समासपरिचयः
डा.मोहनीलालनेपालः
उपप्राध्यापकः
रूरू संस्कृत विद्यापीठ रिडी गुल्मी
शब्दनिर्वचनप्रकारकं शास्त्रं व्याकरणं निगद्यते
। साधुशब्दज्ञानं व्याकरणाध्ययनस्य मुख्यं प्रयोजनम्् ।
जानन्त्येव विद्वांसो यत् संस्कृतवाङ्मयज्ञानाय व्याकरणमेव
मुख्यं साधनम् । ऐन्द्रचान्द्रादिषु . नैकेषु व्याकरणेंषु सत्स्वपि सर्वत्राधुना पाणिनीयव्याकरणंमेव
प्रचलति । तच्च व्याकरणं लक्ष्यलक्षणात्मकम् । शब्दो लक्ष्यःसूत्रन्तु लक्षणम् । अनयोःसम्यक्
ज्ञानार्थं पाणिनीयाष्टाध्याय्या अध्ययनं परमावश्यकम् । सरलरीत्या व्याकरणशास्त्रज्ञानाय
अष्टाध्यायीस्थक्रम – काठिन्यनिवारणाय च प्रक्रियाक्रमस्यारम्भो जातः । श्रीमद्भट्टोजिदीक्षित
विरचिता सिद्धान्तकौमुदी प्रौढापाण्डित्य परिपूर्णावर्तते । शब्दनिर्मापकेषु अत्र समासस्य
परिचयः प्रस्तूयते –
समसनं समासः
। अनेकपदानामेकपदी भवनं समासः ।
अथवा
पदयोरैक्यं
वा समासः । भिन्नप्रवृत्तिनिमित्तानां शब्दानां विशिष्टैकार्थप्रतिपादकतया एकपदीभवनं
समासः इति निगद्यते । तच्च पृथगर्थपदानामेकार्थोपस्थितिजनकत्वरूपम् । यथा – राज्ञःपुरुषः
राजपुरुषः, कृष्णं श्रितः कृष्णश्रितः इत्यादि ।
नित्यानित्यभेदेन
समासः द्विविधः । अत्र समासस्य विभाषितत्वं नित्यत्वम् । यथा – प्रकर्षेण वरः =प्रवरः
: ।
कुम्भं करोतीति कुम्भकारः ।
वृत्यर्थवबोधको
विग्रहः । वृत्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकाद्रलौकिकभेदेन द्विधा – स्वपदविग्रहः
अस्वपदविग्रहश्च । लौकिको यथा – कृष्णं श्रितः , पूर्वं भूतः , अलौकिको यथा कृष्ण+अम्
श्रित+सु , पूर्व+अम् भूत+सु इति ।
नित्यसमासे
प्रायेणास्वपदविग्रहो भवति । समासस्य विभाषितत्वञ्च नित्यत्वम् यथा – राज्ञः पुरुषः
राजपुरुषो वा । शिवश्च केशवश्च शिवकेशवौ । हरिश्च हरश्च हरिहरौ वा ।
प्रथमतः समासः षड्विधः –
सुपा सुपा
तिङा नाम्ना धातुनाद्रथ तिङां तिङा ।
सुबन्तेनेति
विज्ञेयः समासः षड्विधो बुधैः ।
सुपां सुपा
– सुबन्तानां सुबन्तेन, सुपां तिङा सुबन्तानां तिङन्तेन, सुपां नाम्ना – सुबन्तानां
प्रातिपदिकेन, सुपां धातुना – सुबन्तानां धातुना, तिङां तिङा – तिङन्तानां तिङन्तेन
, तिङां सुपा – तिङन्तस्य सुबन्तेन च समासो भवति इति कारिकार्थः।
क्रमेण उदाहरणानि
यथा – १) सुबन्तानां सुबन्तेन – – राज्ञः पुरुषः
= राजपुरुषः अत्र राज्ञः इति षष्ठ्यन्तस्य सुबन्तस्य पुरुषः इति प्रथमान्तेन सह समासो
