Header Ads

अष्टाध्यायीपठनात् जनाः कुतो पलायिताः ?

भवानीशङ्कर भट्टराई
१.प्रस्तावना

लोकप्रचलिता भाषा व्याकरणमनुशास्तीति सुविदितमेव । परं संस्कृतप्रभृतीनां लोकेद्रप्रयुक्तानां भाषाणां प्रसङ्गे तद्विपरितं व्याकरणं भाषामनुशासयतीति वक्तव्यं भवति । संस्कृतभाषा पुरा कतिपय क्षेत्रेषु प्रचलितायामप्यधुना अध्ययनानुसन्धानादिषु परिसीमिता दृश्यते । अत एतादृश्यः भाषाः व्याकरणनियमैर्नियम्यन्ते । वाङ्मयेषु साहित्यिकरचनासु समालोचनासु वाद्रन्यदीयभाषिककृतिषु प्रयुक्तान्यु दाहरणानि पुरस्कृत्य भाषानुशासकैर्वैयाकरणैः तद्नियमाः निर्धार्यन्ते च । महामुनिना पाणिनिना अपि  स्वपूर्ववर्तिनः इन्द्रचान्द्रकाशकृत्स्नादीनां व्याकरणग्रन्थान्नधीत्य प्रमुखनियमान्नवलोक्य च लोकवेदयोः कृते बृहद् भाषिकमनुशासनं निर्धारितं तदेवमपूर्वं व्याकरणमेव पाणिनीयाष्टाध्यायी नाम्ना सादरं स्मर्यते । व्याकरणमिदं सूत्रमूलकं तथाप्येतानि सूत्राणि न साध्यानि अपि तु सङ्क्षेपेण नियमपादने साधनान्येव । अष्टषु अध्यायेषु तस्यापि चतुर्षु पादेषु विभक्तमिदं व्याकरणं न केवलं पौरस्त्यवाङ्मयसमुपासकैरपि तु ब्लुमफिल्ड–चम्स्की–फिल्मोरसदृशैः पाश्चात्यभाषविद्भिः नेकैः सर्जकैश्च प्रशंसितं वैज्ञानिकव्याकरणत्वेन सम्बोधितञ्च । पाणिनेरियमष्टाध्यायी स्वकीयगौरवातिशयेन अद्यावधिः परां प्रतिष्ठामलभत, लभमानोद्रस्ति लप्स्यते च । एतानि सूत्राण्येवोररीकृत्य महामुनिः कात्यायनः– वार्तिकानि,पतञ्जलिः– महाभाष्यं, वामनजयादित्यौ– काशिकां, भट्टोजिदीक्षितः– सिद्धान्तकौमुदीप्रौढमनोरमादीन्, नागेशः– शेखरादीँश्च रचनेन तत्र निमज्जितवन्तः । एतन्मध्ये शताधिकाः परिभाषाः, अनेकाः इष्टय–फक्किाका–वाचो युक्तयश्च रचिताः। एतादृशानि ३९९५ सङ्ख्यकानि लक्षणानि सङ्कलय्य निर्मिताया अष्टाध्याय्याः पठनपाठनक्रमः पाणिनिकालात् सञ्चलन्नागते सत्यपि इसवीयस्य द्वादशशतकात् कथं क्षीणतामुपागत इति विज्ञाय वैयाकरणमनसि चिन्तामुत्पादयति ।
बहुभिर्वैयाकरणैः प्रशंसितः सूत्रव्याख्यानादिभिः परिपोषितः सन्नप्ययमष्टाध्यायीक्रमोद्रद्यत्वे कथं क्षीणतामुपेत इति जिज्ञासामुत्थाप्य तस्याः समाधानप्रयासोद्रत्र विधीयते ।  तत्प्रसङ्गे अष्टाध्यायी(सूत्रक्रम)प्रक्रियाक्रमयो स्ववैशिष्ट्य–समुत्थापनं तत्रैव द्वयोः क्रमयोरपि पाणिनेः सङ्केत आसीदित्यस्य सूचनञ्चात्रावान्तरविषयत्वेन प्रस्तूयन्ते–
२.कश्चासावष्टाध्यायीक्रमः ?
