Header Ads

वैधव्ययोगविवेचनम्

 सहा.प्रा.अम्बरराजढकालः


१. जातकशास्त्रपरिचयः विषयपरिचयो वा
          पूर्वजन्मनो विपाकात् यत् शुभाशुभफलं शौनकनारदगर्गभृगुवशिष्टपराशराद्यैः आर्षं ज्योतिषाचार्यैरुदितं तत् सर्वं ग्रहजन्यं फलं होराजातकशास्त्राभ्यां प्रतिपाद्यते । तत्र जन्मलग्नकुण्डल्याः तन्वादिद्वादशभावेषु जातकजीवनस्य सर्वं शुभाशुभफलं विचार्यते । जन्मकालिक नक्षत्रराशिग्रहस्थितिवशादेव सकलं शुभाशुभफलं संघटन्ति । जातकशास्त्रमेव पुरुषाणां आपदवस्थायां परित्राणोपायं दर्शयति । यात्राकाले विजयमार्गमुपदिशति । विवाहकाले वरवधूजातकसंयोगसम्बधीनि लक्षणानि निर्दिशति । तथैव तज्जातकशास्त्रमात्मविहितमार्गे गच्छतां जातकानां कौशल्यं प्रकटयति । अत एव जन्मवतां जन्मकालिक ग्रहनक्षत्राण्यधिकृत्य कृतं जन्मपत्रिकालेखनविधानमस्ति । ग्रहाणां स्थानादिषड्बलानि, आयूंषि, भावफलानि, भावस्थग्रहफलानि, ग्रहदशाचक्राणि, चैतैः सहिता दीर्घायुः सुतभर्तृसौख्यविपुलश्रीकीर्तिंदा श्रीमज्जातकपत्रिका ज्योतिर्विदैः लिख्यते । उक्तञ्च
श्रीमज्जातकपत्रिका परहितं व्योमाधिवासस्फुटैः
पञ्चाङ्गद्युचराष्टवर्गसहितस्थानादिषड्वीर्यजैः ।
आयुर्गोचरयोगभावजफलैः साद्र्धं दशाचक्रजैः
दीर्घायुस्सुतभर्तृसौख्यविपुलश्रीकीर्तिदा लिख्यते ।।१।।
(जातकपरिजात अ.१६३)
 उक्तजातकपत्रिकायां विविधग्रहजनितयोगा दृश्यन्ते । स्त्रीजातकस्य सौभाग्यदुर्भाग्यादिसमस्तशुभाशुभफलं जन्मपत्रिकाभ्यां विचार्यते । वैधव्य योगोपि जातकशास्त्रे स्त्रीजातकप्रसङ्गे समुल्लिखितो वर्तते । अस्मिन् निबन्धे जातकग्रन्थोक्ताः वैधव्ययोगाः, पतिमरणकालः (विधवाकाल) विधवाविवाहयोगः, दम्पत्तीसहमरणकालयोगः वैधव्यभङ्गयोगः, इति शीर्षकोपशीर्षकेषु वैधव्ययोगानां विवेचनं कृतमस्ति ।