भवति । पूर्वं भूतः = भूतपूर्वम् , अत्र पूर्वम् इति द्वितीयान्तस्य सुबन्तस्य भूतःइति
प्रथमान्तेन सह समासः।
२) सुबन्तानां तिङन्तेन – पर्यभूषयत् इति । अत्र
‘ सह सुपा” इत्यत्र सहेति योगविभागात् परि इति सुबन्तस्य अभूषयत् इति तिङन्तेन समासः।
३) सुपां
नाम्ना – (सुबन्तानां प्रातिपदिकेन) – कुम्भकारः
– इत्यत्र ‘गतिकारकोपदानां कृद्भिःसह समासवचनं प्राक् सुबुत्पत्तेः” इति परिभाषया कारशब्दात्
सुबुत्पत्तेः पूर्वमेव ‘उपपदमतिङ्”इति सूत्रेण कुम्भस्य इति षष्ठ्यन्तस्य कार इति प्रातिपदिकेन
समासः।
४) सुपां धातुना – (सुबन्तानां धातुना) कटप्रू – इत्यत्र ‘क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां
दीर्र्घाेद्रसम्प्रसारणम् च ” इत्यनेन कटम् इति द्वितीयान्तस्य प्रातिपदिकस्य प्रूधातुना
सह क्विब्विधानात् समासो निपातितः। अजस्रम्
– अत्र‘नमिकम्पिरम्यजसकभिहिंसदीपो रः” इति सूत्रेण र प्रत्ययविधौ जस्धातुना
सह नञ् समासो निपातितः।
५) तिङां तिङा ( तिङन्तानां तिङन्तेन) – पिबतखादता – अत्र ‘मयूरव्यंसकादीनां च” इत्यनेन पिबत इति तिङन्तस्य
खादत इति तिङन्तेन समासः।
६) तिङां सुपा – तिङन्तस्य सुबन्तेन – कृन्तविचक्षणा – अत्र कृन्त इति तिङन्तस्य विचक्षणा इति सुबन्तेन
सह‘एहीडादयोद्रन्यपदार्थे”इति सूत्रस्य मयूरव्यंसकादिगणे पाठात् समासः । जहिजोडः – अत्र जहि इति तिङन्तस्य जोड इति सुबन्तेन सह
‘जहिकर्मणा बहुलमाभीक्ष्ण्ये”इति गणे पाठात् समासः । षड्विधेषु समासेषु प्रथमः सुपां
सुपा – सुबन्तानां सुबन्तेन समासः षड्विधः –
द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः।
तत्पुरुषः कर्मधारय येनाद्रहं स्यां बहुव्रीहिः ।।
अथवा
समासभेदाः षोढा तत्पुरुषःकर्मधारयः ।
द्विगुद्र्वन्द्वोद्रव्ययीभावो बहुव्रीहिरितीरिताः
।
१. अव्ययीभावः २. तत्पुरुषः ३. कर्मधारयः ४. द्विगुः
५. बहुब्रीहिः ६. द्वन्द्वः ।
१. अव्ययीभावसमासः – अनव्ययम् अव्ययः सम्पद्यते इति.अव्ययीभावः
। प्रायेण पूर्वपदार्थप्रधानोद्रव्ययीभावः। अव्ययपदेन यत्र समासो भवति स .अव्ययीभावसमासः
।
पाणिनिसंकेत
सम्बन्धेन अव्ययपदवत्वम् अव्ययत्वम् ।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु
च सर्वेषु यन्न व्येति तदव्ययम् । त्रिषु
लिङ्गेषु सर्वासु च विभक्तिषु सर्वेषु वचनेषु च यन्न व्येति विकारं न प्राप्नोति किन्तु
सदृशम् एकप्रकारमेव भवति तदव्ययम् इत्यर्थः ।
अव्ययपदार्थप्रधानोद्रव्ययीभावसमासः
। स च पूर्वपदार्थप्रधानः उत्तरपदार्थप्रधानः अन्यपदार्थप्रधानश्चेति त्रिविधः ।