            चतुस्सहस्रसूत्राणां पञ्चसूत्रविवर्जिताः इति वचनात् वर्णसमाम्नायैस्सहाष्टाध्यायीसूत्राणां सङ्ख्या ३९९५ वर्तत इत्यत्र प्रायस्सहमताः । तानि च सूत्राणि चतुर्षु पादेषु विभक्तानि । अष्टाध्याय्याः वैशिष्ट्यं यत् पूर्वस्मात् सूत्रात् परेद्रर्थमावर्तते । यतोद्रर्थपरिज्ञाने वृत्तेरभावादपि सारल्यमनुभूयते । तन्माध्यमेनाधीयमानो विषयः सुबोधः, स्पष्टः, चिरस्थायी च भूत्वा बुद्धावतिष्ठते । अस्मादेव कारणात् प्राक्कालिकाश्छात्राः इमां पद्धतिमङ्गीकुर्वन्ति स्म  । अस्या अपरमपि वैशिष्ट्यं यत् – भाषाणां सकलमनुशासनं सूत्राणि शासति । अवबुद्धेः च सकलसूत्रार्थे सर्वं भाषिकज्ञानं हस्तामलकवद् भवतीति ज्ञात्वा तज्जिज्ञासवोद्रत्र निमज्जन्ते ।
३.कश्च प्रक्रियाक्रमः ?
            सूत्रस्याध्यायपादसङ्ख्यानां क्रमं व्यतिरिच्य प्रयोगसरणेरनुसरणं प्रक्रियाक्रमः । यथा– संज्ञासन्धितः सकलसन्धिप्रक्रियां व्याख्याय सुबन्तीयाजन्तहलन्तशब्दानां रूपसिद्धि–तद्रूपनिदर्शनं  कारकसमासतद्धित तिङन्तान्तर्गतानां कृदन्तीयान्तर्गतानाञ्च प्रयोगाणां प्रक्रियाप्रदर्शनं प्रक्रियाक्रमस्य वैशिष्ट्यम् । अद्यत्वे जनाः लक्ष्यैकचक्षुष्काः स्वल्पप्रयासेनापि सद्यफलाकाङ्क्षिणः सञ्जाताः । प्रक्रियाक्रमस्तु अच्सन्धिरेव पठितानपि जनान् फलं प्रददाति, अतोद्रस्य महŒवं प्रतिदिनं प्रवर्धमानं प्रतीयते ।
४. अष्टाध्यायीक्रमस्य वैशिष्ट्यम् 
                        अष्टाध्यायी महाभाष्ये द्वे व्याकरणपुस्तके  ।
ततोद्रन्यत् पुस्तकं यत्तु तत्सर्वं धूर्तचेष्टितम् ।।
कार्यकालपक्षस्य समुपपोषकैः जनैः स्थापिते च प्रक्रियाक्रमे प्रायो विलुप्तायाः अष्टाध्याय्याः पठनपाठनप्रणाली विरजानन्दसरस्वतीमहोदयेन एकोनविंशतितमे इसवीयशतके पुनरुज्जीविता, दयानन्दसरस्वतीप्रभृतिभिर्वैयाकरणैः पुष्पितपल्लविता च  । ( मीमांसकः, २०३० : ५२५) विरजानन्दसरस्वत्याः उपरितनस्थश्लोकानुसारेण तु प्रक्रियानुसारिणः सर्वेद्रपि ग्रन्थाः निष्प्रयोजनाः वर्तन्त इति वक्तव्यं भवति । वस्तुतः श्लोकोद्रयं सूत्रक्रमस्य निरतिशयप्रशंसायां प्रयुक्तो न तु वास्तविकः इति मन्तव्यः ।  यत् किमपि स्यात्, सूत्रक्रमे सन्ति नैकानि वैशिष्ट्यानि तानि क्रमशोद्रधः प्रस्तूयन्ते–
४.१ अनुवृत्यादिप्रयोगः– आद् गुण इति सूत्रे अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् संहितायामिति वृत्तिरस्ति, तच्च सूत्रेद्रविद्यमानत्वात् अचीति पदं इको यणचि इत्यस्मात्, पूर्वपरयोरिति पदं एकः पूर्वपरयोरिति सूत्रात् संहितायामिति च परः सन्निकर्षः संहिता इति सूत्रादावर्तनीयं भवति । सूत्रक्रमेण पठिते तु पूर्वेभ्यः सूत्रेभ्यः: कीदृशानि पदानि आवर्तन्ते, किञ्च सूत्रं कस्मिन्नध्यायपादान्तमधिगच्छतीति छात्राः निसर्गतो जानन्ति । दर्शनकेसरी गोपालशास्त्रिणा विरचितायामष्टाध्याय्यां तु अग्रेद्रनुवत्र्यं पदं स्थूलाक्षरैः सङ्केतितमपि । तच्चाधिकारस्त्रिधाधिक्रियत इति अभियुक्ताः प्राहुस्तद्यथा–
