Header Ads

कोशाः, कोशकाराः, कुलचन्द्रगौतमकः, शब्दानुशासनञ्च


पूर्णशङ्कर गौतम
उपप्राध्यापक पिण्डेश्वर क्याम्पस, धरान

१ कोशाः
                समस्तवाङ्मये कोशस्य महिमा महानस्ति । कोशेन भाषा समृद्धा भवति । कोशस्य सङ्ग्रहं विना विद्वान् शब्दविद्यां सर्वकारः प्रजाञ्च वशं कर्तुं न शक्नोति । यथोक्तम्
                विदुषां भूभुजां वापि, शब्दविद्या तथा पूजा ।
                संसारे वसतामेति, न विना कोशसंग्रहम् । इति ।  
                विश्वस्मिन् प्राक् कश्यपो निधण्टुमरचयत् । यथा
                वृषो हि भगवान् धर्म स् रव्यातो लोकेषु भारत ।
निधण्टुकपदाख्याने विद्धि मां वृषमुत्तमम् ।
    अस्मिन् निधण्टौ ऋग्वेदस्य केचन शब्दानां संग्रहोऽस्ति । पर्ययवाचिशब्दाः स्थापिताः सन्ति । अस्य व्याख्याक्रमे यास्को निरुक्तमलिश्वत् । अयं ग्रन्थोऽतीव व्यापको महिमामयञ्चाऽभूत् । निरुक्ते शब्दानां विविधपक्षतो विमर्शोऽस्ति । अयं ग्रन्थो विश्वस्मिन भाषाविज्ञानाय च महत्स्रोतमस्ति । युरोपीययोः प्लेटोऽरस्त्वोग्र्र्रन्थेभ्योऽपि प्रौढमस्ति   निरुक्तम् ।
                अस्मिन्नेव क्रमे लौकिकाः कोशा अपि पर्यायवचिनोऽनेकार्थवाचिनश्च रचिताः सन्ति । वैदिककोशे क्रियापदानां संग्रहोऽस्ति परन्तु लौकिककोशे केवलं संज्ञाव्ययविशेषणपदानामेव संग्रहोऽस्ति । लौकिककोशाः श्लोकबद्धाः सन्ति ।
                प्राचीनकोशेषु कात्यायनस्य नाममाला, वाचस्पतेः शब्दार्णवः, विक्रमादित्यस्य संसारावर्तः व्याडेरुत्पलिनी, नामककोशाः सर्वप्राचीनाः प्रसिद्धाश्च सन्ति । सर्वेषु प्राचीनको शेषु वौद्धविदुषोऽमरसिंहस्य नामलिङ्गानुशासननंम्कोशः प्रसिद्धोऽस्ति । अमरसिंहवत् शाश्वतेनानेकार्थसमुच्चयः हलायुधेनाभिधानरत्नमाला, अजयपालेन नानार्थरत्नमालादयः कोशा लिखिताः सन्ति । अनेन प्रकारेण संस्कृतवाङ्मये सार्धशतं कोशा उपलब्धाः सन्ति । मुख्याः कोशा यथा
                शब्दार्णव उत्पलिनी संसारावर्त इत्यपि ।
                कोषा वाचस्पतिव्याडिविक्रमादित्यनिर्मिताः ।।
                विश्वो विश्वप्रकाशञ्च धरणिर्मेदिनी तथा ।   
रत्नकोशो रन्तिदेव शाश्वतञ्च हलायुधः ।    
व्याडिवररुचिञ्चैव रुद्रकात्ययनावुभौ ।
                वाचस्पतिर्हैमचन्द्रः कोशा अष्टादशैव तु ।। 
२ कोशकाराः
                कोशकारेषु कश्यपः, यास्कः, हलायुधः, मेदिनिकरादयोऽनेके सन्ति । तैः कोशकारैः शब्दानुशासनविद्भिर्नामशब्दाः, अव्ययशब्दाः, पर्यायवाचिशब्दाः, अनेकार्थवाचिशब्दा लिङ्गनिर्देशनपूर्वकं कोशेषु लिखिताः सन्ति । केचन निघण्टुकारोऽज्ञात इति कथयन्ति । कैञ्चन कश्यप एव मन्यते । यास्कस्तु निर्विवाद एव निरुक्त कारोऽस्ति ।