१) पूर्वपदार्थप्रधानो यथा – कृष्णस्य समीपम् – उपकृष्णम्,
गङ्गायाःसमीपम् – उपगङ्गम् । अत्र ‘अव्ययं विभक्ति समीप – .”.इत्यनेन समीपार्थे समासः ।
२) उत्तरपदार्थप्रधानो यथा – शाकस्य प्रति – शाकप्रति
‘सुप्प्रतिना मात्रार्थे” इत्यनेन समासः।
३) अन्यपदार्थप्रधानो यथा – लोहितगङ्गम् – लोहिता
गङ्गा यस्मिन् तत् लोहितगङ्गम् नामदेशः, उन्मत्ता गङ्गा यस्मिन् तत् उन्मत्तगङ्गं देशः
अत्र ‘अन्यपदार्थे च संज्ञायाम् ”इत्यनेन समासः ।
अव्ययीभावसमासः प्रथमा – द्वितीया – तृतीया – पञ्चमी
– षष्ठी – सप्तमी विभक्तेः भवति ।
यथा – प्रथमाविभक्तिः
– (प्रथमान्ताव्ययीभावः) –
द्विमुनि
– द्वौ मुनी वंश्यौ = द्वि औ मुनि औ, । त्रिमुनि व्याकरणस्य – त्रयः मुनयः = त्रि जस्
मुनि जस् अत्र ‘संख्या वश्येन – इत्यनेन समासः
।
– द्वितीयाविभक्तिः
– (द्वितीयान्ताव्ययीभावः) – प्रत्यर्थम् – अर्थं अर्थं प्रति इति = अर्थ अम् प्रति
इति । अत्र ‘अव्ययं विभक्ति. .इत्यनेन वीप्सार्थे समासः ।
– तृतीयाविभक्तिः
– (तृतीयान्ताव्ययीभावः) – सदृशार्थे – हरेः सादृशम् =हरि टा सादृश्य(सह) अत्र ‘अव्ययं
विभक्ति ” इत्यनेन सदृसार्थे समासः । अक्षपरि =अत्र अक्षेण विपरीतं वृत्तम्, अक्ष टा
परि, शलकापरि =शलकया विपरीतं वृत्तम् – शलका टा परि, एकपरि एकेन विपरीतं वृत्तम् –
एक टा परि अत्र‘अक्षशलकासंख्याः परिणा ”इत्यनेन समासः ।
– पञ्चमीविभक्तिः
– (पञ्चम्यन्ताव्ययीभावः) – अपविष्णु संसारः=विष्णोः अप =विष्णु+ङसि अप, आमुक्ति संसारः=
आ मुक्तेः, मुक्ति+ङसि आ, बहिर्वनम्=वनाद् बहिः =वन+ङसि बहिः, प्राग्वनम्=प्राक् वनात्
= वन+ङसि प्राक् अत्र ‘अपपरिबहिरञ्चवः पञ्चम्या ” इत्यनेन समासः। आबालं हरिभक्तिः=आ
बालेभ्यः = बाल ङसि आ अत्र ‘आङ्मर्यादाद्रभिविध्योः ” इत्यनेन समासः।
– षष्ठीविभक्तिः
– (षष्ठ्यन्ताव्ययीभावः) – उपशरदम्=शरदः समीपम्=शरद्+ङस् उप । प्रतिविपाशम् =विपाशः
समीपम् विपाश्+ङस् उप । उपकृष्णम् =कृष्णस्य समीपम् = कृष्ण+ङस् उप । अत्र
– समीपार्थे
‘अव्ययं विभक्ति. ” इत्यनेन समासः। मध्येगङ्गम्=गङ्गायाः मध्यात् =गङ्गा+ङस् मध्य+ङसि,
पारेगङ्गम्=गङ्गायाः पारात् =गङ्गा+ङस् पार+ङसि अत्र ‘पारेमध्ये षष्ठ्या वा ” इत्यनेन समासः। =
– सप्तमीविभक्तिः
– (सप्तम्यन्ताव्ययीभावः) – अधिहरि = हरौ इति =हरि+ङि अधि । अध्यात्मम् =आत्मनि = आत्मन्+ङि
अधि अत्र‘अव्ययं विभक्ति .. ” इत्यनेन समासः।