                        सिंहावलोकितं चैव मण्डूकप्लुतमेव च ।
                        गंगाप्रवाहवच्चापि अधिकारस्त्रिधा मताः ।।  (ईश्वरचन्द्रः, २००४ : भूमिकायाम् )

४.२ विध्यादिसूत्राणामेकत्र प्रयोगः– अष्टाध्याय्यां इडागम–षत्व–णत्व–नुमागम–द्विर्वचनादिकार्यसम्पादकानि विधिसूत्राण्येकत्र सन्ति, अतस्तेषामन्वेषणं बाध्यबाधकभावबोधनमर्थापनञ्च क्रमिकतया सुकरं, कौमुद्यान्त्वनेकत्र सन्निहितादर्थबोधेद्रपि काठिन्यमनुभूयते ।
४.३ विप्रतिषेधादीनामर्थापने काठिन्यम् – अष्टाध्यायीक्रमं व्यतिरिच्य विप्रतिषेधे परं कार्यम्, असिद्धवदत्राभात्, पूर्वत्रासिद्धम् इत्यादिषु सूत्रेषु विद्यमानानां पूर्व–परः,आभात्, सपादी–त्रिपादी सदृशानामर्थबोधः दुष्करः, तस्य कृते सूत्राणां क्रमज्ञानस्यापेक्षितत्वात् ।
४.४ लाघवं व्याकरणम् – प्रक्रियावलम्बिभिः चतुष्पञ्चगुणिता वृत्तिरप्यध्ययनीया, तदध्ययनेनापि तत्रत्यानि पदानि कुतः आयातानीति न बुध्यते, अतः क्रमहीनं ज्ञानं शीघ्रं विस्मरणकारकं भवति । तथैव प्रक्रियाक्रमेणाधीते न्यूनातिन्यूनमपि द्विगुणितः काल आवश्यकः । द्वादशभिर्वर्षैः व्याकरणं श्रूयत इत्याभणकमपि  सम्भवतः प्रक्रियाक्रमानुरोधकमेव मन्ये । सूत्रक्रमेणाध्ययने तु  तत्रत्याः सकलविषयाः पञ्चषट्वर्षेष्वेव बोधगम्याः भवन्तीति लाघवमिदमिति व्याकरणविद उद्घोषयन्ति ।
४.५ पारिभाषिकसंज्ञादिप्रयोगः– पारिभाषिकसंज्ञा (टि–घु–भ–उपधा–प्रातिपदिक–सर्वनास्थान–विभाषा– निष्ठा– संहिता–प्रगृह्यप्रभृति)प्रत्याहारविधि–अनुबन्ध–अनुवृत्ति–प्रकृतिभाव–एकादेश–पूर्वरूप–पररूप–आगम–आदेश–योगविभाग– उत्सर्गा पवाद–अन्तरङ्ग–बहिरङ्गादिविशेषनियमतः पाणिनीयाष्टाध्यायी सङ्क्षिप्ततमेति पाश्चात्यैरप्यूररीकृता । अतोद्रस्याः सङ्क्षिप्तत्वं सर्वातिशायि वैशिष्ट्यम् । एतादृशीं लाघवत्वमवलोक्यैवार्वाचीनाः विशेषतः पाणिनीयसूत्रमधिकृत्य अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणा इत्युद्घोषयन्ति ।
अष्टाध्याय्यां  अन्यान्यपि सन्ति बहूनि वैशिष्ट्यानि, तथाप्यत्र विस्तारभयादित्येव ।
५.प्रक्रियाक्रमस्य वैशिष्ट्यम्
                        कौमुदी यदि कण्ठस्था वृथा भाष्ये परिश्रमः ।
                        कौमुदी यद्यकण्ठस्था वृथा भाष्ये परिश्रमः ।।
