Header Ads

पञ्चाङ्गविवेकः


अर्जुनप्रसादः भट्ठराई
                                               उप–प्रा. जनताविद्यापीठम् ,दाङ ।
१) विषयप्रवेशः–
वेदानुप्राणिताः वयं पूर्वीयाः वेदमूलकश्रुतिस्मृतिपुराणेतिहासधर्मशास्त्रा– द्युक्तयज्ञव्रत– तपपर्वोत्सवानुष्ठानसंस्कारादिभिः संस्कृताः आर्षलताकीर्णाः “सह नौ ववतु, सह नौ भुनक्तु, सह वीर्यं करवावहै” इत्यादर्शदिक्षिताः “वसुधैवकुटुम्बक”मिव सस्नेहमस्मिन् पूण्यभूमौ वसामः यत्रावताराय देवा अनुतपन्ति । अत्र परमपवित्रभूमौ प्रतिदिनं नित्यनैमित्तिककाम्यकर्माणि 
प्रचलन्ति । तानि च कर्माणि सुकालकृतानि सफलानि, विरुद्धकालकृतानि च विफलानि वानेकविघ्नविघटितानि भवन्ति । अतः   सुकाल बोधाय कालबोध– कस्य ज्योतिषशास्त्रस्य अपरिहार्यता स्वतः सिद्धा । एतेनेदं शास्त्रं अपौरुषेयस्य वेदस्य पुरुषाकारानुकल्पितस्य नेत्रस्थानीयाङ्गत्वेन श्रद्धातिशयेन गृह्यते । यथोक्तं भास्कराचार्येण सिद्धान्तशिरोमणौ –
“वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण 
      शात्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात् ।।” 
वेदस्य गुढज्ञानावबोधनसमर्थैःमनिषिभिः वेदपुरुषस्य षडङ्गानि कल्पितानि । तत्र शब्दशास्त्रं व्याकरणं   वेदपुरुषस्यवक्त्रत्वेन कल्पितम् । कालज्ञापकं ज्योतिषशास्त्रं तु वेदपुरुषस्य नेत्रस्थानीयाङ्गत्वेन स्वीकृतम् । तथैव निरुक्तं तु वेदपुरुषस्य श्रोत्रमुक्तम् । कल्पस्तुवेदपुरुषस्य करौ स्तः । शिक्षा तस्य नासिका अस्ति चेत् छन्दशास्त्रं पादद्वयं अस्ति ।यथोक्तम्−
        “ शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तं च कल्पकरौ ।
         या तु शिक्षास्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ।” 
यद्यपि सर्वेषामङ्गानां स्वस्वमहत्वं वर्तते एव तथापि नेत्रं यथार्थस्य शीघ्रप्रतीतिकारकमङ्गमित्यस्य  विशिष्टं महत्वं वर्तते । यतोऽन्यैरङ्गैः परिपूर्णोऽपि पुरुषः चक्षुषाङ्गेन हीनो किञ्चिद्करो न भवति । अतैवोक्तम्−   “वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्याचाङ्गमध्येस्य तेनोच्यते ।
संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चद्करः ।।”  
इत्थं वेदाङ्गभूतज्योतिषस्य प्रमुखं कार्यं श्रुतिस्मृतिपुराणेतिहासधर्म– शास्त्रोक्तानां नित्यनैमित्तिककाम्यक– र्माणां सुफलतावाप्तये शुभकालबोधन–मत्यावस्यकमस्तीति विदामतिरोहितमेव । यथा श्रुति कथयति –“पौर्णमास्यां पौणमास्यां यजेत ।”अत्र तिथिज्ञानमावस्यकम् । एवमेव प्रत्येकस्यामेका– दश्यामुपवासं वसन्ति जनाः । तत्रापि दशमीबिद्धैकादश्यामुपसन्ति स्मर्ताश्चेद् द्वादशीबिद्धैकादश्यामुपसन्ति वैष्णवाः । तत्र कदैका दशी दशमीविद्धा कदा च द्वादशीबिद्धा भवतीति ज्ञानार्थं तिथेरारम्भावसानज्ञानमावस्यकं भवति । तज्ज्ञानं च ज्योतिषशास्त्रमन्तरेणासम्भवम् । तथैव भाद्रकृष्णाष्टम्यां कृष्णजन्मोत्सवं भवति चेदाश्विनशुक्लपक्षे शक्तिस्वरूपायाः दूर्गादेव्याः विशेषपूजनं भवति । एवमेवादित्यवासरेऽर्कस्य ,सोमवासरे शिवस्य भौमवासरे विध्नराजस्य , शनिवासरे देव्याः विशेषपूजनं भवति । तथैव गगनेचराणामशुभशान्त्यर्थं तत्तद्ग्रहानुसारवार ग्रहणं भवति । यथा शनिग्रहशान्तये शनिवारमभीष्टम् ।एतदर्थं वारज्ञानमावस्यकं भवति ।विवाहव्रतबन्धादि संस्काराः शुभलग्ने शुभमुहूर्ते च विधियन्ते । मूलनक्षत्रेऽश्लेषानक्षत्रे च जातानां गोमुखप्रसव संस्कारपूर्वकं तत्तन्नक्षत्रशान्तिः कर्तव्यः ।प्रथमदन्तोत्पत्तिफलज्ञानं , प्रथमरजोदर्शनफलज्ञानञ्च शुभाशुभकालवशात् ज्योतिषशास्त्राद् भवति ।पञ्चकमृतानां ,द्विपुष्करे त्रिपुष्करे वा मृतानां विशेषान्त्यकर्मविधानं  विधेयम् ।एव मेव न केवलं जन्मादिमरणपर्यन्तानामपितु मरणोपरान्तानां संस्कारादीनांश्राद्धादिकालोपयुक्तकालनिर्णयः ज्योतिषशास्त्रस्य विषयः । उपर्युक्तप्रतिनिधिदृष्टान्ताधारे मानवजीवनज्योतिषयोरन्योन्यसम्बन्धमनुमितुं शक्यते ।अतैव प्राचीनकालादेव तिथिवारनक्षत्रयोगकरणञ्चेति पञ्चावयवात्मकं पञ्चाङ्गं गणयित्वा प्रत्येक नूतनसम्वत्सरारम्भे नवीनपञ्चाङ्गप्रकाशन–स्यदीर्धपरम्परा वर्तते ।अतैवात्र पञ्चाङ्गविषयकविवेक अत्रास्मिन् लघुप्रबन्धे विधियते । 