                अधुनाऽमरसिंहस्य नामलिङ्गानुशासनम् नामककोशः प्रसिद्धः प्रचलितश्चास्ति । उक्तञ्च यथा
                अमरगणसमुद्रे दैत्यगन्धर्वपुम्भिः
                                क्षितिपुरगिरिसिंहैः काननाद्यैश्चयुक्ते
                अमरकृतिसमुद्रे यत्नपूर्वं निमज्य
                                प्रचिनुत बुधवर्याः शब्दरत्नाति कामम् । 
                अमरसिंहस्य विषये समयस्य, स्थानस्य वंशस्य च परिचयो पूर्णतया न प्राप्यते । असौ बौद्ध आसीत्तथा शुद्राकन्याथां जातञ्चासीदिति स्फुटकरश्लोकादवगभ्यते । यथाः
                ब्राह्मण्यामभवत् वराहमिहिरो, ज्योतिर्विदामग्रणी,
राजाभर्तृहरिञ्च विक्रमनृपः क्षत्रात्मजायामभूत् ।
वैश्यानां हरिचन्द्रवैद्यतिलको, जातश्च शंकुः कृती,
शूद्रायाम् अमरः षडेव शवरस्वामिद्विजस्यात्मजः ।। 
                अमरसिंहनामको विद्वान् अष्टवैयाकरणेष्वपि प्रसिद्धोऽस्ति । यथा
                इन्द्रश्चन्द्रः काशकृत्स्वाऽऽपिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ।। 
 असौ अमरसिंह व्याकरणज्ञाता बौद्धश्चासीत् । तस्याश्रद्धालव आलोचका लिखन्ति यथा
                अमरसिहोहि पापीयान् सर्वं भाष्यमचूचुरत् । 
                अस्य जन्मकालञ्चानिश्चितोऽस्ति तथाप्येकं पद्यमस्ति यदमरसिंहो विक्रमराज्ञः सभाया नवरत्नमध्य एक आसीदिति । यथा
                धन्वन्तरिः क्षपणकोऽमरसिंहशंकु
                                वेतालभट्टघटरवर्पर कालिदासः
                ख्यातो वराहमिहिरो नृयतेः सभायां
                                रत्नानि वै वररुचिर्नव विक्रमस्य ।। 
                अमरसिंहस्य नामलिङ्गानुशासने नामानुसारस्य कार्यं दृश्यते । अमरकोशमनुसृत्यार्धशतं टीकाः सस्कृते लिखिताः सन्ति । अस्य कोशस्य भारतवर्षस्य विभिन्नभाषासु चिनीयतिब्बतीउर्दूआङ्गलभाषासु टीका लिखितास्तथाऽनुवादञ्च कृताः सन्ति । नेपालीभाषायां प्रथमटीकाकारो विद्वच्छिरोमणि कुलचन्द्रगौतमोऽस्ति । एषा टीका नेपालदेशे तथा नेपालीभाषिषु सर्वोपयोग्यस्ति ।
३ कुलचन्द्रगौतमः