प्रक्रियाक्रममाश्रित्य विरचितेषु सिद्धान्तकौमुदी–मनोरम–शेखर–शब्दकौस्तुभादिषु सत्स्वनेकेष्वपि ग्रन्थेषु सूत्रक्रमस्यान्धप्रशंसकैः विरजानन्दसरस्वतीवर्यैः एतादृशाः सकलग्रन्थाः धूर्तचेष्टायित मित्युद्घोषितत्वाद् तादृश्यासूयया ज्वलितं प्रति सम्भवतः लक्ष्यीकृत्य विरचितमिदं पद्यम् । कोद्रपि पाणिनेरनुयायी महाभाष्यं निरर्थकमुद्घोषयितुं सहसा न प्रवर्तते अतः पद्यमिदं कोपप्रभवमिति मन्ये ।  
    पाणिनीयव्याकरणस्याध्ययनं सूत्रक्रमेणैव प्रचलता प्रक्रियाक्रमेण विरचितानि कातन्त्रादीनि लघुकलेवरयुतान्यनेकानि व्याकरणानि समागतानि, तदवलोक्य स्वल्पमेधाविनः प्रायच्छात्राः तत्राकर्षिताः, ततः पाणिनीयव्याकरणं क्षयतां प्राप्तञ्च ।  एतादृशीमवस्थां परिज्ञाय पाणिनीयव्याकरणानुयायिनः धर्मकीति–कृष्णलीलांशुकमुनि–विमलसरस्वती–रामचन्द्र–भट्टोजिदीक्षितप्रभृतयः लक्ष्यैकचक्षुष्काः वैयाकरणाः क्रमशः रूपावतार– प्रक्रियारत्न– रूपमाला– प्रक्रियाकौमुदी– सिद्धान्तकौमुदीसदृशान् चानेकप्रक्रियाग्रन्थान् विरचितवन्तः, शेषकृष्णनागेशादयः तेषु कतिपयान् व्याख्यातवन्तश्च । प्रक्रियारचनायां महामुनेः पाणिनेरेव सङ्केत आसीदित्युक्त्वा नाज्झलौ इति सूत्रान्तर्गतानि वर्णानामुपदेशस्तावत्.... इत्यादीनि वाक्यानि अदेङ्गुणः इति सूत्रस्थं तपरकरणञ्च प्रमाणत्वेनोदाहरन्ति तज्ज्ञाः । एतादृशानि सकलवैशिष्ट्यान्यधः प्रस्तूयन्ते–
५.१ अदेङ्गुण इत्यत्र तपरकरणम् – अदेङ्गुणः इति सूत्रे  तपरकरणं विधाय पाणिनिमुनिरपि प्रक्रियाक्रमं स्वीचकार, तद्यथा– प्रथमं वर्णानामुपदेशस्तावत्.... इत्यादिक्रमे वर्णसमाम्नायानामुपदेशानन्तरं हलन्त्यमित्यनेनेत्संज्ञा विधीयते ततः आदिरन्त्येन प्रत्याहारसंज्ञा ततो तुल्यास्यप्रयत्नमिति सवर्णसंज्ञायां तत्प्रसङ्गे नाज्झलाविति सूत्रेणाज्झलोः सवर्णसंज्ञा निषिध्यते, तदनन्तरमेव अणुदिति सूत्रेण सवर्णग्रहणं क्रियते । यदि अणुदिदिति सूत्रात् पूर्वं अदेङ्गुण इति स्यात्तदा तु अकारेण दीर्घप्लुतादीनामग्रहणात् तपरकरणं व्यर्थं भवेत् । सूत्राणि नानर्थकानि अतो निश्चीयते यत् – अदेङ्गुण इत्यत्र तपरकरणात् अणुदिदिति सूत्रपाठानन्तरमेव अदेङ्गुणस्य पाठः पाणिनिना स्वीकृतः, (आचार्यः,२०६० : भूमिकायां  ब–भ) एतेषु सूत्रक्रमस्य भङ्गत्वात् पक्षान्तरे प्रक्रियापक्षोद्रपि स्वीकृत इति मन्तव्यः ।

५.२ महाभाष्यवाचः प्रमाणम् – महामुनिपतञ्जलिना नाज्झलाविति सूत्रं व्याख्यायता वर्णानामुपदेश स्तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल आदिरन्त्येन सहेतेति प्रत्याहारः, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, सवर्णसंज्ञोत्तरकालमणुदित्सवर्णस्य चाप्रत्यय इति सवर्णग्रहणम् ( पतञ्जलिः, १९९५ : २३०) इत्युक्तम् ।  एतत्सर्वं प्रक्रियाक्रमानुरोधकमत पतञ्जलिमुनिना वैकल्पिकेन प्रक्रियाक्रमोद्रपि स्वीकृत इति मन्ये ।