२.  पञ्चाङ्गम् 
पञ्चानामङ्गानां समाहारः पञ्चाङ्गमति पञ्चाङ्गस्य व्युत्पत्यात्मकः पञ्चाङ्गशब्दः संख्यावाचकस्य पञ्च शब्दस्य तथावयवबोधकस्याङ्गशब्दस्य च योगेन जात ।विविधशास्त्रेषु विविधार्थे प्रयुक्तं  पञ्चाङ्गगपदं ज्योतिषशास्त्रे तिथिवारनक्षत्रयोगकरणानां समवायबोधकमस्ति । तेनात्रास्मिन् प्रबन्धे पञ्चाङ्गस्य पञ्चाङ्गानां पृथक् पृथक् विवेचनं कियते –
२.१  तिथिः 
अमावास्यायां चन्द्रर्कावेककदम्बप्रोतवृत्तगतौ भवतः । तदनन्तरं सूर्यादासन्नत्रयोदशगुणा– दधिकगतिकश्चन्द्रो यदा सूर्यादग्रे गत्वा सूर्येण सह भूकेन्द्रे द्वादशांशमितकोणमुत्पादयति तदैका तिथि– र्जायते । एवं प्रत्येक द्वादशद्वादशांशान्तरे वा १२º६०=७२० कलान्तरे एकाएका तिथिः पूर्णा भवति । एवं द्वितीयामान्ते यदा चन्द्रार्कयोः पुनर्योगो भवति तदा तयोः गत्यान्तरं षष्ट्युत्तरशतत्रयांशमितं भवति । एव  मेकस्मिन् चान्द्रमासे ३६०÷१२=३०  इति त्रिंशत्तिथयः भवन्ति । अतः तिथिसाधनार्थमादौ ग्रहसाधनरीत्ये ष्टकालिकौ चन्द्रार्कौ साध्यौ ।तयोः कालात्मकमन्तरं विज्ञाय ७२० कलाभिर्भाज्यं फलं गततिथिमानं भवति । यच्छेषं तद्वर्तमान तिथेः घट्यादिभुक्तभोग्यमानं भवति । एवं शुक्लप्रतिपदात्पूर्णिमान्तं यावत् चन्द्रार्कयो रन्तरस्योपचयात् चन्द्रशुक्लस्योपचयो भवति । पूर्णिमायामिन्दोनृदृश्यपूर्णभागमुज्ज्वलं भवति ।कृष्णप्रतिपदा दमावाश्यन्तपर्यन्तमर्केन्द्वोरन्तरस्यापचयत्वादशुक्लं बृदिङ्गच्छति । अमावाश्यायामिन्द्वोःनृदृश्यभागं पूर्णशुक्लं भवति । सत्यत्रेताद्वापरकलीनां समवायात्मके एकस्मिन्महायुगे १६०२९९९००० पूर्वोक्ताः चान्द्रदिवसाः भवन्ति । परन्तु “सूर्योदयोपलक्षितैव तिथयः तिथित्वेन  ग्राह्या नान्या ” इत्युक्तत्वात् यस्मिन् तिथौ सूर्योदयो भवति सैव तिथिः पञ्चाङ्गे दियते । महायुगे १५५५२०००००एव सूर्योदयाः भवन्ति । एतेन १६०२९९९० ००−१५५५२०००००=४७७९९००० एतन्मितेषु चान्द्रदिवसेषु सूर्योदयाः न भवन्ति । तानि क्षयदिनानि पञ्चाङ्गे न दियन्ते । क्षयतिथौ माङ्गलिककार्याणि नैव कुर्वन्ति जनाः ।तथैव यस्यास्तिथेरारम्भः प्रथमसूर्योदयात्पूर्वं तथावसानं द्वितीयसूर्योदयादनन्तरमेव भवति तस्यास्तिथेः वृद्धिर्भवति । सा पञ्चाङ्गे दिनद्वयं लिख्यते । यद्यपि सर्वे ग्रहाः यस्मिन्कस्मिन्नपि नक्षत्रे भवन्ति परन्तु चन्द्रस्य निकटवर्तीत्वात् शीघ्रगतिकत्वाच्च पञ्चाङ्गे दैनिकरूपेण चान्द्रनक्षत्रमेव दियते । अन्यग्रहाणां नाक्षत्रभोगं पाश्र्वे सूच्यते ।यथा “कृतिकायां रविः ।”

२.२ वारः
एकस्मात्सूर्योदयात् द्वितीयसूर्योदयावधिरेकसावनदिनमेकवारश्च भवति । उक्तञ्च –
                “उदयादुदयं यावत् भूमिसावनवासरः ।”  
वारक्रमस्तु ग्रहाणां कक्षाक्रमानुसारं निर्धारितम् । प्राचीनानां मते शनिगुरुमङ्गलसूर्यशुक्रबुधचन्द्राः भूमेरुत्त– रोत्तरनिकटस्थाः सन्ति ।प्रत्येकदिने एतेषां प्रत्येकानां सार्धघटिद्वयमिता होरा भवतीति दिने चतुर्विंशति होराः भवन्ति । तेन एकस्मिन् दिने प्रत्येकग्रहस्य होरा वारत्रयं समावत्र्य दिनारम्भकालिकहोरातः चतुर्थ होरा तद्दिवसान्ते पतति । द्वितीयदिने तु पञ्चमहोरेशस्य होरातः दिनारम्भो भवति । दिनारम्भे यस्य ग्रह–  स्य होरा पतति तद्दिने तस्य वारो भवति ।यतः कल्पारम्भे रविवासररासीदिति सूर्यस्य होरातः कल्पारम्भो जातेति निश्चियते । उक्तञ्च –
“लङ्कानगर्यामुदयाच्च भानोस्तस्यैववारे प्रथमं बभूवः ।
मधोः सितादेयुगमासवर्षयुगादिकानां युगपत्प्रवृत्ति ।”  ः
