हरिकेलिमहाकाव्यस्य साहित्यिकं वैशिष्ट्यम्
टीकारामगौतमः
उप–प्राध्यापकः (ने. सं. वि.)
संस्कृतसाहित्यजगति सन्ति बहूनि काव्यानि, तेषां रचयितारो बहवो कवयश्च । तत्र संस्कृतमहाकाव्यलेखने कालिदास–भारवि–माघश्रीहर्षादयो भारतीयाः कवयः प्रसिद्धाः सन्ति । नेपालेùपि संस्कृतमहाकाव्यलेखनपरम्परा प्राप्यते । वंशमणि–सुकृतिदत्त–पूर्णप्रसादब्राéणादयो महाकवयः संस्कृतमहाकाव्यलेखनद्वारा नेपालभूमिमल–ङ्कृतवन्तः । प्राप्तसामग्र्याधारेण त्रयोदशसङ्ख्यानि नैपालक–संस्कृतमहाकाव्यानि प्राप्यन्तेùधुना । तेषु वंशमणिशर्मप्रणीतं ‘हरिकेलिमहाकाव्यम् सर्वप्रथमं, सर्वोत्कृष्टं च महाकाव्यं वर्तते । वंशमणिः जगज्ज्योतिर्मल्लकालीनो मन्यते । मल्लकालात्पूर्वं नेपाले महाकाव्यलेखनपरम्परा नैव प्राप्यते, सत्यपि परम्परा न किमपि प्रमाणं प्राप्यते । अस्य समयावधिपर्यन्तं केनापि नैपालककविना न कस्यामपि भाषायां महाकाव्यं रचितमासीत् । अनेनैव सर्वप्रथमं ‘हरिकेलिमहाकाव्यम् रचितम् । अतोùसावेव नैपालकप्रथममहाकविः, हरिकेलिमहाकाव्यञ्च प्रथममहाकाव्यमिति । अनेन स्वजन्मसमयादिविषये न किमप्युक्तम्, परमस्य पितुर्नाम रामचन्द्रः मातुर्नाम च जयमती आसीत्, तथैवासौ कौशिकगोत्रोत्पन्नो मैथिलो ब्राéणश्चासीदिति तस्यैव कथनाज्ज्ञायते— ‘‘पिता यस्यान्वीक्षाम्बुधिबहलने चन्द्रमा रामचन्द्रो,... (वंशमणिः, २०५१ः पृ. १३७) ।
मणिमहोपाध्यायायपदविभूषितोùस्य पिता रामचन्द्रः जनकपुरस्य मैथिलो ब्राéण आसीत् । असौ भक्तपुरमागत्य भक्तपुराधिपतेत्र्रैलोक्यमल्लस्य आश्रये वसितमासीत् ,तत्रैव वंशमणेः जन्ममभवत् , जगज्ज्योतिमल्लस्य बालसखारूपेणासौ बर्धितश्च । अस्य शिक्षादीक्षा राजभवने एवाभवत् । जगज्ज्योतिमल्लस्य प्रेरणया, पितुर्शिक्षया चासौ महाकविर्जातः (ढकालः, २०५१ः पृ.भूमिका) इति अस्य इतिहासपठनाज्जायते । अस्य समयः विक्रमाब्दस्य सप्तदशशतकं मन्यते ।
वंशमणेः ‘हरिकेलिमहाकाव्यम्, सङ्कीतभाष्करः, चतुरङ्कतरङ्किणी, गीतदिगम्बरम् चेति चत्वारो काव्यग्रन्थाः प्राप्यन्ते । तेषु ‘हरिकेलिमहाकाव्यम् सर्वश्रेष्ठं वर्तते । महाकाव्यमिदं अद्यावधिपर्यन्तं नेपालस्य राष्ट्रिय अभिलेखालये पाण्डुलिपिरूपेण सुरक्षितमासीत्, किन्त्वधुना ने.सं.वि. प्राध्यापकस्य प्रा.डा. वेणीमाधवढकालमहोदयस्य सम्पादकत्वे नेपाल–संस्कृत–विश्वविद्यालयेन (तात्कालिकः म.सं.वि.) प्रकाशितो भूत्वा सहृदयजनमानन्दयति ।