५.३ एकत्र वाक्यार्थबोधः– संज्ञापरिभाषाविषये यथोद्देशकार्यकालपक्षयोर्मध्ये कोद्रभिप्रेत इति जिज्ञासायां परिभाषेन्दुशेखरे नागेशः यथोद्देशं संज्ञापरिभाषं कार्यकालं संज्ञापरिभाषञ्च भगवता पाणिनिनाङ्गीकृतमित्युक्त्वा आकडारादेका संज्ञा तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यादिसूत्राण्युदाहरति (नागेशः, २०४४ : ४–११) सूत्राणामर्थबोधः केन विधिना विधेय इत्यत्र विद्वद्भिः द्वौ विधी विनिर्दिष्टौ, तद्यथा–
प्रथमाध्यायस्य प्रथमपादस्थं वृद्धिरादैच् अदेङ्गुणः संज्ञासूत्रं प्रागधीत्य तच्च बुद्धौ स्थिरीकृत्य षष्ठाध्यायस्य वृद्धिरेचि आद्गुण सदृशे च विधिसूत्रे समागते तत्र वृद्धिरिति कथनेन आदैचां गुणशब्देन अदेङां बोधनं सुकरमिति यथोद्देशः, तद्विपरितं अदेङ्गुणस्य प्रसङ्गे एव आद् गुण इत्यस्यापि, वृद्धिरादैच् इत्यत्रैव वृद्धिरेचि  इत्यस्यापि  वाक्यार्थज्ञानं कार्यकालमिति । संज्ञाविधिसूत्रयोः परिभाषाविधयोश्चैकत्र वाक्यार्थबोधे तथैवान्यविधीनां सूत्राणामपि विधिदेशे एव वाक्यार्थबोधे तज्ज्ञानं दृढतरं जायत इति कथनं प्रक्रियापक्षस्य महद्वैशिष्ट्यम् ।
५.४ सूत्रक्रमेप्यनेकता– सूत्रक्रमपक्षीयाः प्रयोगपक्षीयान् आरोपयन्ति षत्वणत्वनुमागमादिविधायकानां सूत्राणामनेकत्र प्रवर्तनात् तेषां बाध्यबाधकभावबोधेद्रर्थबोधे च काठिन्यमिति, परं सूत्रक्रमेद्रपि सर्वत्र क्रमिकता  न दृश्यते, तद्यथा– अष्टाध्याय्यामपि समासविधायकानि समासान्तप्रत्ययविधायकानि च सूत्राणि क्रमशः द्वितीयषष्ठाध्याययोः संस्थापनात् छात्राः दिग्भ्रमायन्ते । तथैव प्रथमं लुङ् इति सूत्रं विलिख्य ततः लङ्,लिट्लकारविधायकानि सूत्राणि तृतीयाध्यायस्य द्वितीये पादे चोल्लिख्य तस्य तृतीयपादे उणादिप्रत्ययप्रसङ्गमध्ये लृट् लुट्लकारविधायकानां सूत्राणां व्यवस्थापनं कथं प्रासङ्गिकं भवेत् ? पुनश्च व्यत्ययेन लकारविधायकसूत्रसंस्थापनात् तदधीयमानेषु बालेषु भ्रान्तधारणा समुदेतीति निश्चितम् । एतादृशानि प्रसङ्गव्यवहितसूत्राण्यष्टाध्याय्यां बहुत्र सन्ति ।

५.५ स्वल्पज्ञानेनापि सिद्धिः– जिज्ञासूनां प्रक्रियायां संलग्ने तदपि कारणं यत् अच्सन्धिरेव सम्यग्बोधितोद्रपि जनः यण्–अयादि–गुण–वृद्धि–पररूप–पूर्वरूप–प्रकृतिभावादिसन्धीनां तेषामुदाहरणप्रत्युदाहरणानाञ्च ज्ञानमाप्नोति । यस्मात् तत्र संलग्नाः उदाहरणान्तरेष्वपि सन्धिकर्तुं विच्छेत्तुं च प्रभवन्ति  । तथैव कारकसमासतद्धितकृदन्त स्त्रीप्रत्ययमात्रस्य ज्ञानेनापि तत्र निपुणायन्ते । सूत्रक्रमे तु न्यूनातिन्यूनमपि आषष्ठाध्यायमध्ययनेन  बोधः सफलतामेति । अस्मादेव आधुनिकाः प्रक्रियाक्रममनुधावन्ति ।
प्रक्रियाक्रमेषु सत्स्वनेकेष्वपि वैशिष्ट्येषु चात्र इत्येव ।
६. अष्टाध्यायीपठनात् छात्राणां पलायने कारणानि