एवं कल्पारम्भदिने प्रथमहोरा सूर्यस्य द्वितीया शुक्रस्य तृतीया बुधस्य एवं क्रमेण द्वाविंशी पुनःसूर्यस्य त्रयोविशी शुक्रस्य चतुर्विंशी बुधस्य होरा भवति । ततः द्वित्तीयदिनारम्भे चन्द्रस्य होरा पतति । तेन तद्दिवसे चन्द्रवासरो भवति । एवं वारगणना भवति । वारारम्भविषये च मतद्वयं दृश्यते ।सौरमतानुयायीनां मते वारप्रवृत्तिः लङ्कार्धरात्रिकालाद् भवति। ‘लङ्कायामार्धरात्रिकः ’ इत्युक्तेः । परन्तु ‘दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमो हन्तुरदर्शने सति ’ इत्युक्तत्वात् ब्रह्ममतानुयायीनां मते तु लङ्कोदयकालादेव वारप्रवृत्तिः भवति ।उक्तञ्च –
लङ्कानगर्यामुदयाच्च भानोः तस्यैव वारे प्रथमं बभूवः ।
मधोः सितादेदिनमासवर्षयुगादीकानायुगपत्प्रवृत्तिः ।
संहितायामपि फलादेशार्थं मध्यमरात्रिकालादेव वारप्रवृत्तिः गृह्यते । साम्प्रतञ्च सर्वत्र मध्यरात्रिकालद्वारप्रवृत्तिः मन्यते । 
स्थानीयसमये कति गतघट्यादिषु वारप्रवृत्तिः भवतीति च ज्योतिषे विविच्यते ।सर्वत्रापि लङ्कार्धरात्रिकाले एव नूतनवारप्रवृत्तिः भवतीति स्थानीयसमये कति घट्यादिषु लङ्कार्धरात्रिर्भवतीति ज्ञानार्थं प्राचीनैर्लङ्कार्ध रात्रिकालिकसूर्योदयात् गतघट्यादिषु देशान्तरसंस्कारो विहितः ।रेखादेशात्प्राच्यां भूमध्यरेखोदयात्पूर्वमेवा र्कोदयः।भूमध्यरेखात्पश्चात्तु भूमध्यरेखादनन्तरं सूर्योदयो भवति।तथासूर्योदयादेवघट्यादिकालगणनाऽऽरभ्यते इति भूमध्यरेखात्प्राग्देशे देशान्तरघटियुतलङ्कार्धरात्रिकाले वारप्रवृत्तिः भवति । उक्तञ्च –
“वारप्रवृत्तिः प्राग्देशे क्षेपार्धेऽभ्यधिके भवेत् ।
तद्देशान्तरनाडिभिःपश्चादूने विनिर्दिशेत् ।।” 

२.३ नक्षत्रम् 
न क्षरति न चलतीति नक्षत्रमिति नक्षत्रशब्दस्य व्युत्पत्या गतिरहिताः ये आकाशीय– पिण्डास्ते नक्षत्रपदवाच्याः भवन्ति । एतेन आकाशे प्रकाशशीलाः तारकाः नक्षत्राख्याः भवन्ति । परन्त्वत्र ज्योतिषे सूर्यभ्रमणमार्गभूतस्य क्रान्तिवृत्तस्य सन्निकटस्थारश्वाद्याकृतियुक्ताः तारकसमूहाः एवाश्विन्यादि सप्तविंशति नक्षत्राणि सन्ति । एतेनेदं फलति क्रान्तिवृत्तस्य तुल्यसप्तविंशतिविभागाः नक्षत्रनाम्ना   व्यपदिश्यन्ते ।यतः एकस्मिन्वृत्ते ३६० अंशारर्थात् ३६० º६०=२१६००’ कलाः भवन्ति । एतेनैकस्मिन्नक्षत्रे  २१६००÷ २७ =८००’कलाः भवन्ति ।अतः कोऽपि ग्रहःकस्मिन्नक्षत्रे अस्तीति ज्ञानार्थं स्पष्टग्रहस्य कलाः कार्याः ।  ताः कलाः ८०० भक्ता फलं गतनक्षत्रसंख्या भवेत् । यच्छेषं तत् वर्तमानक्षत्रस्य  गतगम्यघ –टिकाः भवन्ति । उक्तञ्च−
“भभोगोष्टशतीलिप्ताः खाशिखैलास्तथातिथेः ।
ग्रहलिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम् ।” 

परन्त्वाकाशे ये अश्वाद्याकृतिकानि नक्षत्राणि तानि यथार्थे तुल्यानि ८०० कलामितानि न भवन्ति । तेषु कतिपयानि ८०० कलाल्पकानि , कतिपयानि ८०० कलाभ्योऽधिकानि तुल्यानि वा भवन्ति । तेन भास्कराचार्येणाहः –
“स्थूलं कृतं भानयनं यदेतज्ज्योतिर्विदां संव्यवहारहेतोः ।
सूक्ष्मं प्रवक्ष्येऽथ मुनिप्रणीतं विवाहयात्रादिफलप्रसिद्ध्यैः।
अध्यर्धभोगानि ११८५’। ५२”षडत्र तज्ज्ञाः प्रोचुर्विशाखादितिभध्रुवाणि ।
षडर्धभोगानि ३९५’।१७” च भोगिरुद्रवातान्तकेन्द्राधिपवारुणानि ।
शेषाण्यतः पञ्चदशैकभोगान्युक्तो भभोगः शशिमध्यभुक्तिः ७९०।३५
सर्वक्षभोगोनितचक्रलिप्ताः वैश्वाग्रतः स्यादभिजिद्भभोगः ।
कलीकृतादिष्टखगाद्विशोध्य दास्रादिभोगान् गतभानि विद्यात् ।।
विशुद्धसंख्यानि गतन्तु शेषमशुद्धभोगात्पतितं तदेष्यम् ।
गतागते षष्टिगुणे विभक्ते ग्रहस्य भुक्त्या घटिका तदैष्यम् ।।” 
एतेन विशाखा–पुनर्वसु–उत्तराफाल्गुनि–उत्तराषाढा–उत्तराभाद्रपदा–रोहिणी नक्षत्राणि प्रत्येकानि अर्धाधिक– भोगानि ११८५”।५२’ कला तुल्यानि भवन्ति । तथैवाऽश्लेषाद्र्रास्वातीभरणीज्येष्ठाशतभिषाश्चेति षड् नक्षत्राणि अर्धभोगानि  ३९५”।१७’ भवन्ति । शेषाणि पञ्चदशनक्षत्राणि एकभोगात्मकानि ७९०।३५ तुल्यानि भवन्ति । यतः नक्षत्रभोगः चन्द्रमध्यगतिमितं भवति । चक्रकलाभ्यः (२१६००) पूर्वोक्तानां सप्तविंशति नक्षत्राणां मानानि विशोध्य शेषमितं अभिजिन्नक्षत्रमानं भवति । उपर्युक्तनक्षत्राधारे पूर्वोक्तविधिना ग्रहस्य स्पूmटनक्षत्रानयनं कर्तव्यम् । 