                कुलचन्द्रगौतमस्य जन्म काष्ठमण्डपात् पश्चिमे भागे धादिङ् मण्डलस्य जीवनपुरग्रामे विक्रमसम्वत् १९३४ तमे वर्षेऽभूत् । तस्य पितुर्नाम पण्डितरमाकान्तगौतम आसीत् । पिताष्टमवर्षवयसि व्रतबन्धं कारयित्वा विद्याध्ययनानर्थं पुत्रं काशीं नीतवान् । कुलचन्द्रगौतमेन काश्यां महामहोपाध्यायगङ्गाधरशास्त्रिणा सहाध्ययनं कृतवान् । साहित्याचार्योस्योपाधिं प्राप्य नेपालमागतवान् तस्मै श्री ५ पृथिवीवीरविक्रमशाहदेवेन महत्स्वागतं कृतम् । श्री ५ त्रिभूवनस्य स्वायत्तशासनकाले कुलचन्द्रगौतमस्य प्रतिभां दृष्ट्वा सर्वकारेण विदृच्छिरोमणिपदवीद्वारा भूषितस्तथा काशीवासार्थं वृत्तिर्दत्ता । भारतस्य विद्वत्मण्डलिनाऽपि सम्मानं दत्तम् । जर्मनसर्वकारेण समस्त भूमण्डलस्य संस्कृतस्य विद्वानिति प्रशंसा दत्ता ।
                विदृच्छिरोमणिकुलचन्द्रगौतमः साहित्यकर्मकाण्डदर्शनायुर्वेदधर्मशास्त्रादिविषयेषु ग्रन्थानलिखत् । विविधविषयेषु टीकानुवादश्च कृतोऽस्ति । यद्यपि कुलचन्द्रगौतमः साहित्याचार्यस्तथापि टीकायां टिप्पण्यांञ्च व्याकरणविषये कुशलो दृश्यते ।
४ कुलचन्द्रगौतमप्रणीतामरकोशस्य टीका
                नेपालेऽतीतकालादेवामरकोशस्य पठनपाठनं प्रचलितमस्ति तथापि लेपालीभाषायाममरकोशस्य टीकालेखकः कुलचन्द्रगौतम एवाऽस्ति । शब्दार्थज्ञानाथं तथा लिङ्गज्ञानार्थममरकोशस्याध्ययनमावश्यकमस्ति । शैशवकालादेवामरकोशस्य पठने सत्यपि  यथार्थमर्थज्ञानार्थममरकोशस्य टीकाया महत्वपूर्णं स्थानमस्ति । टीकायाश्चिन्तने सति व्यापकशब्दज्ञानं सुगमतया सह लिङ्गज्ञानञ्च भवति ।
                लिङ्गज्ञानार्थं कुलचन्द्रेण टीकायां१तः प्रारभ्य ८ पर्यन्तमङ्कान् संस्थाप्य सुगमतया सह लिङ्गानि ज्ञापितानि सन्ति । सः कुलचन्द्रः स्वकीयटीकायां वैकल्पिकशब्दान् पाठभेदान् तथा टिप्पण्यां कोशेतरप्राप्तपर्यायवाचिशब्दान् निर्दिशति । ते शब्दाः शब्दानुशासनस्य नियमे स्थित्वा निर्देशिताः सन्ति । यद्यपि कुलचन्द्रगौतमः साहित्याचार्यस्तथापि शब्दानुशासने दक्षोऽस्ति । तेन निर्दिष्टशब्देषु व्याकरणस्य विविधतत्वानि सन्ति ।
५ शब्दानुशासनस्य तत्वानि
                कोशे यथा समस्तादयः शब्दाः सन्ति तथैव टीकायां टिप्पण्याञ्च समासस्य, कृत्प्रत्ययस्य, तद्धितप्रत्यस्य, मात्राणां, वर्णानाञ्चाधारे शब्दानिर्दिष्टाः सन्ति । यथा ।
१ समासस्याधारे
                स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ।
                सुरलोको द्यौविदौ द्वे स्त्रियां क्लिवे त्रिविष्टपम् ।। स्वर्गवर्ग स् १, प्रकमांका १
                अत्र देवतावाचकशब्दात्परे लोकवाचकः, गृहवाचकः, देववाचकश्च शब्दान् स्थापयित्वा षष्ठीतत्पुरुषसमासे कृते सर्वे शब्दाः स्वर्गवाचका भवन्ति । यथा देवलोकः, सुरसद्मः, अमरभवनम्, देवदेशः, त्रिदशदेश इत्यादयः ।
१.२ उपपदसमासस्याधारे
                अभ्रं मेघो वारिवावाहस्तनयित्नुर्वलाहकः ।।
