत्रेण खट्वायां शेते इत्यादिषु वाक्येषु वाक्यघटकेषु खट्वायामित्यादिषु पूर्णेष्वेवपदेषु अनुस्वारः स्यादिति सम्भावनायां मकारान्तस्य पदस्यान्त्यस्य लिःस्थाने भवतीति ज्ञायते । तेन मकारमात्रस्थस्थानेùनुस्वारः सिद्ध्यति । एवं ससजुषो रुः ८ । २ । ६६ इति सूत्रे सान्तस्य सजुष्शब्दान्तस्य च पदस्य रू इत्यादेशप्रसङ्के प्रकृतपरिभाषासूत्रद्वारा पदान्तस्य सस्य सजुषः षस्य च रू भवतीति ज्ञायते । एवम् अतो दीर्घो यञि ७ । ३ । १०१ सुपि च ७ । ३ । १०२ बहुवचने झल्येत् ७ । ३ । १०३ इत्यत्र अदन्ताङ्कस्येत्यर्थस्य तत्तत्सूत्रतो लाभेùपि प्रकृतपरिभाषासूत्रद्वारा अदन्ताङ्कान्त्यस्य चेत्यर्थो गम्यते । एवं नामि ६ । ४ । ३, अकृत्सार्वधातुकयोर्दीर्घः ७ । ४ । २५ इत्यादिषु सूत्रेषु तत्तत्सूत्राक्षरैरजन्ताङ्कस्य दीर्घ इत्यर्थलाभेùपि प्रकृतपरिभाषासूत्रद्वारा अन्त्यस्येवाचः इत्यर्थो गम्यते । एवं ह«स्वनपुंसके प्रातिपदिकस्य १ । २ । ४७, हलि लोपः ७ । २ । ११३ इत्यत्र घ्वसोरेद्धा वभ्यासलोपश्च ६ । ४ । ११९ इति सूत्रघटक घ्वसोरित्यंशे अदस औ सुलोपस्य ७ । २ । १०३ इत्यादिषु बहुत्र सूत्रेषु अन्त्यस्यालस्थाने भवतीत्यर्थो गभ्यते । एवञ्च सूत्रमिदं पाणिनीयाष्टाध्यायीकायलाघवे महत्वपूर्णम् ।
षष्ठी स्थाने योगाः । १ । १ । ४९
सूत्रमिदमष्टाध्याøयाः सूत्रान्तरेषु यत्र यत्र षष्ठ्यन्तं पदमुपलभ्यते तत्र तत्र स्थाने इति पदाकरणरूपं लाघवम् । इथञ्चावयवषष्ठ्ययन्तेतर षष्ठ्यन्तेषु स्थाने इति पदं विनापि स्थाने इत्यर्थलाभेन अष्टाध्यायीकायलाघवे सूत्रमिदमपि महत्वपूर्णं, यथा– इको यणचि ६ । १ । ७७ इत्यत्र इकः स्थाने इत्यर्थः स्थाने इति शब्दप्रयोगं विनैव ज्ञायते । तथा एचोùयवायावः ६ । १ । ८४ इति सूत्रे पूर्वपरयोरित्यस्य पूर्वपरयोस्थाने एवं अङ्कस्य ६ । ४ । १ इत्यत्र अङ्कस्य स्थाने इत्यर्थो ज्ञायते । एवं षष्ठ्यन्तस्य सर्वत्र ज्ञेयम् ।
आद्यन्तौ टकितौ १ । १ । ४६
अनेन धातुः प्रातिपदिकप्रत्ययेष्वन्यतमेषु वर्णान्तरसन्निवेशे टित्घटित आदौ भवति, कित्घटितअन्त्येभवतीति शिक्षयति सूत्रकारः । यथा– आर्धधातुकस्येड्वलादेः ७ । २ । ३५ इति सूत्रे इडितीत्यत्र टिद्ददर्शनेन वलादेरार्धधातुकस्य आदाविकारः सन्निविशत इति ज्ञायते । ङ्णो कुक् टुक् शरि ८ । ३ । २८ इति सूत्रे कुक्टुक् इत्यत्र किद्ददर्शनेनात्र ककारटकारौ ङकारणकारान्तावयवौ भवत इति प्रातीयते । ङमोह«स्वादचि... ८ । ३ । ३२ इत्यत्र ङमुट् इति टित्वदर्शनेन ङणना अच आद्यावयवा भवन्ति । ज्ञायं चिरम्.. ४ । ३ । २३ इति सूत्रे तुट् इत्यत्र