२) तत्पुरुषसमासः – तस्य पुरुषः तत्पुरुषः, सः पुरुषः
तत्पुरुषः । प्रायेणोत्तरपदार्थप्रधानो तत्पुरुषसासः । तत्पुरुषभेद कर्मधारयः । कर्मधारयभेदो द्विगुः
। तत्पुरुषसमासः द्विविधः – व्यधिकरणः समानाधिकरणश्च ।
क) व्यधिकरणतत्पुरुषः – यत्र भिन्नविभक्तिकयोपदयोर्योगः
सः व्यधिकरणतत्पुरुषसमासः । अयं समासः विभक्तिना सह भवति ।
यथा – पूर्वकायः पूर्वं कायस्य ।
– द्वितीयातत्पुरुषः
– कृष्णश्रितः= कृष्णं श्रितः = कृष्ण+अम् श्रित+सु ।
– दुःखातीतः=दुःखमतीतः=
दुःख+अम् अतीत+सु अत्र द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ”इत्यनेन समासः।
मुहूर्तसुखम्= मुहूर्तं सुखम् = मुहूर्त+अम् सुख+सु अत्र‘अत्यन्तसंयोगे च ” इत्यनेन समासः।
– तृतीयातत्पुरुषः
– शंकुलाखण्डः =्शंकुलया खण्डः =्शंकुला+टा खण्ड+सु । धान्यार्थः = धान्येन अर्थः
= धान्य+टा अर्थ+सु अत्र ‘तृतीया तत्कृतार्थेन गुणवचनेन ” इत्यनेन समासः। मासपूर्वः
=मासेन पूर्वः = मास+टा पूर्व+सु । मातृसदृशः =मात्रा सदृशः =मातृ+टा सदृश+सु । पितृसमः
= पित्रा समः =पितृ+टा सम+सु । वाक्कलहः =वाचा कलहः = वाच्+टा कलह+सु । आचारनिपुणः=
आचारेण निपुणः=आचार+टा निपुण+सु । गुडमिश्रः=गुडेन मिश्रः= गुड+टा मिश्र+सु । अत्र
‘पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ” इत्यनेन समासः। हरित्रातः=हरिणा त्रातः=हरि+टा
त्रात+सु । नखभिन्नः=नखैःभिन्नः=नख+भिस् भिन्न+सु अत्र ‘कर्तृकरणे कृता बहुलम् ”इत्यनेन
समासः।
– चतुर्थीतत्पुरुषः
– यूपदारु= यूपाय दारु =यूप+ङे दारु+सु । भूतबलिः=भूताय बलिः=भूत+ङे बलि+सु । गोहितम्
=गवे हितम् = गो+ङे हित+सु । गो सुखम् =गोभ्यः सुखम् =गो+भ्यस् सुख+सु । । गो रक्षितम्
=गवे रक्षितम् = गो+ङे रक्षित+सु । अत्र‘चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः ” ”इत्यनेन
समासः।
– पञ्चमीतत्पुरुषः
– चोरभयम् = चोराद् भयम् =चोर+ङसि भय+सु । सिंहभयम् =सिंहाद् भयम् =सिंह+ङसि भय+सु
अत्र ‘पञ्चमी भयेन ”इत्यनेन समासः। सुखापेतः=सुखात् अपेतः=सुख+ङसि अपेत+सु । स्वर्गपतितः=
स्वर्गात् पतितः=स्वर्ग+ङसि पतित+सु अत्र‘अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ”इत्यनेन
समासः। स्तोकान्मुक्तः= स्तोकात् मुक्तः=स्तोक+ङसि मुक्त+सु । अल्पान्मुक्तः=अल्पात्
मुक्तः=अल्प+ङसि मुक्त+सु । अन्तिकादागतः=अन्तिकात् आगतः = अन्तिक+ङसि आगत+सु । दूरादागतः=दूरात्