यद्यपि नक्षत्रसाधनं सर्वेषां ग्रहाणां भवति । परन्तु चान्द्रनाक्षत्रं बहूपयोगित्वात् प्रतिदिनं पञ्चाङ्गे दियन्ते ।चान्द्रनक्षत्रस्य भयातभभोगाधारे  जातकस्य नामकरणं भवति । यथाश्विनी नक्षत्रस्य चु चे चो ला इति चत्वारपादाः भवन्ति । तत्राश्विनीनक्षत्रस्य प्रथमचतुर्थांशे जातस्य बालकस्य चु नाम्नाद्याक्षरं भवति । एवं सर्वत्र बोध्यम् । 

२.४ योगः
सूर्यचन्द्रमसोर्योगस्यापरनाम योगः ।अर्थात् सूर्यचन्द्रमसोर्योगो यदाष्टशतकलातुल्यो भवति तदैको योगो जायते । एवमेकस्मिन् भगणे विष्कुम्भादि सप्तविंशतियोगाः  भवन्ति । ते च –
१) विष्कुम्भः, २) प्रीतिः,  ३)आयुष्मान्, ४) सौभाग्यः, ५) शोभनः, 
६) अतिगण्डः , ७) सुकर्मा , ८) धृतिः , ९) शूलः , १०)गण्डः , ११) बृद्धिः , १२) ध्रुवः , १३) व्याघातः , १४) हर्षणः , १५) वज्रः ,१६) सिद्धिः , १७) व्यतीपातः ,१८) वरीयान् ,१९) परिघः २०) शिवः , २१) सिद्धः , २२) साध्यः , २३) शुभःः ,२४)शुल्कः , २५) ब्रह्मा , २६) एैन्द्रः , २७) वैधृतिः ।
स्पष्टरविचन्दयोर्योगकलारष्टशतकलाभिर्भाज्याः फलं गतयोगसंख्यामानं भवेत् । यच्छेषं तत् वर्तमान योगस्य भुक्तमानं भवेत् । भुक्तमानं भभोगात् विशोधितं वर्तमानयोगस्य भोग्यमानं भवेत् । ते भुक्तभोग्यमाने षष्टिगुणिते सूर्यचन्द्रयोर्गतिकलाभिर्भाजिते वर्तमानयोगस्य भुक्तभोग्यघटिकाः भवन्ति । 
तथैव आनन्दाद्यष्टविंशतियोगाश्च प्रसिद्धाः सन्ति । ते च –
१) आनन्दः , २) कालदण्डः , ३) धुम्रः , ४) धाता , ५) सौम्यः , ६) ध्वक्षः , ७) केतु , ८) श्रीवत्सः , ९) वज्रः , १०) मुद्गरः , ११) छत्रः १२) मित्रः , १३) मानसः , १४) पद्मः , १५) लुम्बः ,१६) उत्पातः , १७) मृत्यु , १८) काणः , १९) सिद्धिः , २०) शुभः ,२१) अमृतः , २२) मुशलः ,२३) गदः , २४) मातङ्ग , २५) रक्षः , २६) चरः , २७) सुस्थिरः , २८) प्रबर्धमानः । 
आनन्दादियोगगणनाप्रकारस्तु किञ्चिद् भिन्नः । तच्च यथा – 
                   “दस्रादर्के मृगादिन्दौ सार्पाद्भौमे कराद् बुधे ।
                   मैत्राद् गुरौ भृगुवैश्वाद् गण्या मन्दे च वारुणात् ।। ”  
अर्थात् रविवासरे अश्विनीनक्षत्रादारभ्य साभिजितं वर्तमाननक्षत्रं यावत् गणिते या संख्या भवति तत्तुल्य आनन्दाद्विगणøय वर्तमानयोगो भवति । तथैव सोमवासरे मृगाशिरातः ,मंगलवासरे अश्लेषातः ,बुधवासरे हस्तानक्षत्रतः , बृहस्पतिवासरे अनुराधातः , शुक्रवासरे उत्तराषढातः , शनिवासरे शतभिषतः साभिजितं वर्तमाननक्षत्रं यावद् विगणøय यावत् संख्याऽऽयाति तत्तुल्यैव तद्दिने आनन्दाद्विगणøय वर्तमानयोगो भवति । यथा रविवासरे तिष्यनक्षत्रे सति को योगो भवेदिति जिज्ञासायां रविवासरे अश्विनीनक्षत्रादारभ्याष्टमः ‘श्रीवत्सः’ योगो भवेत् । 
आनन्दादि योगानां भोगज्ञानार्थं यस्मिन् वारे यस्य नक्षत्रस्य योगेन आनन्दादि योगो जायते तद्योगस्य भोगकालः तन्नक्षत्रस्य भोगतुल्यो भवति । नक्षत्रभोगसमाप्तौ योगश्च समाप्तो भवति । तदनन्तरमग्रिम– योगारम्भो भवति । यथा रविवासरे तिष्यनक्षत्रमानं २५।३० घट्याद्यं चेत् पूर्वोक्तविधिना  ‘श्रीवत्स’ योगः २५।३०घट्यादिं यावत् भवति । तदनन्तरमग्रिमः ‘वज्रः’योगारम्भो भवति । 

२.५ करणम् 
करणं नाम तिथ्यर्धमस्ति । अर्थात् तिथेर्यद् घट्यादिमानं तदर्धमितमानकं करणं भवति । उक्तञ्च–
“तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत् ।” 
करणञ्च द्विविधं भवति – १) स्थिरकरणम् , २) चरकरणम्
२.५.१ स्थिरकरणम् − स्थिरकरणानि कृष्णपक्षस्य
चतुर्दशीतिथेरुत्तरार्धादारभ्य शुक्लप्रतिपदायाः पूर्वार्धं यावत् स्थिररूपेण भवन्ति । तेन तेषां स्थिरकरणमिति नामकरणं युक्तम् । स्थिरकरणानि चत्वारि सन्ति – क)शकुनि  , ख) चतुष्पाद् , ग)नागः , घ) किंस्तुघ्नः । 