टित्वदर्शनेन तत्रस्य यकारः प्रत्ययावयव इति ज्ञायते । भुवो वुग्लुङ्लिटोः ६ । ४ । ८८ इति सूत्रे कित्वदर्शनेन तत्रत्य वकार धातोरन्तावयवो भवतीति । एवं नुट्, सुट्, डट्, थक्, मट्, इथक् इत्यादिष्वपि सर्वत्र स्थलेष्वायावयवो वाùन्तावयवो वेति भ्रमो न भवत्याद्यन्त... शब्दप्रयोगौ विनाùपि । अत अष्टाध्यायीकायलाघवे सूत्रमिदं बहूपकारकम् ।
विप्रतिषेध परं कार्यम् १ । ४ । २
यद्यपि परिभाषासूत्राणि अष्टाध्यायीकायलाघवायोपकारिव्येव परं तेभ्यः परिभाषान्तरसूत्रेभ्य इदं परिभाषासूत्रं विलक्षणं लक्षणान्तरम् । एतत् सूत्रन्तु विवादे स्थेय (न्यायाधीशः) इवास्ति । अस्य सूत्रस्य निर्माणे नैतदनुकूलरीत्या प्रयोगनिष्पत्तये सूत्रक्रमसन्निवेशमहात्म्येन भगवतः पाणिनेर्लोकोत्तरप्रतिभाचमत्कारेण चमत्करोति विश्वमिदम् । यथा– राम भ्यस् इत्यत्र सुपिच ७ । ३ । १०२ इति सूत्रवाक्यार्थरीत्या अकारस्यस्थाने आकारेण भाव्यम् । बहुवचने झल्येत् ७ । ३ । १०३ इति सूत्रवाक्यार्थरीत्या एकारेणभाव्यम् । एवं विप्रतिषेधे परस्परविरोधे किं कार्यम् ? एवं विषमायां परिस्थितौ सूत्रस्थेय स्थानीयं प्रवर्तते, विप्रतिषेधे परं कार्यमिति । तेन ज्ञायत अत्र एकारैव भवति नत्वमार इति ।
एवम् आकडारादेकासंज्ञा १ । ४ । १ इति एकैव संज्ञाभवतीत्युपदिशति । तत्र स्वादिष्यसर्वनामस्थाने १ । ४ । १७, यचि भम् १ । ४ । १८ अनयोर्विवादस्थले भसंज्ञा वा कर्तव्या पदसंज्ञा वा कर्तव्येति जाग्रति विवादे सूत्रमिदं स्थेयस्थानीयं निर्णायकं भवति, विप्रतिषेधे परंकार्यमिति भसंज्ञैव भवति, न पदसंज्ञेति ।
तथैव तङ्, शानच्, कानचम्, लादेशत्वेन लः परस्मैपदम् १ । ४ । ९९ इति सूत्रेण परस्मैपदसंज्ञामित्युपदिश्यमानायाम् आकडारेति सूत्रेण उभयोः संज्ञयोः समावेशा समावेशाभावेन च, उपतिष्ठते विरोधः आत्मनेपदसंज्ञा वा कर्तव्या परस्मैपद संज्ञावेति तत्र स्थेय स्थानीयं सूत्रमिदं निर्णायकं भवति विप्रतिषेधे परं कार्यमिति । तथा च तङ्, शानच्, कानचम, आत्मनेपदसंज्ञैव भवति, न परस्मैपदसंज्ञेति ।
उचि श्नुधातुभ्रुवां टवोरियङुवङौ ६ । ४ । ७७ इत्यस्यावकाशः चिक्षियतुः चिक्षियुः, तुष्टुवतुः, तुष्टुवुः । सार्वधातुकार्धधातुकयोः ७ । ३ । ८४ इत्यस्यावकाशो विभेति, जुहोति, इति । अथ भ अति इत्यत्रोभयं प्राप्नोति उवङ् च गुणश्च, तथा जि अति इत्यत्रोभयं प्राप्नोति, इयङ् च गुणश्च, अत्र अचिश्नु... इत्यनेन इयङुवङौ वा कर्तव्यौ, सार्वधातु... इत्यनेन गुणो वा कर्तव्यः, एवं जाग्रति विरोधे स्थेयरूपं सूत्रमिदं प्रवर्तते विप्रतिषेधे परं कार्यमिति । तेन गुण एव भवति नेयङुवङौ इति निर्णयो भवति ।