आगतः=दूर+ङसि आगत+सु । अत्र‘स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ”इत्यनेन समासः।
– षष्ठीतत्पुरुषः
– राजपुरुषः= राज्ञःपुरुषः =राजन्+ङस् पुरुष+सु । अत्र ‘षष्ठी” ”इत्यनेन समासः । ब्राह्मणयाजकः
= ब्राह्मणस्य याजकः= ब्राह्मण+ङस् याजक+सु । देवपूजकः = देवस्य पूजकः=देव+ङस् पूजक+सु
। अत्र‘याजकादिभिश्च ”इत्यनेन समासः ।
– सप्तमीतत्पुरुषः
– काव्यकुशलः=काव्ये कुशलः = काव्य+ङि कुशल+सु । अक्षशौण्डः= अक्षेषु शौण्डः= अक्ष+सुप्
शौण्ड+सु अत्र‘सप्तमी शौण्डैः ”इत्यनेन समासः । सांकाश्यसिद्धः=सांकाश्ये सिद्धः =सांकाश्य+ङि
सिद्ध+सु । आतपशुष्कः= आतपे शुष्कः= आतप+ङि शुष्क+सु । स्थालीपक्वः=स्थाल्यां पक्वः=
स्थाली+ङि पक्वः+सु । चक्रबन्धः=चक्रे बन्धः चक्र+ङि बन्धः+सु अत्र ‘सिद्धशुष्कपक्वबन्धैश्च ”इत्यनेन समासः ।
ख) समानाधिकरणतत्पुरुषः – समानविभक्त्या सह जायमानःसमासो
हि समानाधिकरणतत्पुरुषसमासोद्रस्ति । विशेषरूपेण कर्मधारयद्विगुसमासे हि समानाधिकरणतत्पुरुषस्य
रूपे प्राप्येते(लभ्येते) । यथा – कृष्णसर्पः= कृष्णःसर्पः= कृष्ण+सु सर्प+सु अत्र‘तत्पुरुषःसमानाधिकरणःकर्मधारयः
”इत्यनेन समासः । नीलोत्पलम्= नीलम् उत्पलम् = नील+सु उत्पल+सु अत्र‘विशेषणं विशेषेण
बहुलम् ”इत्यनेन समासः । घनश्यामः – घन इव श्यामः =घन+सु श्याम+सु अत्र‘ उपमानानि सामान्य
वचनै ”रित्यनेन समासः ।
३) कर्मधारयसमासः – तत्पुरुषभेदः कर्मधारयः। तत्पुरुषःसमानाधिकरणः
कर्मधारयः । स च विशेष्यपूर्वपदोपमानोत्तरपदयोःपूर्वपदार्थस्य तदन्यस्य च उत्तरपदार्थस्य
प्रधानं भवति । यथा –
– विशेषणपूर्वपदः
– नीलमुत्पलम् = नीलोत्पलम् , नीलवस्त्रम्=नीलञ्च तद् वस्त्रम् । कृष्णसर्पः=कृष्णःसर्पः
अत्र‘विशेषणं विशेषेण बहुलम् ”इत्यनेन समासः ।
– उपमानपूर्वपदः
– घन इव श्यामः =घनश्यामः अत्र‘ उपमानानि सामान्य वचनै ”इत्यनेन समासः ।
– उपमानउत्तरपदः
– पुरुषव्याघ्रः=पुरुष व्याघ्र इव, मुखकमलम्= मुखं कमलमिव । नृपचन्द्रः= नृप :चन्द्र
इव । अत्र ‘उपमितं व्याघ्रादिभिःसामान्याप्रयोगे
”इत्यनेन समासः ।
– विशेषणोभयपदः
– कृष्णश्च श्वेतश्च =कृष्णश्वेतः । शीतोष्णम्= शीतञ्च तदुष्णम् । अत्र‘विशेषणं विशेषेण
बहुलम् ”इत्यनेन समासः। एकनाथः=एकश्चासौ नाथश्च । केवलवैयाकरणाः=केवलाश्च ते वैयाकरणाः
। अत्र‘पूर्वकालैकसर्वजरत्पुराणनवकेवलाःसमानाधिकरणेन ”इत्यनेन समासः।
– विशेष्यपूर्वपदः
– वैयाकरणश्चासौ खसूचिश्चेति =वैयाकरणखसूचिः । ब्राह्मणश्रोत्रियः= ब्राह्मणश्चासौ