। । १ । ।
महाकाव्यमिदं श्रीकृष्णसम्बन्धिनिपौराणिककथामाश्रित्य लिखितमस्ति । अत्र सप्तदशसर्गाः सन्ति । अत्र काव्ये श्रीकृष्णस्य जन्मकालादारभ्य कंसबधपर्यन्तीया कथा वर्णिता विद्यते । रचनाशैलिदृष्ट्येदं काव्यं कालिदास–भारवि–माघकाव्यमनुकरोति । जटिलरचनाùत्र न लभ्यते । सुललितपदविन्यास–अर्थगाम्भीर्य–स्वतस्पूmर्तालङ्गार–शृङ्काररसविभूषितं महाकाव्यमिदं सकलमहाकाव्यलक्षणसमन्वितं वर्तते । अस्य भाषाशैली सरला, सरसा, सुबोधा, प्रवाहात्मिका च वर्तते ।
‘‘सर्गबन्धो महाकाव्यं..... (विश्वनाथः, २०६४ःपृ.५९०) इत्यादिमहाकाव्यल–क्षणसमन्वितस्यास्य महाकाव्यस्य धीरोदात्तनायकः श्रीकृष्णः, गोलोकेश्वरी राधिका च मुग्धा नायिका । शृङ्कारोùस्य मुख्यः रसः, वीर–शान्त–अदभूत–भयानक–रौद्रादयः सहायकाः । ‘‘समापत्सर्गोùयं शिशिरकरसंयुक्तशृङ्कारसङ्ख्यः (वंशमणिः, २०५१ः पृ.२६६) इत्यादिकविवचनेनैवास्य काव्यस्य शृङ्काररसप्रधानत्वं परिपोषयति । अत्र सप्तदशसर्गाः सन्ति । अत्र नदी–पर्वत–हिमालय–सूर्योदय–चन्द्रोदय–समुद्रादीनां वर्णनं मनोहररूपेण कलात्मकरूपेण च विहितमस्ति ।
‘‘वाक्यं रसात्मकं काव्यम् (विश्वनाथः, २०६४ः पृ.२४), ‘‘काव्यस्यात्मा रसः चेत्यनुश्रृत्य कविनाùस्मिन्काव्ये रसादेर्विनियोजनं सावधानतया विहितमस्ति । सकलरसप्रयोगे दक्षः कविरस्मिन् काव्ये शृङ्कारं मुख्यत्वेन भजते । सम्भोगविप्रलम्भौ द्वावपि शृङ्कारावत्र प्रयुक्तौ । एकादशतमसर्गे विप्रलम्भस्याधिक्यं दृश्यते, अष्टम–दशम–द्वादश–चतुर्दशसर्गेषु सम्भोगशृङ्कारो पराकाष्ठतां भजते । तथैव द्वितीयसर्गे वात्सल्यरसस्य, त्रयोदशसर्गे च करुण–विप्रलम्भस्य आधिक्यं द्रष्टुं शक्यते ।
छन्दोùलङ्गारप्रयोगेùप्यसौ कविः दक्षो दृश्यते । श्लोक–शिखरिणी–मन्दाव्रmान्तादीनि ३५ सत्र्यकानिच्छन्दांसि अत्र प्रयुक्तानि । अनुप्रासालङ्गारोùत्र काव्ये सर्वत्र परिलसति । यमक–श्लेषादयोùपि स्थाने स्थाने परिलसन्ति । सर्वतोभद्र–मुरजबन्ध–गोमुत्रिका–एकाक्षर–द्व्यक्षरादीनां चित्रकाव्यानामुदाहरणानि च यत्र तत्र