आदेः परस्य १ । १ । ५४
इदमपि परिभाषासूत्रम् । अतोष्टाध्यायीकायलाघव उपकारकं भवतीति ज्ञायत एव । यथा ज्यादादीयस ६ । ४ । १६० इति सूत्रेण आकारादेशे कर्तव्ये प्रकृतसूत्रवलेन इयसः ईकारस्थाने भवतीति ज्ञायते । यदिसूत्रमिदं नस्यात्तर्हि ज्यादा... इति सूत्रे आदेः ईतः इति वा कर्तव्यं स्यात् । तथा बहोर्लोपो भू च बहोः ६ । ४ । १ । ५८, इति सूत्रे उपसर्गादृति धातौ ६ । १ । ९१, अमि पूर्वः ६ । १ । १०७, एङिपररूपम् ६ । १ । ९४, वा सुप्यापिशलेः ६ । १ । ९२, औतोùम्शसोः ६ । १ । ९३, उस्यपदान्तात् ६ । १ । ९६ इत्यादौ पूर्वान्तपरयोरिति वक्तव्यं स्यात् । एकः पूर्वपरयोः ६ । १ । ८४ इति सूत्रमस्तीति न भ्रमितव्यम् । आदेः परस्य १ । १ । ५४ इति सूत्राभावे एकः पूर्व.. इति सूत्रवलेन पूर्वांशे अलोùन्त्यस्य इति सूत्रवलेन पूर्वान्त्यलाभेùपि परांशे परादिलाभासंभवात् । एवञ्च पूर्वोक्तेषु सूत्रेषु पूर्वान्तांशाग्रहणेùपि परादेरित्यंशस्त्ववस्यं वक्तव्यः । अन्यथा प्र+ऋच्छति इत्यत्र उपसर्गादृति धातौ ६ । १ । ९१ इति सूत्रप्रवृत्तौ ऋकारादौ धातौ परे इत्यर्थे ऋकारादिधातुः ऋच्छ् इति तस्य स्थाने वृद्धौ क्रियमाणायाम् अलोùन्त्यस्य १ । १ । ५ इति सूत्रवलेन छकारस्य स्थाने स्यात् । न च इको यणचि ६ । १ । ७७ इति सूत्रवलादनु... वर्तमानेनाचीत्यस्य दोषनृवृत्तिः । एतेधत्य ठसु ६ । १ । ८९ इत्यत्र एजादिधात्ववयवेùचि प्रकृतसूत्रेùपि ऋकारादिधात्वयवेùचि उस्यपदान्तात् ६ । १ । ९६ इत्यत्र उस्यवयवेùचि, एङिपररूपमित्यत्र एङादिधात्ववयवेùचि इत्यादि गौरवग्रस्तार्थस्वीकार्य– प्रसङ्कात्, सप्तम्यर्थस्यावयवार्थकल्पने क्लेशाच्च । एतेन वृक्षे शाखा इति वत् सप्तमी इति नागेशोक्तिरथि अनाहत्याùस्मिन् परिभाषा सूत्रे जाग्रति एकःपूर्व.... इति सूत्रेण परशब्दनिर्दिश्यमानस्य आदेर्वर्णानां भवतीति स्पष्टं प्रतीयते । ऋकारादौ धातौ परे इत्यर्थेùपि धातावादेर्ऋकारस्यैव प्रसङ्कात् । एवम् उस्यपदान्तात् ६ । १ । ९६ उसिपर इत्यर्थेùपि प्रकृतपरिभाषा सूत्रेण उकारस्य प्रसङ्कात् । एवमुपरिनिर्दिष्टेषु तथा परस्यस्थाने विधायकेषु सूत्रेषु आदिपदं विनैव आदेः इत्यर्थो ज्ञातो भवति ।
स्थानेùन्तरतमः १ । १ । ५०