श्रोत्रियः । गोवशा= गौश्चासौ वशा । अत्र ‘कुत्सितानि कुत्सनैः ”इत्यनेन समासः। मयूरव्यंसकः=
व्यंसकः मयूर (मयूरो व्यंसकः) । राजान्तरम्=अन्यो राजा अत्र ‘मयूरव्यंसकादयश्च ””इत्यनेन
समासः।
४) द्विगुसमासः – तत्पुरुषभेद कर्मधारयः। कर्मधारयभेदो
द्विगुः । संख्यावाचकशब्देन सह समाहारार्थे यत्र समासो भवति सःद्विगुःसमासःकथ्यते ।
संख्यापूर्वो द्विगुः , द्विगुरेकवचनम् , स
नपुंसकम् । द्विगुसमासः एकवदभावी अनेकवदभावी
भेदेन द्विविधः – यथा –
एकवदभावी –
– त्रिलोकम्
=त्रयाणां लोकानां समाहारः=त्रि+आम् लोक+आम् ।
– त्रिभुवनम्
=त्रयाणां भुवनानां समाहारः=त्रि+आम् भुवन+आम् ।
– पञ्चमूलम्=
पञ्चानां मूलानां समाहारः=पञ्चन्+आम् मूल+आम् ।
– पञ्चगवम्=
पञ्चानां गवानां समाहारः=पञ्चन्+आम् गो+आम् ।
– पञ्चपात्रम्=
पञ्चानां पात्राणां समाहारः=पञ्चन्+आम् पात्र+आम् ।
– पञ्चाजी=
पञ्चानां अजानां समाहारः=पञ्चन्+आम् अज+आम् ।
– त्रिलोकी
=त्रयाणां लोकानां समाहारः=त्रि+आम् लोक+आम् । अत्र‘तद्धितार्थोत्तरपदसमहारे च ”इत्यनेन
समासः।
अनेकवदभावी –
– त्रयोलोकाः=त्रिलोकाः।
– चतस्रोदिशः=चतुर्दिशः।
– सप्तर्षयः=सप्त
च ते ऋषयः। अत्र ‘दिक्संख्ये संज्ञायाम् ”इत्यनेन समासः।
५) बहुव्रीहिसमासः – प्रायेणान्यपदार्थ प्रधानो बहुव्रीहिः।
बहुव्रीहि(धान्यम्) यस्य अस्ति स बहुव्रीहिः। अथवा यत्र अन्यपदार्थस्य प्राधान्यं भवति सः बहुव्रीहिसमासः निगद्यते । अनेकं
प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते सः बहुव्रीहिः। बहुव्रीहिसमासे अन्यपदार्थस्य
प्राधान्यात् समस्तपदस्य तदनुसारेण लिङ्गवचनानि भवन्ति । समानाधिकरणव्यधिकरणभेदेन बहुव्रीहिसमासः
द्विविधः ।
१) समानाधिकरणबहुव्रीहिः – अयं समासःअप्रथमा विभक्त्यर्थे
भवति । अथवा प्रथमा विभक्तं विहाय द्वितीयातः सप्तमीविभक्तिपर्यन्तं भवति । यथा –
– द्वितीया
– प्राप्तोदको ग्रामः=प्राप्तम् उदकं यं सः ।
– तृतीया
– ऊढरथोद्रनड्वान् – ऊढःरथः येन सः, दत्तचित्तः=दत्तं चित्तं येन सः ।
– चतुर्थी
– उपहृतपशु रुद्रः – उपहृतःपशु यस्मै सः, दत्तधनो ब्राह्मणः=दत्तं धनं यस्मै सः।
– पञ्चमी
– निर्धनःपुरुषः=निर्गतं धनं यस्मात् । उद्धृतौदना स्थाली=उद्धृतम् ओदनं यस्मात् सा
।
– षष्ठी
– पीताम्बरो हरिः=पीतम् अम्बरं यस्य सः, लम्बकर्णः=लम्बौ कर्णौ यस्य सः ।
– सप्तमी
– वीरपुरुषको ग्रामः=वीराः पुरुषाः यस्मिन् सः । अत्र‘अनेकमन्यपदार्थे ”इत्यनेन समासः ।