२. जातकग्रन्थेषु वैधव्ययोगाः
विगतो धवो यस्या सा विधवा अर्थात् यस्या पतिमृता सा स्त्री विधवा इति लोके प्रसिद्धैव । धवः, प्रियः, पतिर्भर्ताइत्यमर । अधुना एकल महिलाइति सम्मानसूचकः शब्दः प्रचलितः । जातकग्रन्थेषु स्त्रीजातकाध्याये विवाहप्रसङ्गे विविधाः वैधव्ययोगाः वर्णिताः सन्ति । तत्र बृहज्जातके, जातकपारिजाते, भावकुतूहते च स्त्रीजातकाध्याये वैधव्यादि योगाः उल्लिखिता सन्ति । बृहज्जातकस्य रचयिता बराहमिहिरः ४२७ मित शकोत्पन्नः । पौरुषेयजातकग्रन्थेषु असौ हि प्रथमः । फलितज्योतिषस्य प्रथमाचार्यत्वेन बराहमिहिरेण स्त्रीजातकस्य जन्मपत्रिकायां लग्नाच्चन्द्राद्वा सप्तमाष्टमस्थानाद् पतिमरणं विचार्यमित्युक्तम् । यथा
तासां तु भर्तृमरणं निधने वपुस्तु
लगनेन्दुगं सुभगतास्तमये पतिंश्च ।।
(बृहज्जातकम्, अध्याय ५४, श्लोक १)
जातकपारिजातः ज्योतिषग्रन्थेषु स्ववैशिष्ट्येन सर्वाधिक लोकप्रियो वर्तते । अस्य रचयिता दैवज्ञ वैधनाथः १३४७ शकोत्पन्नः सुप्रसिद्धोऽस्ति । तेन जातकपारिजाते स्त्रीजातकनामकाध्याये पतेः शुभाशुभं सप्तमभावाद् एवं वैधव्यमष्टमभावात् विचिन्तयेदिति निर्देशितम् । यथाः
सौमङ्गल्यमनिष्टमष्टमगृहाद् भर्तुश्रियं सप्तमात्
केचिद् भर्तृशुभाशुभं शुभगृहादिच्छन्ति होराविदः ।।
          वैधव्यं निधनेन लग्नभवनात्तेजो यशः सम्पदः ।।
(जातकपरिजात,अ. १६, ५६)
          दैवज्ञ जीवनायस्य भावकुतूहलस्य स्त्रीजातकाध्यायेSपि विविधानि वैधव्य योगानि वर्णितानि सन्ति । ग्रन्थोSयं १७८० मिते शकाब्दे जीवनाथेन रचितः (दाहालः सन् २००३ पृ. १६३) । तत्र भावकुतूहले स्त्रियाः जन्मपत्रिकायां लग्नात् चन्द्राद् वा सप्तमाष्टमस्थानात् वैधव्ययोगाः निर्दिष्टव्याः तथैव लग्नषष्टाष्टमद्वादशस्थानादपि वैधव्यदुर्भाग्यादियोगाः निर्देशिताःसन्ति । यथोक्तम
                   सौभाग्यं सप्तमस्थानं शरीरं लग्नचन्द्रयोः
                   वैधव्यं निधनस्थाने पुत्रेपुत्रं विचिन्तयेत् ।।
(भावकुतूहलम् अ. ९, श्लोक ३)
          जातकस्यमृत्युं अवश्यम्भाविरेव । जातस्यहि ध्रुवोर्मुत्यः इति गीतायांमपि कथितम् । परन्तु सीमन्तिनीनां पतिमरणं पूर्वजनोर्विपाकात् संभवति । ग्रहयोगादिदं विचार्यते । विवाहकालात्परः तत्पतिमरणेन तेषु सौभाग्यसुखपुत्रादि  असम्भवमेव ज्योतिर्विदैः प्रकल्पितम् । अतः विधवायाः पुनर्विवाहमपि सम्भाव्यम् ।
          अथबृहज्जातकःजातकपारिजातःभावकुतूहलान्तर्गतानां वैधव्ययोगानां परस्पर समीक्षणार्थं तत्रोल्लिखितश्लोकानां संख्या सूची प्रदश्र्यते
ग्रन्थाः बृहज्जातके     जातकपारिजाते        भावकुतूहुले
ग्रन्थकारः       वराहमिहिरः  वैद्यनाथः       जीवनाथः
अध्यायः        स्त्रीजातकाध्यायः (२४)        स्त्रीजातकाध्यायः (१६)        स्त्रीजातकाध्यायः (९)
श्लोक संख्या    ८,९,१४        ६,१४,१९ २४, २७, ३०, ३४, ३५, ४३, ४४       ५, १३, २२, २३, २४, २५, २९, ३०, ३१