धाराधरो जलधरस्तदित्वान् वारिदोऽम्वुभृत् ।
धनजीमूतमुदिरजलमुग्धूमयोनयः ।।
दिग्वर्गः ७ प्रकमाङ्क १६९
                अत्र जलवाचकशब्दात्परे कप्रत्ययान्त दार्नाथकदाधातुः (दः) अण्प्रत्ययान्तधारणार्थक वह्धातुः (वाहः) क्विप्प्रत्ययान्तमोचनार्थकमुच् धातुः (मुच्) योजयित्वा मेघस्य नामानि भवन्ति । यथा तोयदः, अम्बुदः, जलदः, तोयवाहः, जलवाहः, अम्वुवाहः, तोयमुक्, जलमुक् पयोमुक् इत्यादयः ।
१.३ बहुब्रीहिसमासस्याधारे
                अमरा निर्जरा देवास्त्रिदशाविवुधाः सुरा स् ।
                वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ।
स्वर्गवर्ग ७, प्रकमांग ३.८
                अत्र स्वर्गवाचकशब्दात् परे गृहवाचकशब्दं संस्थाप्य बहुव्रीहिसमासं कृत्वा सः शब्दो देववाचको भवति । यथा नाकनिकेतनः त्रिदशसदनः, त्रिविष्टपनिकेतन इत्यादयः ।
२ कृत्प्रत्ययस्याधारे
२.१ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने
नाट्यवर्गः १० प्रकमांक ४०७
                अत्र नृती गात्रविक्षेपे इति धातोः निष्ठा //१०२ इति सूत्रेण क्तप्रत्यये सति नृत्तम् शब्दः सिद्धयति । तद्वत् क्यप्प्रत्ययस्य रूपं मूलेऽस्ति । ऋदुपधाच्च //११० इति क्यप् ।
२.२ ह्लादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः ।
                शतकोटिः स्वरुः शम्वो दम्भोलिरशनिद्र्वयोः ।।
स्वर्गवर्गः ५०, प्रकमाङ्क ९६९७
                अत्र भिदुरम् शब्दः भिदिर विदारणे इति धातोः विदिभिदिच्छिदेः कुरच् //१६२ इति सूत्रेण कुरच्प्रत्यये सति सिद्धयति तथाऽन्यः शब्दः भिदिरम्‘ “इषिमदिमुदि खिदिच्छिभिदि ..... (उ. १/५१) सूत्रेण किरच्प्रत्यये सति सिद्धयति ।
२.३ राक्षसः कौणवः क्रव्यात् क्रव्पादोऽसुप आसरः ।।
                 रात्रिश्चरौ रात्रिचरः कर्बुरो निकषात्मजः
                 धातुधानः पुण्यजनो नैऋतो यातुरक्षसी ।।
स्वर्गवर्गः ६२, प्रक्रमाङ्क १२३
                अत्र कर्बुरः शब्दः कर्ब हिंसापाम् इति धातोः मद्गुरादयञ्च (उ. १/४१) सूत्रेण कुरच्प्रत्यये सति सिद्धयति तथैव कर्बरः शब्द कृ हिंसायाम् इति धातोः कृ गृः शृ वृञ्चतिभ्यः स्वरच् (उ. २/२७९) इति सूत्रेण ष्वरच्प्रत्यये सति रिद्धियति ।
३ तद्धितप्रत्ययस्याधारे
३.१ समौ शौरिशनैञ्चरौ
                दिग्वर्गः २६ प्रक्रमाङ्क २०८
                अत्र शौरिः शब्दः शूरस्यापत्यमित्पर्थे अत इञ् //९५ इति सूत्रेण इञ् प्रत्यये सिद्धयति तथैव सौरः’ ‘तस्येदम् //१२० सूत्रेणाण् प्रत्यपे सति सिद्धयति ।