प्राप्यन्ते । चित्रालङ्गारप्रयोगे महाकाव्यमिदं भारविमाघयोर्काव्यमनुकरोतीव प्रतिभाति । तथैव उपमा–समासोक्ति–दीपक–अप्रस्तुतप्रशंसादयोùर्थाùलङ्गाराùप्यत्र सर्वत्र परिलसन्ति । उपमाकमीनयता सहृदयमनः हरति । सकलगुणरीतिसमन्वितेùत्र काव्ये माधुर्यगुणस्य, वैदर्भीरीतेश्च आधिक्यं दृश्यते । तथैवेदं काव्यमर्थगाम्भीर्यदृष्ट्याùपि महनीयं वर्तते ।
प्रकृतिचित्रणेùपीदं काव्यं अद्वितीयमेव प्रतिभाति । कविनाùत्र काव्ये मनोहारितया प्रकृतिवर्णनं विहितमस्ति । अत्र काव्ये नदी–पर्वत–समुद्र–वृक्ष–लता–मेघ–सूर्य–चन्द्र–राœयन्धकार–हिमालयादीनां वर्णनं मनोहररूपेण विहितमस्ति । प्रकृतेर्भीषणं सुन्दरञ्च रूपद्वयमत्र वर्णितमस्ति, तथैवात्र आलम्बनोद्दीपनविभावरूपेणापि प्रकृतिचित्रणं दृश्यते ।
। । २ । ।
अचेतना प्रकृतिरपि चेतनरूपेण वर्णिताùस्ति । विहाय कालिदासं अस्य प्रकृतिचित्रणेन सह न कस्यापि प्रकृतिचित्रणं प्रतिस्पर्धुमर्हतीति ।
अतः सकलमहाकाव्यलक्षणसमन्वितं महाकाव्यमिदं न केवलं नेपालस्य अपि तु सकलसंस्कृतसाहित्यस्य एव साहित्यरत्नं वर्तते । अस्य संस्कृतसाहित्ये महनीयं स्थानं वर्तते । अस्य रचना सरला, सुबोधा, सरसा, मनोहरा च वर्तते । कोमलपदरचना–भाषाशैल्यर्थालङ्कारप्रयोग–रसादिप्रयोगदृष्ट्येदं काव्यं कालिदासकाव्यमनुकरोति । शब्दालङ्गार–चित्रालङ्गारप्रयोगदृष्ट्या चेदं काव्यं भारविकाव्यमनुकरोति । सुललितकाव्यकलादृष्ट्याùनेन सह कालिदासकाव्यादतिरिक्तं न किमपि काव्यं प्रतिस्पर्धुमर्हतीति ।
अनेन प्रकारेण हरिकेलिमहाकाव्यस्य समीक्षणानन्तरमिदं कथयितुं शक्यते यद् गुणालङ्गाररसरीतिसमन्वितं, सकलमहाकाव्यलक्षणसमन्वितञ्चेदं महाकाव्यं न केवलं वंशमणिशर्मणः, न वा नेपालस्य एव, अपितु समग्रसंस्कृतसाहित्यस्य एव साहित्यरत्नं वर्तते, इति ।
। । ३ । ।
सन्दर्भग्रन्थाः
१. शर्मा, वंशमणिः (२०५१), हरिकेलिमहाकाव्यम् (संपा. वेणीमाधवढकालः), दाङ्कः, महेन्द–संस्कृत–विश्वविद्यालयः ।
२. विश्वनाथः, (२०६४), साहित्यदर्पणः, वाराणसीः, चौखम्बाकृष्णदासअकादमी ।
३. भट्टाचार्यः, कान्तिचन्द्रः(सङ्कलकः), (२०५७), काव्यदीपिका (टीका– वेणीमाधवः), काष्ठमण्डपः, श्रीमती प्रभालक्ष्मीराणा ।
प्रतिक्रिया व्यक्त गर्नुहोस्