            भगवता पाणिनिना येन क्रमेण सूत्राणि विरचितानि तेनैव क्रमेण पाठकेनापि पठिते सूत्राणां मर्मबोधने तस्यान्तप्रविशने च सौविध्यं जायत इत्यत्र नास्ति कस्यापि विमतिः । तामेव सरणिमनुसरन् महाभाष्यकाशिकाकाराभ्यां तथान्यैः बहुभिर्वैयाकरणैः ग्रन्थाः विरचिताः, व्याख्याताश्च । आधुनिकाः प्रायो भारतीयनैपालकाश्च वैयाकरणा पाणिनीयक्रमं भूरि भूरि प्रशंसन्ति, तथापि आर्यसमाजीभ्यो व्यतिरिक्ताः अल्पशः जना अपि तत्क्रमं नानुसरन्ति, तत्र किं कारणं भवेदिति पुनः पुनः विचारणीयम् ।
            अद्यत्वे प्रायश्छात्राः अष्टाध्याय्याः अन्तिमाध्यायान्तं पादान्तं च पठनार्थं धैर्यं नावहन्ति । मासैकमध्ययनेनापि फलमाकाङ्क्ष्यन्ते, एतत्प्रकारकं सद्य फलमष्टाध्यायीतोद्रप्राप्य  केचन  तत्पठनात्  कतिपये तु प्रारभ्यापि पलायन्ते । एतस्मात् पलायने सन्ति बहूनि कारणानि, तेषु– समग्ररटनं दैनन्दिनी आवृत्तिश्च, अष्टाध्याय्याः लक्षणप्राधान्यं, अष्टाध्याय्यां सर्वाङ्गत्वाभावः, कार्यकालपक्षीयाश्चा धुनिकच्छात्राः,समयस्य प्रवाहः प्रभृतीनि सम्भवन्ति कारणानि, तान्यधः क्रमशः प्रस्तूयन्ते–
६.१ समग्ररटनं दैनिन्दिनी आवृत्तिश्च – अष्टाध्याय्यां संज्ञापरिभाषातिदेशसूत्राणि प्रथमाध्याये विधिसूत्राणि च षष्ठाध्याये विद्यमानात् तयोर्वाक्यार्थबोधाय न्यूनातिन्यूनघोषणसमर्थकैरपि षष्ठाध्यायान्तमवश्यं पठनीयं भवति, पुनश्च प्रतिदिनं तदावर्तनीयञ्चावश्यकम् । उदाहरणप्रत्युदाहरणशङ्कासमाधानादिकं विनैव सूत्रघोषणं दुश्शक्यम् । सुकुमारमतिमतां छात्राणां कृते तन्नीरसं निरर्थकञ्च प्रतीयते, अतस्तद् विषये किञ्चित् श्रूतोद्रपि छात्रः नाकर्षति, बलादानीतः सन्नपि कतिदिनाभ्यन्तरमेव पलायते । प्रक्रिया तु तदपेक्षया सुबोध्या उदाहरण—प्रत्युदाहरण—शङ्का—समाधानादिभि—व्र्यापृता, बालानां पठने बोधने सरला च । आद् गुण इत्यस्य वृत्तिं पठिते तद्रटनं विनापि अवर्णात् इकारे उकारे ऋकारे च परे क्रमशः ए,ओ,अर् गुणो भवतीति ज्ञातुं शक्यते । तथैव अवर्णात् इवर्णात् ऋवर्णात् लृवर्णाच्च सवर्णे परे सवर्णदीर्घो भवतीति बोधः तस्मात् सुकरः ।  आधुनिकाः प्रायश्छात्राः सूत्रादिरटनार्थमलसायन्त इति सुविदितमेव । अद्यतनीया शिक्षानीतिरपि रटने न प्रोत्साहयते । अर्थे परिज्ञाते सत्यपि सूत्रघोषणं प्रतिदिनं तस्याःआवृत्तिश्च तस्मात् पलायने कारणमस्तीति निश्चितम् । 
६.२ अष्टाध्याय्याः लक्षणप्राधान्यम् – अष्टाध्यायीयं लक्षण(सूत्र)मूलकं न तूदाहरण प्रत्युदाहरणादिस्थापनशङ्कानिवारणमतान्तरप्रदर्शनतद्विश्लेषणसमर्पकञ्च । तद्विधौ चैतानि सर्वाण्यष्टाध्यायीमधीत्य महाभाष्ये पठनीयानि । सुकुमारमतिवद्भ्यः बालेभ्यः प्रथमं सूत्रमेव पाठ्यमिति धारणया गुरवोद्रपि प्राक् सूत्राण्येव पाठयन्ति, गुरुभिरुदाहरणादिषु