३.२ प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि ।
कालवर्गः २, प्रक्रमाङ्क २३५
अत्र काल गतौ संख्याने च इति धातोः अग्न्यादयञ्च (उ.४/११२) इति सूत्रेण यक्प्रत्यये कल्यम् इति सिद्धयति । ततः प्रज्ञादिभ्यश्च ५//३८ इति सूत्रेणाण् प्रत्यये सति कल्य एव इत्यर्थे सिद्धयति ।
४ मात्रया आधारे
४.१ वितर्कनार्कमार्तण्डमिहिरारुणपूषणः
दिग्वर्गः २९ प्रकमाङ्क २१५
                अत्र मार्डण्डः शब्दः शकन्धादिषु पररूपं वाच्यम् इति वार्तिकेन पररूपे सति सिद्धयति तथैव मार्ताण्डः शब्दः पुनर्मार्ताण्डमारभत् इत्यादिमन्त्रे प्राप्यते । रामाश्रमी १//२९ ।
४.२ भानुहंसः सहस्रांशुस्तपनसविता रविः
दिग्वर्ग ३१ प्रसमाङ्क २१८
                अत्र तप सन्तापे इति धातो स् नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः //१३४ इति सूत्रेण ल्युप्रत्यये सति तपनः शब्दः सिद्धयति ततः प्रज्ञादिभ्यञ्च //३८ इति सूत्रेण अण् प्रत्ययोऽथवा हेतुमति च ३//२८ सूत्रेण णिच् प्रत्यये सत्यपि तापनः शब्दः सिद्धयति ।
४.३ प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि ।
कालवर्गः २, प्रकमाङ्क २३५
                अत्र प्रत्यूषः शब्दः ऊष रुजायाम् इति सूत्रेण इगुपधज्ञप्रिकिरः कः //१३५ इति सूत्रेण क प्रत्यये सिद्धयति तथैव उष दाहे इति सूत्रेण उषः किच्च (उ. ४/२३४) सूत्रेणासिप्रत्यये सति प्रत्युषः शब्दः सिद्धयतिः ।
४.४ कामोऽभिलाषस्तर्षञ्च सोस्थर्थं लालसा दृपोः।
नाट्यवर्गः २८ प्रक्रमाङ्क ४४४
                अत्र अभिलाषः शब्दोऽभ्युपसर्गपूर्वकं लषकान्तौ इति धातोः भावे //१८ इति सूत्रेण घञ् प्रत्यये सति सिद्धयति तथैवाभिलषशब्दात् अजाद्यतष्टाप् //४ इति सूत्रेण टाप् प्रत्यये अभिलाषा शब्दः सिद्धयति ।
४.५ अवर्णाक्षेपनिर्वादपरिवादापवादवत् ।
                शब्दादिवर्गः १३ प्रक्रमाङ्क ३५८
                अत्र परिवादः शब्दः पर्युपसर्गपूर्वकं वद व्यक्तायां वाचि इति इति धातोः भावे //१८ इति सूत्रेण घञ् प्रत्यये सिद्धयति तथैव परीवादः शब्दः उपसर्गस्य घञ मनुष्ये बहुलम् //१२२ सूत्रेण विकल्पेन दीर्घे सति सिद्धयति । एवमेव परिणामः । परीणामः, परिपाकः । परीपाकः, इत्यादयः शब्दाः सिद्धयन्ति ।
४.७ प्रालेयं महिका चाथ हिमानी हिमसंहतिः  दिग्वर्ग १८ प्रकमाङ्क १९३
                अत्र महिका शब्दः मह पूजायाम् इति धातोः क्वुन् शिल्पिसंज्ञयोः (उ. २.३२) सूत्रेण क्वुन् प्रत्यये सति सिद्धयति तथैव मिहिका शब्दः मिह सेचने धातोः पूर्वोक्त सूत्रेण कवुन् प्रत्यये सिद्धयति ।
५ वर्णानामाधारे