२.५.२  चलकरणम् − 
चलकरणनि सप्त सन्ति – क) बबः, ख)बालवः, ग) कौलवः, घ) तौतिलः, ङ) गरः, च)वणिक् , छ) विष्टिश्चेति ।
 तिथ्यर्धभोगकरणमिति तु पूर्वोक्तमेव । तेन त्रिंशत्तिथ्यात्मके एकस्मिन् चान्द्रमासे षष्टिकरणनि भवन्ति । चत्वारि स्थिरकरणानीत्यवशिष्टानि षट्पञ्चाशद् करणानि भवन्तीति तेषु सप्त चलकरणानि अष्टवारमे– कैकं परिभ्रमन्ति ।चलकरणानयनार्थंं गततिथिं द्वाभ्यां संगुण्य सप्त भिर्भाज्यः शेषमितं बबादितः वर्तमानतिथेः पूर्वार्धे करणं भवति । तस्मिन् सैके उत्तरार्धे करणं भवति । एवं करणस्य मानं तिथ्यर्धसमं भवतीति तिथेर्भुक्तभोग्यमानं ज्ञात्वा तदाधारे करणस्यापि घट्यादिमानमानेतुं शक्यते ।
एवं प्राचीनकाले पञ्चाङ्गे उपर्युक्तानि पञ्चाङ्गानि भवन्ति स्मः। तैः सह चन्द्रार्कग्रहणं, संक्रान्तिसाधनञ् – चेत्यादि विषयाः पञ्चाङ्गे समाविष्टाः भवन्ति स्मः, तदाधुनिकगणकयन्त्राणामनुपलब्धत्वात् प्रकाशनस्य च दुर्लभत्वाच्च  । परन्त्विदानीं तेषां सुलभत्वात् पञ्चाङ्गे बहवः व्यवहारोपयोगिविषयाः समाविष्टाः भवन्ति ।
३  पूर्वीयपञ्चाङ्गपद्धतिः –साम्प्रतं पूर्वीयपञ्चाङ्गपद्धतौ  तिस्रावस्थावलोक्यते 
− १)केवलं सैद्धान्तिकानि यानि प्रचीनसिद्धान्तग्रन्थोक्तपद्धतिमनुश्रित्य रचितानि प्राचीनानि । प्राचीनसिद्धान्तोक्तभगणादीनामतुल्य– त्वादेतानि– पञ्चाङ्गानि भेदवहानि भवन्ति । २) केवलपाश्चात्यपद्धतिमनुश्रित्य रचितानि नवीनानि । एतानि पञ्चाङ्गानि सिद्धान्तसाधिताग्रहाः दृक्सिद्धिदाः न भवन्तीति तदीयमार्गं विहाय दृक्सिद्धिदमाधुनिकपद्धतिमनु– श्रित्यैव रचितानि भवन्ति । 
३) मिश्रित पञ्चाङ्गानि यानि सैद्धान्तिकनवीनपद्धत्योः सम्मिश्रणेन रचितानि भवन्ति । अस्मिन् पद्धतौ तिथ्यादिकं वैदिकमार्गोपयुज्यमानं प्राचीनपद्धत्या विरच्यते चेत् दृक्सिद्ध्यैः ग्रहणग्रहस्फुटादिकं नवीनमार्गेण विरच्यते । तत्र प्रमाणवाक्यं च वर्तते । 
                  “प्रत्यहं तिथिनक्षत्रयोगस्यानयने विधुः ।
                  अबीजसंस्कृतो ग्राह्यो ग्रहणादौ सबीजकः ।  
सर्वेषु प्राचीनसिद्धान्तेषु तत्तत् सिद्धान्तकाराः स्वसिद्धान्तप्रयोजनं दृग्गणितैक्यमेवोद्घोषयन्ति ।यथा वराह– मिहिरेण पञ्चसिद्धान्तिकायां पञ्चसिद्धान्तेषु ‘सावित्रः स्पष्टतरः’इत्युक्त्वा सूर्यसिद्धान्तस्यैव सूक्ष्मत्वं प्रतिपा दितम् । भट्टकमलाकरस्तु स्वसूक्ष्मधिया सूर्यसिद्धान्तस्य स्थौल्यं परिलक्षन्नपि अन्धभक्त्या सूर्यसिद्धान्तस्य सौक्ष्म्यं प्रदर्शनार्थं हठं करोति ; कुत्रचिद् “भगवतासूर्येणलोकानुकम्पया” इत्युक्त्वा  भ्रमच्छादनं करोति चेद् कुत्रचिद् ब्राह्ममतस्य सत्यपक्षेऽपि “वेदोक्तिशून्या भृशम् ” इत्याद्युक्त्वा साक्षेपं खण्डयति । परन्तु ब्राह्ममतस्य वैशिष्ट्यं प्रतिपादयन् बा्रह्ममतानुयायिषु प्रथमं ब्रह्मगुप्तो ब्रह्मणि जातभक्तिरपि बाह्ममतं महताकालेन शिथिलं भविष्यत्युद्घोषितन् । यतो हि दृष्टवस्तुषु वाङ्मात्रप्रमाणं नार्हति । यथा भट्टेन सौरमतं वचसा परिपोषितं न तथानेन ।यथोक्तं तेन –
“ ब्रह्मोक्तं ग्रहगणितं महताकालेन यत्खिलीभूतं ।
अभिधीयते तत्स्फुटं जिष्णुसुतब्रह्मगुप्तेन ।। ” 
तेन च स तां त्रुटिं संशोध्यैव ब्राह्मस्फुटसिद्धान्तं रचितवान् । तथैव बाह्ममतं परिपोषयन् भास्कराचार्यः स्वकीयस्य ‘सिद्धान्तशिरोमणेः’रचनाप्रयोजनमपि दृग्गणितैक्यमेवेत्युक्तवान् −                                               
“यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेव फलस्फुटत्वम् ।
स्यात् प्रोच्यते तेन नभश्चराणां स्फुटक्रिया दृग्गणितैक्यकृद् या ।” 