ग्रन्थान्तरेभ्यश्चानीतेष्वपि तदपि तेषां ज्ञानाधीनं भवति तस्मात् छात्राणां बोधे नैकत्वमायाति । पुनश्चाष्टाध्याय्यां सूत्राणामेव सन्निवेशात् छात्राणां रटने दुःखावहमुदाहरणादीनामभावात् एकाङ्गत्वञ्चानुभूयते । महाभाष्यकारोद्रपि पश्पशान्हिके लक्ष्यलक्षणसमुदितं व्याकरणं भवतीति निर्दिशति, परमत्र तस्यैकदेशमेव सन्निहितमतः तादृशी प्रणाली बहुच्छात्रेभ्यः न रोचते ।
६.३ अष्टाध्याय्यां सर्वाङ्गत्वाभावः – प्रक्रियाक्रमानुधाविनच्छात्राः वर्तमाने लडिति सूत्रस्य प्रसङ्गे सकर्मकाकर्मकत्वं, कर्तृकर्मभाववाचित्वं, आत्मनेपरस्मैपदत्वं प्रथममध्यमोत्तमपुरुषत्वं, लकाराणामर्थान् कालाञ्च पठन्ति । एतत्प्रसङ्गे कालार्थबोधकानां लकाराणां रूपाणि तत्सिद्धिप्रक्रियादीनि च जानन्ति । एतत्सर्वं अष्टाध्याय्यां नोपलभ्यते । तथैव धातुगणोणादिपाठादिकमपि प्रक्रियाक्रमे एवाधिगच्छन्ति । पुषादिद्युतादिरुधादीनां गणबोधः, वाद्रसरूपोद्रस्त्रियामित्यस्य शङ्का, पृषोदरादीनां रूपसिद्धिप्रक्रियाः, फक्किकापारिभाषावार्तिकानामर्थज्ञानं, स्वरवैदिक प्रक्रियादिग्दर्शनं, गौणे कर्मणि दुह्यादेः सदृशानां कारिकाणां सोदाहरणमर्थबोधश्च छात्राः प्रक्रियायामेव लभन्ते । एतानि सकलाङ्गान्यष्टाध्याय्यां न सन्तीति तस्यां सर्वाङ्गत्वाभावो निश्चितः ।
६.४ कार्यकालपक्षीयाश्चाधुनिकच्छात्राः – छात्राणां पठने एकाग्रत्वं प्रतिदिनं क्षयत्वं गच्छन्नस्ति । प्राचीनेद्रन्तरायाणामभावात् ते मनोयोगपूर्वकमेकाग्रमानसा व्याकरणादिकमधीत्य तत्र नैपुण्यं लभन्ते स्म ।  तदानीं  स्वगृहे पठनादिकं न प्रचलति  । अभिभावकाः स्वपुत्रान् वशिष्ठविश्वामित्रादीनां गुरोः सकाशं प्र्रेषयित्वा   पाठयन्ति स्म, परमधुना छात्राणां विघ्नकारकाणि बहुसाधनानि समागतानि । तेभ्यः सञ्चिते समये एव ते व्याकरणादिकं पिपठिषन्ति, अतोद्रधुना कार्यकालपक्षीयान् छात्रान् लक्ष्यीकृत्य व्याकरणं पाठनीयं भवतीति अष्टाध्याय्यां तदभावादष्टाध्यायीपठनात् पलायन्ते छात्राः ।
६.५ समयस्य प्रवाहः– समय एव करोति बलावलमिति नीतिवचनानुसारेण वार्तमानिकः समयोद्रष्टाध्यायीपक्षे न वर्तते । प्रक्रियाया आगमनानन्तरं गुरुभिः तत्र प्रेरितेन छात्रारप्याकर्षिताः,  समयोद्रपि प्रक्रियाश्रयायते  । अतोद्रपि अष्टाध्यायीतः प्रायश्छात्राः पलायिताः इति मन्तव्यः ।
७. निष्कर्षः
            उपरितनस्थितस्य भाषाव्याकरणयोरनुशानस्याष्टकप्रक्रियाक्रमवैशिष्ट्यस्य चाध्ययनेन अष्टाध्यायीपठनात् छात्राणां पलायने सम्भावितकारणानामन्वेषणेन च निम्नाङ्किताः निष्कर्षाः समायान्ति–
–          सस्कृतभाषाया अनुशासकं पाणिनीयव्याकरणं प्राग्व्याकरणवाङ्मयसाहित्यादिषु प्रयुक्तानि उदाहरणानि सङ्कलय्य विरचितम् ।