५.१ सूरसूर्यायमादित्यद्वादशात्मदिवाकरा         दिग्वर्गः २८ प्रक्रमाङ्क २१३
                अत्र सूरः शब्दः षू प्रेरणे इति धातोः सुसूधागुधिभ्यः क्रन् (उ. २/२४) सूत्रेण क्रन् प्रत्यये सिद्धयति तथैव शूरः शब्दः शु गतौ इति सौत्र धातोः शुसि चिमीनां दीर्घश्च (उ. २/२५) सूत्रेण क्रनि प्रत्यये सति सिद्धयति ।
५.२ मृणालं विस्नमब्जादिकदम्वे षण्डमस्त्रियाम् । वारिवर्गः ४२, प्रक्रमाङ्क ५८५
                अत्र षण्डम् शब्दः षणु दाने धातोः ञमन्ताड्डः (उ. १//१४) सूत्रेण डप्रत्यये बाहुलकात् सत्वाभावो भवति तथैव शण्डम शब्दः शडि रुजायाम् संघाते च इति धातोः भावे //१८ इति सूत्रेण घञ् प्रत्यये सति सिद्धयति ।
५.३ पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः दारिवर्गः २८ प्रक्रमाङ्क स् ५५२
                अत्र तडागः’ ‘शब्दः’ ‘तड आघाते इति धातोः तडागादयश्च (रामाश्रमी) इति सूत्रेण निपातनात् सिद्धयति तथैव तटाकः शब्दः पिनाकादित्वात् (उ. ४/१५) इति सूत्रेण सिद्धयति । तथैव पुनः अक अग कुटिलायां गतौ इति धातोः तटमकति/अगति इति विग्रहे कर्मण्यण् //१ इति सूत्रेण अण् प्रत्यये तटाकः’ ‘तटागः  सिद्धयतः ।
५.४ कौमुदकी गदा खङ्गो नन्दकः कौस्तुभो मणिः स्वर्गवर्गः ३०, प्रक्रमाङ्क ५२
                अत्र कौमोदकी शब्दः कुमोदकः (विष्णुः) इत्यस्मात् तस्येदम् //१२० इति सूत्रेण अण् प्रत्यये ङीषि सिद्धयति । तथैव कौपोदकी शब्दः कुपोदकात् जातत्वादिति स्वामी लिखति ।
६ लिङ्गस्याधारे
६.१ धारा धरित्री धरणिः क्षोणिज्र्या काश्यपी क्षितिः। भूमिवर्गः २ प्रक्रमाङ्क ५८६
                अत्र धरणिः शब्दः घृञ् धारणे इति धातोः अर्तिसृधृ ... (उ. २/१०२) सूत्रेण अनिप्रत्यये सति सिद्धयति । तस्माद् धरणिशब्दात् कृदिकारादक्तिनः (गः ४//४५) सूत्रेण ङीष्प्रत्यये धरणी शब्दः सिद्धयति । एवं प्रकारेण रात्रिः/रात्री, काकलिः/काकली, भे्िरः/भेरी, केलिः/केली, तडिः/तडी, अवनिः/अवनी, महिः/मही, आलिः/आली, पदविः/पदवी, वर्तनिः/वर्तनीत्यादयः शब्दाः सिद्धयन्ति ।
६.२ मृणालं विसमव्जादिकदम्बे षण्डमस्त्रियाम् । पारिवर्ग ४२, प्रक्रमाङ्क ५८२
                अत्र मृणालम् शब्दः मृण हिसायाम् धातोः तनिविनिविडिमडि...’ (उ. १/११८) इति सूत्रेण कालन्प्रत्यये सति सिद्धयति । ततो मृणाल शब्दात् गौरादित्वात् ङीष् मृणाली शब्दः सिद्धयति ।