अनेनेदं ज्ञायते यद् तदानीन्तनाः सर्वे ब्रह्ममतानुयायिनः स्वाधारभूतं सिद्धान्तं संशोध्यैव स्वस्वसिद्धान्तान् रचयामासुः । इत्यनेन ब्राह्ममते तत्कालिकोपलब्ध्यानुसारं जायमानसंस्कारसंस्कृतं लभ्यते । यथा भास्कराचार्येण च बीजसंस्कारो विहितः ।तेन ब्राह्ममतं पूर्वापेक्षया सूक्ष्मं जातम् । करणग्रन्थरचनायामपि पूर्वोक्तैवावस्था दरिदृश्यते। प्राचीनाचार्यैः सिद्धान्तानुसारि ग्रहसाधनक्रियाजनितगणितगौरवकाठिन्यापाकर्तुं पञ्चसिद्धान्तिका ,खण्डखाद्यः , भास्वती , करणकुतुहलम् , बृहल्लघुमानसम् , ब्रह्मतुल्यम् ,रामविनोदः , ग्रहकौतुकम् , सिद्धान्तरहस्यः , दिनचन्द्रिकादि करणग्रन्थाः निर्मिताः । इतोप्यग्रे चलित्वा ततोपि ग्रहसाधनलाघवाय सारण्यपि निर्मिताः येषां सहाøयेन साम्प्रतं पञ्चाङ्गकाराः ग्रहान् साधयन्ति । परन्तु सिद्धान्तपेक्षयोत्तरोत्तरं स्थूलत्वापत्तेः सारणीयाः ग्रहाः न सम्यग्दृग्गोचरी भवन्ति । तथापि क्रियालाघवार्थं सारणीतरेव ग्रहाः नियन्ते । तेन तद् वशात् साधिततिथ्यादयो ऽपि स्थूलाः भवन्ति ।अतः सारण्यागताः ग्रहारदृष्टफलायापि न सम्यगवतरिष्यन्ति । दृग्प्रतीत्यर्थं कल्पनन्तुशशकशृङ्गवच्छु्रतमात्रसुखानुभूतिकरमेव भवति । यथागतवलोकन– चमत्कारचातुरी कथा तु तत्र स्वप्नमात्रम् ।करणग्रन्थ परम्परायां १४४२ शकाब्दे गणेशदैवज्ञेनापूर्वगणितकौशलधिया तत्कालीनोपलब्धेषु सिद्धान्तेषु यस्मात् यस्य ग्रहस्य दृग्प्रतीतिर्जातः तद्ग्रहस्य कृते तमेवसिद्धान्तमाधारमधिकृत्योपनिबध्दोऽस्ति । यथाहः गणेश दैवज्ञः स्वकीये ‘ग्रहलाघवम्’ इत्याख्ये करणग्रन्थे –
“सौरोर्कोपिविधूच्चमङ्ककलिको नाब्जो गुरुत्वार्यजोऽ
सृग्राहु च कजं ज्ञकेन्द्रकमथार्ये सेषुभागः शनिः ।
शौकं्रकेन्द्रकमजार्यमध्यगमितीमे यान्ति दृक्तुल्यताम् ।।
सिद्धैस्तैरिहपर्वधर्मनयसत्कार्यादिकं त्वादिशेत् ।। ” 
अस्मिन् ग्रन्थे यद्यपि पूर्वापृष्टमनार्षं स्वविचारस्वातन्œय ं  गणितं मध्येमध्ये निवेशितं तथापि तत्काली नोपलब्धबीजक्रियया संस्कृतत्वात् सौरब्राह्ममतवदार्यमतमपि प्रधानीकृत्य निवेशितत्वाच्चास्य सर्वत्र समादरसन्नपि दक्षिणभारते विशेषरूपेण समादरो वर्तते । परन्तु साम्प्रतं तत्रापि कालक्रमिकस्थूलता तु स्यादेव परन्तु तत्र वेधविहितसंस्कारविनैव साम्प्रतं च मकरन्दसारणीतो  ग्रहलाघवसारणीतो वा पञ्चाङ्गाः निर्मियन्ते इति तत्र स्थूलत्वं जायते एव । अतः १८९३ईशवीयवर्षे महामहोपाध्यायसुधाकरद्विवेदिभिः सूर्यसिद्धान्ताधारेणाहर्गणं विधाय सुजनमनचमत्कारिणी सौरी सारणी प्रवर्तिता ।तस्मिन् देनन्दिनियौ चन्द्रार्कौ साधयित्वा ताभ्यां तिथिनक्षत्रयोगकरणादीना–मानानयनं प्रोक्तम् । यदि सौरपञ्चाङ्गमभीटञ्चेत्तदा प्रचलितेषु पञ्चाङ्गेषु सर्वापेक्षयानया सारण्या निर्मितपञ्चाङ्गं सूक्ष्ममिति वक्तुं शक्यते । 
४)  दृश्यपञ्चाङ्गम् 
यद् पञ्चाङ्गंं वेधोपलब्धग्रहाधारे साध्यते तद्दृश्यपञ्चाङ्गमित्युच्यते । तत्र स्व.पं. महामहोपाध्यायैर्वापूदेवशास्त्रीमहाभागैर्नाटिकलअल्मनाक(आङ्गलपञ्चाङ्ग) रीत्या तत्रस्थविषुवांशक्रान्त्यांशेभ्यो भुजांशानानीय ततःसायनौ रविचन्द्रौ स्फुटौ साधितौ । तौ च क्रान्तिपातादेव  भवतः । ताभ्यां तिथ्यदेरानयनं कृतम् । परञ्चात्राक्षुण्णपरम्परया निरयना एव ग्रहारपेक्षितेति विषयमवलम्ब्य विवादे जाते तौ सायनौ चन्द्रार्कौ निरयनौ कृत्वा ताभ्यां तिथ्यादेरानयनं कृतम् । तत्संप्रदायानुसारेण इदानीमपि तदीयं पञ्चाङ्गं प्रचलति । महाराष्ट्रे तिलकमतानुयायिनस्तथाभिधं पञ्चाङ्गमेव रचयन्ति । किन्तूभयत्रायनांशयोः महदन्तरत्वात्तयोः पञ्चाङ्गयोरपि महदन्तरं दृश्यते । मिथिलाप्रदेशे मकरन्दीयं पञ्चाङ्गं व्यवहृयते । किन्तु महाराजरामेश्वरसिहबहादुरसमयान्नवीनं पञ्चाङ्गं स्वीक्रियते  तत्रस्थैः राजपुरुषैः ।नवीनपञ्चाङ्गप्रवर्तकमते स्फुटरविचन्द्रसा– धिततिथ्यादिकमेवोपयुज्यते । तत्र नवीनपञ्चाङ्गे च पाश्चात्यगणकबेधो– पलब्धवास्तवरविचन्द्राभ्यामानीततिथिनक्षत्रयोगकरणारूपन्यस्यन्ते । अतैव तत्रत्याः तिथ्यादयः स्फुटाः, स्फुटत्वे च यावन्तः खस्थदृश्यपदार्थाः ग्रहणशुक्रोदयास्तशृङ्गोन्नतिप्रभृतयो यथासाधिताः सम्यग्दृष्टिपथमालभन्ते इति प्रमाणिते तत्रत्या प्राचीनगणकाश्च सर्वान् दृश्यपदार्थान् तदनुकुलमेव स्वीये पञ्चाङ्गे निवेशयन्तिस्म इत्येवं नवीनाः प्राचीनमधिक्षिपन्ति। प्रचीनभग– णेभ्यरानिताःग्रहाः भूगर्भाभिप्रायिकाः भवन्ति । पाश्चात्यैः भूपृष्ठाभिप्रयिकाः ग्रहाः नीयन्ते । ते च तिथ्यादिसाधनेऽनुपयुक्ताः प्राचीनानां मते धर्मादिकृत्येषु 