३. वैधव्ययोगाः
          उपर्युल्लिखिताः ग्रन्थाः जातकशास्त्रे बहुप्रसिद्धाः । फलादेशे बहूपयोगिनश्च । एतेषु सर्वेषु ग्रन्थेषु वैधव्ययोगानां वर्णनं प्राप्यते । तेषु सर्वत्रैव साम्यमस्ति । एतेषु ग्रन्थेषु समुल्लिखिताः वैधव्ययोगाः  क्रमेण अत्रोपस्थाप्यते
१.      सूर्येः सप्तमभावगते जाता स्त्री पतिनोत्सृष्टा वा भत्र्ता त्यक्ता भवति । एवं कुजे सप्तमगते तस्मिंश्चाशुभैः पापैः वीक्षिते सति बाल्यावस्थायां विगतभर्तृका भवति ।तथैव शनिश्चरे सप्तमस्थानगते सति तस्मिंश्चाशुभैःपापैर्वीक्षिता कन्या कुमार्यायावस्थायामेव जरामुपगच्छति ।  विवाहं नकरोतीत्यर्थ ।
२.      यदि त्रयः क्रूरा ग्रहाः सप्तमस्था भवन्ति तदा स्त्री विधवा जायते ।
३.      यस्याः क्रूरग्रहोSष्टमे स्थाने भवति सा वैधव्यं प्राप्नोति । विशेषतोऽष्टमस्थाने बलवान् मङ्गलो वैधव्ययोगकारको भवति ।
४.      यस्याः जन्मसमये सूर्यो मदनभवने तिष्ठति सा स्त्री कुपितहृदया (क्रोधयुक्ता) भविष्यति । सा नित्यं पतिना सह कलहकारिणी भविष्यति । अन्ततोगत्वा सा निजपतिं त्यजति ।  तत्र भूमितनये गते सति तु सा अवश्यमेव विधवा भविष्यति ।
५.      यस्या अङ्गनायाः जन्मसमये सप्तमस्थाने ककर्ट राशौ अङ्गारकः तिष्ठति (नीचभौमः सप्तमे वसति) सा नियतं वैधव्यं प्राप्नोति ।
६.      शनिनायुक्ते अङ्गारके सप्तमस्थाने गते सति सा अवश्यं वैधव्यं गच्छति । अथवा सा नारी कपटप्रबन्धात् व्यभिचारिणी  भवित ।
७.      यदि जन्मनि निशाकरात् सप्तमभावसंस्थाः महिजमन्दागुदिकवाकराः सन्ति चेत्तदा कन्या वैधव्यं प्राप्नोति  । यदि तनोSरिभेजन्मनिनैधनं वा उक्ताग्रहाः (भौमशनिराहूरवयः) स्थिताः तदा वैधव्यं दिशन्ति ।
८.      लग्ने,सप्तमगेहे च पापग्रहे सति सप्तमाब्दे (विवाहकालात् सप्तमवर्षे) भर्ता दिवं गच्छति । अष्टमवैरिभावे निशाकरे  पापग्रहेण युक्ते सति  तदा अष्टमाब्दे (विवाहात् अष्टम वर्षे) भर्ता निधनं प्रयाति ।
९.      यस्या कन्यायाः पापेक्षणयुते सप्तमेशः अष्टमे तथा निधनाधिपःसप्तमे गच्छति तदा सा बाला ध्रुवं वैधव्यं लभते ।
१०.    पापपीडितौ सप्तमाष्टमपती षष्ठे वा व्यये गते सति तदा नारी वैधव्यामाप्नोति नैवात्र संशयः ।
११.    पापग्रहैः अस्तराशिसहितैः सप्तमस्थानमतैः विधवा भवति । मिश्रैः शुभैः पापैश्च सप्तमस्थैः पुनर्भूर्भवेत् । पुनः अन्येन परिणीता भवति । हीनबले पापग्रहे सप्तमभावगते तथा भूते केनचित् शुभग्रहेण दृृष्टेसति सा स्त्री स्वपतिना  परित्यक्ता भवति ।
१२.    शनिः सप्तभावगते पापग्रहराशौ स्थिते अङ्गना वैधव्यमेति । अर्थात् सप्तमोभावः पापराशः तत्र शनिस्थितो भवेत्तदा जायमाना कन्या पतिमरर्णं प्राप्नोति ।
१३.    सप्तमे पापद्वये स्त्री कामाशक्ता, मनश्विनी, विधवा च भवति । तत्रैव पापत्रयेण कुलटा भवति । ततःपश्चात् सा स्त्री स्वामिवधं करोति ।
१४.    अष्टमभावे पापग्रहेण सहिते पापराशौ वा पाप भवने पापग्रहावलोकिते सति जाता स्त्री विधवा भवति । अष्टमेशः यस्मिन नवांशे तिष्ठति तन्नवांशपतौ पापग्रहेसति स्त्री अवश्यमेव विधवा भवति ।
१५.    चन्द्रभवनात् वा चन्द्राधिष्ठितराशितः सप्तराशिगते कस्मिन्श्चित् पापग्रहे सति स्त्री वैधव्यं समुपैति । परन्तु चन्द्रात् सप्तमभावतगताः शुभग्रहाः बुधगुरुशुक्रान्यतमग्रहाः भवेत्तदा स्त्रीभिः राज्यं, आस्पदं, प्रतिष्ठां च प्राप्नोति । स्त्रीजातक प्रसङ्गे चन्द्रादस्ते पापोSशुभदः शुभखेटो शुभदश्चेति ।