२) व्यधिकरणबहुव्रीहिः – अयं समासःप्रथमा विभक्त्यर्थे भवति ।
– चक्रपाणिः=
चक्रं पाणौ यस्य सः,
– चन्द्रशेखरः=चन्द्रः
शेखरे यस्य सः
– उरसिलोमा=उरसिलोमानि
यस्य सः । अत्र‘अनेकमन्यपदार्थे ”इत्यनेन समासः।
६) द्वन्द्वसमासः – प्रायेण उभयपदार्थप्रधानो द्वन्द्वः
। यत्र उभयपदार्थस्य प्राधान्यं स द्वन्द्वसमासः । अनेकं सुबन्तं चकारस्य अर्थे वर्तमानं
वा समस्यते स द्वन्द्वः । समुच्चयः, अन्वाचयः, इतरेतरयोगःसमाहारश्च चकारस्य अर्थाः
। एषु अर्थेषु मध्ये समुच्चये अन्वाचये च समासो न भवति असामथ्र्यात् ।
यथा –
१. समुच्चये
– ईश्वरं गुरुं च भजस्वः, (देवदत्तःपचति यज्ञदत्तश्च) ।
२. अन्वाचये
– भिक्षामट गां चानय ।
इतरेतरयोगे
समाहारे च द्वन्द्वसमासो भवति ।
३. इतरेतरयोगः
– मिलितानामन्वय इतरेतरयोगः। अत्र उभयपदयोरर्थः प्राधानंभवति । यथा – धवखदिरौ= धवश्च
खदिरश्च ।
शिवकेशवौ=शिवश्च केशवश्च ।
हरिहरौ= हरिश्च हरश्च ।
रामौ= रामश्च
रामश्च ।
पितरौ= माता
च पिता च ।
मातापितरौ
= माता च पिता च ।
घटौ= घटश्च कलशश्च ।
होतापोतारौ= होता च पोता च । अत्र ‘चार्थे द्वन्द्वः
”इत्यनेन समासः ।
४) समाहारे
(समूहः समाहारः) अत्र समूहार्थस्य प्राधान्यं भवति । यथा – पाणिपादम् =पाणी
च पादौ च तयोः समाहारः =पाणि+औ पाद+औ, ।
संज्ञापरिभाषम् =संज्ञा च परिभाषा च एषां समाहारः
=संज्ञा+सु परिभाषा+सु ।
गवाश्वम् = गावश्च अश्वाश्च एषां समाहारः =गो+जस्
अश्व+जस् ।
अहिनकुलम् = अहयश्च नकुलाश्च एषां समाहारः=अहि+जस्
नकुल+जस् ।
नखदन्तम् =नखाश्च दन्ताश्च तयोः समाहारः=नख+जस् दन्त+जस्
।
वाक्त्वचम् = वाक्च त्वक्च तयोः समाहारः=वाक्+सु
त्वक्+सु ।
अत्र ‘चार्थे द्वन्द्वः ”इत्यनेन समासः इति ।
एवं समासः खलु पद व्युत्पादको भवतीति लघुत्वात् सः
स्वीक्र्रियते वैयाकरणैः । अन्यथा प्रत्येकं वाक्यप्रयोगापत्तिःपदप्रयोगापत्ति र्वा
स्यादिति गौरवम् ।
सन्दर्भग्रन्थसूची
– वरदराजः,
मध्यसिद्धान्तकौमुदी :डा.सुरेशचन्द्र शर्मा, वाराणसी :चौखम्बा सुरभारती प्रकाशन सन्
२००५ ।
– भट्टोजिदीक्षितः,
वैयाकरणसिद्धान्तकौमुदी :(बालमनोरमा तत्वबोधिनी सहिता) द्वितीयोभागः, दिल्ली :मोतीलाल
बनारसीदास सन् १९९७ ।
– भट्टोजिदीक्षितः,
प्रौढमनोरमा : वाराणसी :चौखम्बा अमरभारती प्रकाशनःद्वि.सं. सन् १९८३ ई । वि.सं.२०४७
।
– निरौला
पुण्य, सरल संस्कृत व्याकरण (पञ्चम भाग) , काठमाडौं:श्रीमती दुर्गादेवी निरौला , वि.सं.२०६०
।
प्रतिक्रिया व्यक्त गर्नुहोस्