भिन्नाः । पञ्चाङ्गे केवलं दृश्यपदार्थाः ग्रहणादयो नापेक्षितारपितु व्रतदानस्ना–नादिकार्यसम्पादनार्थं चापेक्षिता भवन्ति । धर्मशास्त्रे प्रयुक्तेन मुनीनां वाक्येनानुव्रज्यैव शास्त्रकारैरपि धर्मशास्त्रानुमोदिततिथ्यादीनां निर्णयः कृतः । अतोऽत्र तिथ्यादीनां साधनाय प्राचीनेनोक्त विधिरेवाश्रयणीयेत्येवधर्मः । प्रत्यक्षीकरणे ऋषयोऽपि तथैवोक्तवन्तः । यथोक्तं कमलाकरेण सिद्धान्त– तत्वविवेके –
        “अदृष्टफलसिद्ध्यर्थं यथार्काद् युक्तितः कुरु ।
         गणितं यद्धि दृष्ट््यर्थं तद् दृट््युद्भवतः सदा ।”  
एतेनादृष्टफलसिद्ध्यर्थं तिथ्यादिसाधनेऽदृष्टफलवती युक्तिः , तथा खे ग्रहणादीनामवलोकनाय प्रत्यक्षवलोकनजनकयुक्तिः ग्राह्येति विषयविवेचन–निश्चितं वस्तुतत्वम् । दृष्टादृष्टगणितद्वैविध्ये किमिति जिज्ञासायामिदमुत्तरं ज्योतिषशास्त्रस्य प्रमाण्यमुतवोन्मत्तप्रलापवदृषिणां वाक्यमिति न शङ्कनीयं ,यतो हि ऋषिवाक्यमर्यादासंरक्षणयैव द्विविधं गणितं व्यवहृतम् , अन्यथा ग्रहणयुति–समागमशृङ्गोन्नतिशुक्रोदयास्ता– दीनां प्रत्यक्षावलोकने लोकप्रतीतिर्न भविष्य–तीति प्रतीतेरभावान्मर्यादैवका नामेति भृशं विभावनीयं निष्पक्ष पातिभिः । ग्रहणादिदृष्टफलसाधनाय श्रममात्रापनोदनाय नवीनं पञ्चाङ्गमनुकुर्वन्ति, अन्यथा स्वसिद्धान्त– प्रतिपादितसूक्ष्मयुक्त्या दृग्गणितैक्यस्य सिद्धिर्भवितुमर्हतीति सिद्धान्तकारैरुद्घोषितम् । 

५) पञ्चाङ्गविषयकविवादः 
सम्प्रति पञ्चाङ्गे दृश्यादृश्यगणितयोः कतरः पक्षराश्रयणीयेति विवादो लभ्यते  यतः प्रचीनसिद्धान्तकरण ग्रन्थसारणीभिः साधिताः ग्रहाः स्थूलाः भवन्ति, यथागताः दृष्टिपथं नायान्ति । तेनेदानीन्तनं प्रचलितं पञ्चाङ्गमविकल्पेन स्थूलमिति साम्प्रतिकैरधिक्षिप्यन्ते । तत्र स्थूलत्वे निम्नाङ्कितानि कारणानि दृश्यन्ते –
१)  प्राचीनमते एकस्मिन्वर्षे यानि सावनदिनानि तानि सर्वाण्यपि स्थूलानि, कारणस्य स्थूलत्वे कार्यस्य स्थूलता सुनिश्चितमेव । 
२) भगणरम्भस्थानाश्विनारम्भस्थानस्य प्राचीनसिद्धान्ते स्पष्टनिर्देशाभावाद् दृग्गणितैक्यप्रत्यक्षीकरणदुर्घटत्वाच्चतिथ्यादिमानानयने स्थूलत्वापत्तिः । 
३)  तिथ्यादिस्थूलत्वे प्राचीनसिद्धान्तकरणसारणीभ्यो ग्रहस्पष्टीकरणञ्चास्ति । अन्यच्च पञ्चाङ्गस्य स्थूलत्वे अयनांशस्य स्थूलत्वञ्चास्ति । वेधोपलब्धाः ग्रहाः नाडीक्रान्तिवृत्तसंपातादेवागच्छन्ति । ते च रेवत्यन्तविन्दोरश्विनादितो वा सम्पादनायायनांशैः संस्कार्याः । तत्रायनांशाः वेधोपलब्धाः सूक्ष्मैव ग्राह्या । 
४)  दृग्गणितस्वीकरणे सङ्कोचश्च साम्प्रतिकः पञ्चाङ्गविषयकः विवादः । सर्वै प्राचीनाचार्यैः स्वस्वरचनायां दृग्गणितेनैव स्वमतं परिपोषयन्ति । चेदिदानीन्तनास्तत्तत्स्फुटं दृक्प्रत्यक्षकरं गणितं कथं न स्वीकुर्वन्ति ? अपितु स्वीकरणीयमेव । ग्रहणोदयास्तशृङ्गोन्नतिग्रहयुतिप्रभृत्यखिलं दृश्यवस्तु यथानीतं नलिकायन्त्रेणाकाशे जले वावलोक्यते चेत्तदा तत्साधुत्वं निर्विवादं स्वीकरणीयम् । युगमन्वन्तरमनपेक्ष्यैव साधितमपिपञ्चाङ्गं यदि दृग्गणितैक्यं भजते तदा तत्स्मृतिबाह्योपि स्वीकरणीयम् । तदा ब्राह्मस्फूटसिद्धान्तोक्तं निम्नलिखितं कथनं न समर्थनीयम् −
“युगमन्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः । यस्मान्नरोमके ते स्मृतिवाह्यो रोमकस्तस्मात् ।।”
६) फलिते पञ्चाङ्गस्य प्रभावः 
ज्योतिषशास्त्रस्य प्रमुखं कार्यं फलादेशेति प्राचीनगणकैरुद्घोषितम् ।फलादेशस्तु गणितस्कन्धविहितेन घटिकादिजलयन्त्रेण छायादिना वा सम्यक् सुपरीक्षितेष्टकालवशात् सुविहितग्रहलग्नाधीनः । लग्नवलं च स्पष्टग्रहाश्रितं भवति । एवं स्पष्टग्रहलग्नवलाश्रित्य कृतफलादेशो यथावद्धृदयग्राही भवितुमर्हतीत्यत्र न सन्देहः । उक्तञ्च –