४. विधवाकाल ज्ञानोपायः
          यस्याः क्रूरग्रहाः लग्नाद् चन्द्राद्वा सप्तमे अष्टमेस्थाने भवन्ति सा नारी विधवा भवति । कस्मिन् काले वैधव्यता प्राप्नोति वा कस्मिन् समये पतिमरणं भवति इत्यस्मिन् विषये बराहमिहिराचार्येण  बृहज्यातके  उक्तम्
                   क्रूरेष्टमे विधवता निधनेश्वरांSशे
                   यस्य स्थितो वयसि तस्य समे प्रदिष्टा ।।
          अर्थात् अष्टमस्थानाधिपतिः यस्य ग्रहस्य नवांशे भवति  तस्य यत् वयः तस्मिन् ग्रहदशासमये विवाहात्परतस्तस्या वैधव्यं वक्तव्यम् । अष्टमे भावे कस्मिश्चित् पापग्रहे अवस्थिते, अष्टमेशः यस्य ग्रहस्य नवांशे स्थितो भवेत् तस्य ग्रहस्य समे वयसि (दशायां) स्त्रियाः विधवता वा पतिमरणं वाच्यमिति । अर्थात् अष्टमेशः नवांशाधिपतेः नैसर्गिकायुतुल्य वयसि पतिमरणं वक्तव्यमिति । एतद् योगे शुभग्रहेषु द्वितीयभावमुपगतेषु स्त्रीयाः भर्तुः पररस्तात् स्वयमेव मरणं संभवति । सारावल्यामपि कथितम्
                   पापेष्टमे तु विधवा निधनाधिपति नवांशकेयस्य
                   तस्य दशायां मरणवाच्यं तस्याः शुभै द्वितीयस्थै ।।

५. दम्पत्तिसहमरणयोगः
           अष्टमभावे मिश्रवलयुक्ते (शुभाशुभ सामान्यबलयुक्ते) तस्मिन् शुभैरशुभैश्च ग्रहैरालोकिते वा युक्ते सति दम्पत्योः समकाले (एकस्मिन्नेव समये) मृत्युं अखिलज्योतिर्विदो वदन्ति । सप्तमेशलग्नेशौ यत्रतत्रैकस्थौ भवेतां वा सप्तमेशे लग्नस्थिते लग्नेशे सप्तमस्थानगते तत्र शुभग्रहयुते च तयोः दम्पत्योः एककाले मृत्युर्भवेदिति । ग्रान्थान्तरे उक्तञ्च
                   लग्नात् सप्तमगः पापश्चन्द्रात्सप्तमगोSपि वा
                   सद्यो निहिन्त दम्पत्योरेको नास्त्यत्र संशयः ।
                   लग्ने वा मेषगः सूर्यश्चन्द्रात्सप्तमगोSपि वा
                   सद्यो निहन्ति दम्पत्योः कन्या तत्र न संशयः ।।

६. विधवाविवाहयोगः
          भावकुतूहलानुसारं सप्तमस्थाने कर्कटराशौ सरवौ कुजेSपि तिष्ठति चेत् तदा सा कन्या धवेन हीनन्यलोकैः सहरमते । बृहज्जातकानुसारं यदि बहवः क्रूराः ग्रहाः सप्तमस्था भवन्ति तत्र मिश्रैः कुरैः सौम्यैश्च सप्तमस्थैः भवन्ति चेत सा स्त्री पुनर्भूर्भवेदिति । स्वपाणिग्राहिणं त्यक्तवा अन्यस्य भार्या भवति । एतादृशी नारी द्विसंस्कृता भवति । यथा :-
७. केचित् वैधव्ययोगोदाहरणनि

    उदाहरण       १                                                                    उदाहरण २
(भावकुतूहलम् अध्यायः ९ श्लोकः १३, उपर्युक्तउदाहरणम)

     उदाहरण       ३                                                          उदाहरण ४
 
(भावकुतूहलम् अध्यायः ९ श्लोकः २२, उपर्युक्तउदाहरणम)