                कुलचन्द्रगौतमस्यामरकोशस्य टीकायां टिप्पण्याञ्च दृष्ट्वा शब्दानुशासनस्य पालनं  दृश्यते । निश्चितरूपेण शब्दानां व्याख्या कृताऽस्ति । सर्वे शब्दा व्याकरणनिकषे शोधिताः सन्ति । शब्दनिर्देशने वर्णमात्रयोर्भेदस्य प्रदर्शनमस्ति । शब्देषु वैकल्पितायाः कारणं तु व्याकरणस्य तत्वमस्ति । शब्दानां कुत्रचित् धातुभेदेन कुत्रचित् प्रत्ययभेदेन, स्त्रीप्रत्यभेदेन, ह्रस्वदीर्घभेदेन, पृषोदरादिगणभेदेन, बाहुलकात्, गणसूत्र भेदेन, नियातनेन, वेदमन्त्रेण, अन्यकोशस्याधारेण, गणपाठभेदेन विविधता दृश्यते । व्याकरणानि सूत्राणि चानेकानि सन्ति । तस्माद्विविधता भवत्येव । यथा कुत्रचित् 
                लक्षं तु वेदश्चत्वारो लक्षं भारतमेव च ।
                लक्षं व्याकरणं प्रोक्तं चतुर्लक्षं तु ज्योतिषम् ।।
                अष्टादशपुराणेषु चतुर्लक्षमुदाह्तम् । इति ।
                रामाश्रमादिपूर्वविदुषां टीकायामधिकं मन्थनमस्ति खण्डनं मण्डनञ्चास्ति । कुलचन्द्रगौतमस्तु निश्चिताः, परिष्कृताः शब्दा स्थापयति । अस्यां टीकायां घटे सागरवत् व्यवहारिकाः शब्दा अवलोक्यन्ते । साररूपेण सर्वे विषया निर्दिष्टाः सन्ति ।
                उपर्युक्तविषयवस्तून्याधारीकृप्य कुलचन्द्रगौतमस्यामरकोशस्य टीकाया व्याकरणदृष्टया पर्यालोचनं व्रिmयते मया ।
सन्दर्भग्रन्थसूची
१.     अनुसन्धानप्रकाश २०६५ ने.स.वि. अनुसन्धानकेन्द्र काठमाडौँ
२.     कालिदास, रघुवंश पञ्चमसंस्करणम् २०३९ चौखम्बा संस्कृत संस्थान वाराणासी
३.     गौतम कुलचन्द्र अमरकोश वि.स. २०२६ नेपाल राजकीय प्रज्ञा प्रतिष्ठान काठमाडौँ
४.     गौतम शुशीलचन्द्र आचार्य बालकृष्ण (सम्पादक) अमरकोश कुलचन्द्र गौतम प्रणीत वाराणासी 
५.           त्रिपाठी जयशंकरलाल (भट्ट नागेश) परमकलघुमञ्जूषा १९८५ कृष्णदास अकादमी वाराणसी
६.           त्रिपाठी ब्रम्हानन्द अमरकोश रत्नप्रभाटिका इ. १९९६ चौखम्बा सुरभारती प्रकाशन, वाराणसी
७.     दीक्षित भट्टोजी वैयाकरणसिद्धान्तकौमुदी दशमसंस्करण २०३९ वि.सं चौखम्बा संस्कृत सस्थान वाराणासी
८.     नेपाली वृहत् शब्दकोश द्वितीयसंस्करण वि.स. २०५१ नेपाल राजकीय प्राज्ञप्रतिष्ठान काठमाडौँ
९.           प्राणीनि अष्टाध्यायी सप्तम संस्करण वि.स. २०३२ चौखम्बा अमरभारती प्रकाशन वाराणासी
१०.    पतञ्जली व्याकरणमहाभाष्यम् १०८४ मोतलिाल वनारसीदास, दिल्ली
११.    भट्ट कौण्ड वैयाकरणभूषणसार द्वितीय संस्करण १९९९ चौखम्बा संस्कृत प्रकाशन दिल्ली
१२.    भर्तृहरि वाक्यपदीयम् २०४४ कृष्णदास अकादमी वाराणासी
१३.    रामाश्रम, अमरकोश, रामाश्रमी टीका वि.स. २०२६ चौखम्बा संस्कृत रीरिज अफिस वाराणासी
१४.    व्यास महाभारत

१५.    सरूप, लक्षण निघण्टु तथा निरुक्त १९६७ मोतीलाल वनारसी दास विहार 
Powered by Blogger.