प्रतिपदं शब्देषु निरुच्यमानेषु न सर्वे शब्दाः सकृदुच्चा रयितुं शक्याः, शब्दानामानन्त्यात्, मनुष्याणामायुषः स्वल्पत्वात् यथाह भगवान् पतञ्जलिः पस्पशाहिनकस्य शब्दानां प्रतिपदपाठप्रसङ्के वृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दपारायणं प्रोवाच नान्तं जगाम, वृहस्पतिश्च प्रवक्ता, इन्द्रचाध्येता दिव्यं वर्षसहस्रमध्ययनकालो न चान्तं जगाम इति । अतः स्वल्पेनैव कालेन महतः शब्दौघस्य ज्ञानाय व्याकरणं लघुकायमपेक्षितम् । पाणिनीय व्याकरणलाभाय परिभाषासूत्राणि महोमयोगिन्यः सन्ति । तेष्वन्यतममिदसूत्रम् । यथा– इको यणचि ६ । १ । ७७ इति सूत्रम् । अस्यार्थश्च आदिरन्त्येन सहेता १ । १ । ७१ इति संज्ञासूत्रवलेन षष्ठी स्थाने योगा १ । १ । ४९ इति तस्मिन् १ । १ । ६६ इति च परिभाषासूत्रद्वयवलेन पूर्वोक्तस्य पञ्चाक्षरस्य सूत्रस्य इ–उ–ऋ–लृ वर्णानां स्थाने य् व् र् ल् वर्णाभवन्ति, अ इ उ ऋ लृ ए ओ ऐ औ इत्येतेषु वर्णेषु परत इतयर्थो निःसरति । तत्र इ उ ऋ लृ इति प्रत्येकं वर्णानां स्थाने य् व् र् ल् इति प्रत्येकं वर्णाः प्राप्नुवन्ति तत्र परिभाषासूत्रमिदं स्थानेùन्तरतमः १ । १ । ५० बोधयति– इकारस्य स्थाने रेफः, लृकारस्थाने लकारः इति । एतत् परिभाषासूत्राभावे इ उ ऋ लृ इति प्रत्येकं वर्णाना प्रत्येकादेशाभिधाने प्रयन्तान्तरं कर्तव्यं स्यादिति गौरवं स्यात् । इद्यपि अत्र क्रमश इति न्यासेनापि त्रिभिरक्षरैर्वर्धितैः समाधीयेत । परन्तु आद्गुणः ६ । १ । ८७, बृद्धिरेचि ६ । १ । ८८ वा सुप्यापिशलेः ६ । १ । ९२ इत्यादिषु पूर्वपरयोस्थाने विधायकेषु सूत्रेषु तत्तत्सूत्रलक्षणनिष्पादनाय गौरवमयपन्था आश्रयणीयः स्यात् । यथा तृडवत्क्रोष्टुः इत्यत्र तृजवदित्यंशे क्रोटुशब्दः प्रयोक्तव्यं स्यात् । झयो होùन्यतरस्याम् ८ । ४ । ६२ इत्यत्र वर्गचतुर्थ इति न्यासो वद्र्धनीयः स्यात् । सार्वधातुकाद्र्धधातुकयोः ७ । ३ । ८४ इत्यत्र ए, ओ अर्, अल् इत्ये न्यासो वद्र्धनीयः स्यात् । अचोùञ्णिति ७ । २ । ११५ इत्यत्र आ, ऐ, औ, आर्, आल् इति न्यासो वद्र्धनीयः स्यात् सिचिवृद्धिपरस्मैपदेषु ७ । २ । १ इत्यादौ क्रमशः ऐ, औ, आर्, आल् इति न्यासो वद्र्धनीयः स्यात् । अतः परिभाषासूत्राणि भगवतः पाणिनीयस्य अष्टाध्यायीकायलाघवे महत्वपूर्णानि सन्ति ।
सन्दर्भग्रन्थसूची
१. दीक्षितः,भट्टोजिः, वैयाकरण सिद्धान्तकौमुदि प्रथमो भागः (अष्टमं संस्करणम् ), २०३६, वाराणसी ः चौखम्बासंस्कृतसंस्थानम् ।
२. दीक्षितः,भट्टोजिः, प्रौढमनोरमा (वैयाकरण सिद्धान्तकौमुदीव्याख्या ), सम्पा. श्री सीतारामः शास्त्री, २०२१, वाराणसी ः काशी–हिन्दु–विश्वविद्यालयः ।
३. पाणिनि, अष्टाध्यायी, ई. १९८७, वाराणसी ः चौखम्बासुरभारतीप्रकाशनम् ।
४. भट्टः,नागेशः, परिभाषेन्दुशेखरः, ई. १९५४, वाराणसी ः चौखम्बासुरभारतीप्रकाशनम् ।
रश्मीराज पाण्डेय
सह–प्राध्यापक

प्रतिक्रिया व्यक्त गर्नुहोस्