८. वैधव्यभङ्गयोगः 
          लग्नाच्चन्द्राद्वा सप्तमे शुभग्रहो भवेत्तदा वैधव्य दोषं नाशयति । तथा च लग्नाच्चन्द्राद्वा सप्तमेशः शुभग्रहः सप्तमस्थानस्थितो भवेत्तदा अनपत्यदोषं वैधव्यदोषं च नाशयति । उक्तञ्च
लग्नादिन्दोः शुभो वा यदि मदन पतिद्र्युनयायी विषाख्या
दोषं चैवानपतयं तदनु च नियतं हन्ति वैधव्य दोषम् ।।
(जातकालङकारः अ.४, श्लोक ३)

९. निष्कर्ष
          वस्तुतः वैधव्ययोगविषयकान्तर्भूततथ्यानां पूर्वोलिखित ग्रन्थानामनुसारेण विवेचनं कृतम् । उक्तेषु ग्रन्थेषु सर्वेषां वैधव्ययोगानां साम्यता दृश्यते । इदं वैधव्ययोगं लग्नेन्दुभ्यो विचार्यते । कन्याजन्मकुण्डल्यां लग्न चन्द्राभ्यां ७।८।१२ स्थानेषु कश्चितपापग्रहोSधिकारवांस्तिष्ठेत्तदाप्यनिष्ठः वैधव्यकारको वा । लग्नाच्चन्द्रादन्यतरतः सप्तमाष्टमे पापग्रहाः सन्ति चेत् विधवा योगः भवति । भौमराहौ सप्तमेSष्टमे वा व्यये स्थिते सति  विधवा योगःजायते । षष्ठाष्टमेशौ षष्टगतौ व्यये पापास्तेनापि विधवा । मत्देष्टमे पतिरोगवति । मन्देसप्तमेSपि विधवा । रविद्युने पतित्यक्ता । सूर्योSष्टे पापयुक्ता भवति । लग्नात् तुर्याष्टमान्त्यसंस्थाः पापास्तदा पतित्यक्ता पराशक्ता च भवति । एतत् सर्वं विचार्य अतिचातुर्य उक्तिना कन्यायाः विवाहवैधव्यादि दोषादिकं च विचार्य फलादेशकार्यम्  ।


सन्दर्भग्रन्थाः
१.      उपाध्याय शिवमूर्ति (वि.सं. २०७१) हृषिकेश हिन्दीपञ्चाङ्ग (सम्पा.) विक्रम पञ्चाङ्ग प्रकाशन, वाराणसी ।
२.      गणेशदैवज्ञः,(ई.सं.२०१०),जातकालङ्कारः हरभानुसंस्कृतटीकासहिता, ठाकुरप्रसाद पुस्तक भण्डारः वाराणसी ।
३.      जीवनाथः,(ई.सं.१९९८), भावकुतूहलम् (द्वितीयसंस्करणम्) ठाकुरप्रसाद कैलाशनाथ बुक्सेलर, वाराणसी ।
४.      दाहालःलोकमणि,(ई.सं.२००३), भारतीयज्योतिषशास्त्रस्योतिहासः, चौखम्बा सुरभारती प्रकाशन, वाराणसी ।
५.      पण्डा, रामचन्द्र (वि.सं. २०६८) विश्व पञ्चाङ्गम् (सम्पा.) काशी हिन्दु विश्वविद्यालय, वाराणसी ।
६.      वैद्यनाथः,(ई.सं.२००४),जातकपारिजातः, कपिलेश्वरशास्त्रिकृत् संस्कृतव्याख्यासहिता(दशम् संस्करणम्) चौखम्बा संस्कृत संस्थान, वाराणसी ।
७.      वराहमिहिराचार्य, (ई.सं. १९९६) बृहज्जातकम् (पुनमुर्दित संस्करणम्) भट्टोत्पलसंस्कृतव्याख्या एवम् केदारदत्त हन्दी व्याख्यासहिता, मोतीलाल वनारसीदास, नयाँ दिल्ली ।
८.      बर्मा कल्याण, (ई.सं. २००१) सारावली, रञ्जन पब्लिकेशन, नयाँ दिल्ली ।
९.      शास्त्री,नेमिचन्द्र,(ई.सं.२०१२),भारतीयज्योतिष,उनपञ्चाशत संस्करणम्), भारतीय ज्ञानपीठ, नयाँ दिल्ली ।
Powered by Blogger.