–          पाणिनीयाष्टाध्यायी ब्लुमफिल्ड–चम्स्की–फिल्मोरसदृशैः पाश्चात्यभाषाविद्भिः नेकैः सर्जकैश्च प्रशंसिता वैज्ञानिकव्याकरणत्वेन सम्बोधिता च ।
–          भगवता पाणिनिना सञ्चालिते सूत्रक्रममूलकेद्रध्ययने पारिभाषिकसंज्ञानुबन्धागमादेशानां उत्सर्गापवादाधिकारादीनाञ्च  सन्निवेशात् सङ्क्षिप्तत्वं प्रतीयते ।
–          पाणिनीयव्याकरणस्य क्षयकाले प्रक्रियाकृद्भिपुनरुद्धारिते तत्क्रमेद्रपि सूत्रेण सार्धमेव उदाहरणप्रत्युदाहरणशङ्कासमाधानादीनि वार्तिकफक्किकापरिभाषादीनि च समागतानि ।
–          सूत्रकृता पाणिनिना अदेङ् गुण इति सूत्रे तपरकरणेन महाभाष्यकृता पतञ्जलिना च वर्णानामुपदेशस्तावत्.... इत्यादिवाक्यद्वारा प्रक्रियापक्षोद्रपि वैकल्पिकेन स्वीकृत इति समालोचकाः प्राहुः । 
–          अष्टाध्यायीपठनात् छात्राणां पलायने रटनमूला शिक्षानीतिः,अष्टाध्याय्याः लक्षणमूलत्वं, तस्यां सम्पूर्णताभावः, छात्राणां मनोयोगशैथिल्यं,समयस्य प्रवाहः प्रभृतीनि सन्ति कारणानि।
–          अष्टाध्याय्यारध्ययनस्य पुनरुज्जीवनायोदारण—प्रत्युदाहरण—शङ्का—समाधान—वार्तिक फक्किकादिभिः विभूषिताः तद्व्याकृता च कौमुदीसदृशाः ग्रन्थाः निर्मातव्याः ।
                             
सन्दर्भसामग्रीसूची
–          आचार्यः हरिप्रसाद, वि.सं.२०६०. शारदाप्रभाव्याख्यामहिताष्टाध्यायी, काष्ठमण्डपम्  – म.सं.वि. नेपालः ।
–          गौडशास्त्री अशोकचन्द, विं.सं.२०५५. संस्कृतव्याकरणशास्त्रेतिहासविमर्शः, वाराणसी – भारतीय विद्यासंस्थानम् ।
–          जिज्ञासु ब्रह्मदत्तः, २०००. अष्टाध्यायीभाष्य प्रथमावृत्तिः (तृ.सं.) हरयाणा – रामलाल कपुर ट्रस्ट ।
–          देवकोटा,   विष्णुप्रसादशर्मा. प्रक्रियाकौमुदीसिद्धान्तकौमुद्योः समीक्षणात्मकमध्ययनम् (अप्र. विद्यावा.शोधः)म.सं.वि.नेपालः,२०५२  ।
–          नागेशः, परिभाषेन्दुशेखरः,  १९८७  (अष्टमसं.) , वाराणसी : चौखम्बा संस्कृत संस्थान ।
–          पतञ्जलिः, १९९५.   व्याकरणमहाभाष्यम्, वाराणसी – मोतीलाल वनारसीदासः ।
–          पाणिनिः (व्या.–पं ईश्वरचन्द्र)  २००४. अष्टाध्यायी भाग–१–२,  दिल्ली–चौखम्बा संस्कृत प्रतिष्ठान ।
–          भट्टोजिदीक्षितः, १९७४. वैयाकरणसिद्धान्तकौमुदी (सम्पूर्णम्), बम्बई –खेमराज श्रीकृष्णदास ।
–          भट्टोजिदीक्षितः,(व्या.गोपालदत्तपाण्डेय) १९९६. वैयाकरणसिद्धान्तकौमुदी (प्रथमभागः), वाराणसी– चौखम्बा सुरभारती प्रकाशन ।
–          मीमांसक युधिष्ठिरः, (२००७).संस्कृत व्याकरणशास्त्रका इतिहास (पहला भाग), (तृ.सं.)  हरयाणा : रामलाल कपुर ट्रष्ट ।
–          वामन–जयादित्य, १९८५. काशिका (न्यास, पदमञ्जरी, भावबोधिनी सहिता), वाराणसी–तारा प्रिन्टिङ वक्र्स ।
Powered by Blogger.