“ज्योतिशास्त्रफलं पुराणगणकैरादेश इत्युच्यते ।नूनं लग्नबलाश्रितं पुनरयं तत्स्पष्टखेटाश्रयम् ।।”  
स्पष्टग्रहोऽपि सायनो निरयणो वा ग्राह्येतिमतद्वयं समुपस्थितो भवति । वस्तुतस्तु सायनगणनया सम्यक् फलादेशकर्तुं न पारयामः ।यतो हि सृष्ट्यारम्भकालिकग्रहलग्नदिवशात् भावानां स्थितिश्चोद्घोषिता तत्र सायननिरयणग्रहयोर्लग्नयोर्वा  महदन्तरं भवति । सृष्ट््यारम्भे राशिवृत्तस्य समद्वादशविभागेनैव रूपशील– गुणधर्मतत्वाद्यनुभूत्यैव राशीनां संज्ञा स्थिरीकृता व्यवहारत्वाच्च अक्षुण्णमूलपरम्परयाः परिपालनाय लोकानुभूत्या ग्रहराशिगुणधर्मानुकुलादिष्टफलं यथावत् घटेदित्येव निरयणसरण्येवानुसरणीयः ।
७) उपसंहारः 
उपर्युक्तपरिचर्ययेदं स्पष्टं यद् पञ्चाङ्गं न केवलं श्रुतिस्मृतिपुराणेति– हासधर्मशास्त्रोक्तव्रतपर्वोत्सवोपवासाद्याध्यत्मिकानुष्ठानसम्पादनाय अपितु दैनि–कव्यवहारिककार्यसम्पादनाय च अत्यावस्यकमस्ति । पञ्चाङ्गरहितस्य मानव–जीवनस्य कल्पनाप्यधुना दुष्करा । जीवनेन सह अन्योन्याश्रिता–न्तर्सम्बन्धात्मकस्य पञ्चाङ्गस्य रचनायामेकरूपता नास्ति । केचित्पञ्चाङ्गकाराः सूर्यसिद्धान्ताधारे केचित् सौरसारण्याधारे केचिद्ग्रहलाघवाधारे केचिद्मक–रन्दसारीण्याधारे पञ्चाङ्गानि रचयन्ति । अनेन पञ्चाङ्गे नैकरूपतायाति । तत्रापि सर्वे गणकाः स्वस्वपञ्चाङ्गं दृग्गणितैक्ययुक्तं घोषयन्तीति जनाः केन गणितं पञ्चाङ्गं प्रामाण्यमिति दोलान्दोलमनस्काः भवन्ति । शास्त्रस्याव्यवस्था च 
भवति । अतः सत्वरं विविधविषयसम्बद्धाः प्रभवपण्डिताः मिलित्वा कञ्चित् मार्गदर्शनं कर्तव्यम् । अत्याधुनिकबेधशालायाः निर्माणं व्यवस्थापनञ्च कृत्वा पञ्चाङ्गस्य युक्तायुक्तत्वं परीक्षणीयम् । कालकवलितस्थूलतापहारार्थं बेधोपलब्धतथ्योद्भवं बीजसंस्कारमुपदेश्यम् । अनया पण्डितसभया तादृशसरण्यनुसरणीयः येन यथासम्भवं शास्त्रीयमर्यादायाः संरक्षणञ्च भवेत् दृक्प्रत्ययकारकस्य गणितस्योपयोगञ्च पञ्चाङ्गे भवेत् ।युक्तियुक्तं प्राचीनमपि ग्राह्यं ; वैज्ञानिकं नवीनञ्च नापेक्षणीयं यतः पूर्वग्रहरहितानुसन्धानेन ज्ञानमुत्तरोत्तरं समृद्धं विकसितञ्च भवति । ज्ञानं कस्यपि जातिविशेषस्य सम्प्रदायविशेषस्य न भवति ।इदं तु देशातीतं कालातीतं निर्वैयक्तिकञ्च 
भवति । ज्ञानं पूर्वीयेन कथितत्वद्मननीयं तथा पाश्चात्येन कथितत्वादस्वीकार्यमग्राह्यं  वा न भवति । तथैव पूर्वीयेनोक्तम वैज्ञानिकं पाश्चात्येन वैज्ञानिकञ्चेति पूर्वाग्रहः न कार्यः । निरन्तरं परिमार्जनं ज्ञानस्य लक्षणमस्ति । तेन परिष्कृतज्ञानानुसरणे संकोचो न विधेयः । परिवर्तनं हि प्राकृतिको नियमः । एनं प्रतिष्ठायाः विषयो न कार्यः । पञ्चाङ्गस्य सन्दर्भे च तथ्यमिदं सर्वैरनुसरणीयम् । 
सन्दर्भग्रन्था 
१)  अर्कसोमयाजिः, धूलिपालः, ज्योतिर्विज्ञानम्, वाराणसी, वाराणसेय–संस्कृत–विश्वविद्यालयः, १८८६ शकाब्दम् ।
२)  आचार्यः, भास्करः, सिद्धान्तशिरोमणिः, वराणसी, सम्पूर्णानन्द–संस्कृत–विश्वविद्यालयः, वि.सं. २०३८ ।
३)  आचार्यः, श्रीकृष्णशर्मा, ढकालः, शम्भुः,ज्योतिषम् , भक्तपुरम् ,जनक–शिक्षा–सामग्री–केन्द्रम् ,वि.सं. २०४० ।
४)  ऋतम्भरा, वर्षः ७, अङ्कः १०, त्रैमासिकम् ,वि.सं. २०६१, विजयादशमी ,।
५)  ऋतम्भरा , वर्षः८, अङ्कः ११ त्रैमासिकम् , वि.सं. २०६२, विजयादशमी । एवमन्येऽङ्काः ।
६) दैवज्ञः, गणेशः, ग्रहलाघवम्, वाराणसी, चौखम्वा–संस्कृत–सीरीज–अफिसः, 
ई.सं. १९९३ ।
७)  दैवज्ञः, रामः, मुहूर्तचिन्तामणिः, तृतीयसंस्करणम् ,वाराणसी, चौखमबा–सुरभारती–प्रकाशनम् , ई.सं. १९९५ ।
८)  भट्टः,कमलाकरः, सिद्धान्ततत्वविवेकः, द्वितीयसंस्करणम्, दिल्ली,चौखम्बा–संस्कृत–प्रतिष्ठानम् , ई.सं. १९९१ ।
९)  सारस्वती सुषमा, त्रैमासिकम्, वर्ष ३१, अङ्कः१,२, वि.सं. २०३३ ज्येष्ठ–भादः, एवमन्येऽङ्काः ।


Powered by Blogger.